अवधूयेति । तां बुद्धिं तस्यां तद्बुद्धिम् । अवस्थितःस्वस्थचित्तः । सीतां प्रति तद्विषयामन्यचिन्तां पूर्वचिन्ताविघटितां जगाम ॥ ५।११।१ ॥
अविचारान्ममैतादृशी बुद्धिर्जातेत्याह न रामेणेत्यादिश्लोकद्वयेन । अन्यं नरम् उपस्थातुमङ्गीकर्तुं नार्हति नाध्यवस्यति । तत्र हेतुः नहि रामेति । यद्येवमतो ऽन्येयमनुभूतेति निश्चित्य तत्र गृहे पानभूमौ पानशालायां चचार, पुनस्सम्यगन्वेषणायेति शेषः ॥ ५।११।२,३ ॥
पानभूमावित्यारभ्य ददर्श हरियूथपः इत्यन्तमेकं वाक्यम् । रताभिरतसंसुप्तमित्यत्र विशेष्यत्वेन रावणमित्यध्याहर्तव्यम् । तथा च हरियूथपः पानभूमिं च उक्तविशेषणविशिष्टाः स्त्रियश्च अङ्गनासहस्रेण सह रावणं च ददर्शेति सम्बन्धः । क्रीडादिभिरुपलक्षिताः, पानविप्रहताः पानेन मत्ताः, संविष्टाः सुप्ताः । रूपसँल्लापशीलेन स्वस्वसौन्दर्यवर्णनस्वभावेनेत्यर्थः । युक्तगतीतार्थभाषिणा युक्तमुपपन्नं यथा तथा गीतस्य भरतशास्त्रस्यार्थं भाषितुं शीलमस्येति तथा तेन, भरतशास्त्रार्थव्याख्यानचतुरेणेत्यर्थः । देशकालाभियुक्तेन देशकालाभिज्ञेनेत्यर्थः । युक्तवाक्याभिधायिना अवसरोचितभाषिणा ॥ ५।११।४६ ॥
रताभिरतसंसुप्तं रताभिरतश्चाशौ संसुप्तश्च तम्, रतिश्रान्त्या सुप्तमित्यर्थः ॥ ५।११।७,८ ॥
परिकीर्णः परिवेष्टितः ॥ ५।११।९ ॥
सस्त्रीकरावणगृहे पुनस्सम्यगन्विष्य पुनर्बहिः पानभूमिमागत्य विचिनोति सर्वकामैरिति । पूर्वं नृत्यादियुक्ततत्स्थस्त्रीमात्रदर्शनम्, इदानीं तस्यास्सर्वकामोपेतत्वदर्शनम् ॥ ५।११।१० ॥
तदेव प्रपञ्चयति मृगाणामिति ॥ ५।११।११,१२ ॥
वराहः सूकरः, वार्ध्राणसः पक्षिविशेषः “कृष्णग्रीवो रक्तशिराः श्वेतपक्षो विहङ्गमः । स वै वार्ध्राणसः पक्षी " इति विष्णुधर्मोक्तेः । छागविशेषो वा ॥ " त्रिपिबं त्विन्द्रियक्षीणं श्वेतं वृद्धमजापतिम् । वार्ध्राणसं च तं प्राहुर्याज्ञिकाः श्राद्धकर्मणि ॥ " इति स्मरणात् । त्रिपिबं त्रिभिः मुखेन कर्णभ्यां च पिबतीति त्रिपिबम् । खङ्गमृगो वा । " वार्ध्राणसः खङ्गमृगः " इति हलायुधः । दधिसौवर्चलायुतान् दधिसौवर्चलाभ्यां संस्कृतानित्यर्थः । सौवर्चलं रुचकाख्यं लवणम् । “सौवर्चलं स्याद्रुचकम्” इत्यमरः । शल्यान्, शल्यः श्वावित् ॥ ५।११।१३ ॥
क्रकरान् क्रकराख्यपक्षिविशेषान् । कृसरानिति पाठे तैलादिमिश्रितौदनान् । सिद्धान् पक्वान् ॥ ५।११।४ ॥
एकशल्यान् मत्स्यविशेषान् । कृतनिष्ठितान् कृतेन हिङ्गुमरीच्यादिना निष्ठितान् षाडवाः । तदुक्तम् " सितामध्वादिमधुरा रागास्ते स्वच्छतां गताः । ते सान्द्राः षाडवा लेह्यास्ते वस्त्रगलिताः " इति, " सितामध्वादिमधुरो द्राक्षादाडिमजोरसः । विरलश्चेत्कृतो रागः सान्द्रश्चेत्षाडवः स्मृतः ॥ " इति च ॥
५।११।१६,१७ ॥
तत्र तत्रेत्यादि श्लोकद्वयमेकं वाक्यम् । पानभूमिः तैः प्रदीप्तेवोपलक्ष्यत इति सम्बन्धः ॥ ५।११।१८ ॥
बहुप्रकारैः बहूपादानभवैः अत एव विविधैः विविधरसवद्भिः, वरसंस्कारेण श्रेष्ठसंस्कारद्रव्ययोगेन संस्कृतैः, कुशलसंयुक्तैः निपुणपाचकपक्वैर्मांसैः ॥ ५।११।१९ ॥
दिव्याः सुराः समुद्रमथनोत्पन्नाः सुराः । कृतसुराः कृत्रिमसुराः । ता एवाह शर्करासवेत्यादिना । शर्करासवाः शर्करया कृताः, माध्वीकाः मधुना कृताः । मार्द्वीका इति पाठे द्राक्षाफलविकारा वा । " मृद्वीका गोस्तनी द्राक्षा " इत्यमरः । पुष्पासवाः पुष्पमकरन्दकृताः । फलासवाः फलरसैः कृताः । वासचूर्णैः अधिवासचूर्णैः सुगन्धिचूर्णैरित्यर्थः । सह उक्तसुरा दृष्टाः, कपिनेति शेषः । सन्ततेत्यादिसार्धश्लोकमेकं वाक्यम् । हिरण्मयैः रजतमयैः माल्यादिभिः संवृता भूमिः शुशुभ इति सम्बन्धः ॥ ५।११।२०२३ ॥
स इति । शीधोः मद्यस्य ॥ ५।११।२४ ॥
अर्धावशेषाणि अर्धावशिष्टपानानि । पीतानि पीतासवानि । नैवप्रपीतानि पूर्णासवान्येव । पानानि पानभाजनानि ॥ ५।११।२५ ॥
भागशः विभागेन । पानानि ददर्श इदममुकमिदममुकमिति विभज्य ददर्शेत्यर्थः ॥ ५।११।२६ ॥
क्वचिदिति । करकैर्घटैरिति सहयोगे तृतीया ॥ ५।११।२७ ॥
शून्यानि बहुधा पुनः इति पाठः । शून्यानि पतिशून्यानि, अत एव परस्परं समाश्लिष्येति । निद्राबलपराजिता इत्यन्तस्य पश्यन्वै विचचारेति पूर्वेण सम्बन्धः ॥ ५।११।२८,२९ ॥
तासामिति । गात्रजं गात्रस्थम् ॥ ५।११।३० ॥
चन्दनस्येत्यादि । मारुतश्चन्दनादेश्च स्नानानां स्नानार्हचन्दनानां धूपानां विविधं गन्धमुद्वहन् प्रववौ । अत एव सुरभिः घ्राणतर्पणः गन्धः विमाने मूर्च्छितः व्याप्त इति सम्बन्धः ॥ ५।११।३१,३२ ॥
श्यामा इति । राक्षसालये अन्तरमध्यबहिःकक्ष्योपलक्षिते सर्वत्र सुप्ता इति शेषः ॥ ५।११।३३ ॥
तासामिति । निद्रापरवशत्वाच्च मदनेन मदनहेतुकरत्या च । विमूर्च्छितं क्लान्तम् तासां रूपं पझिद्मिनीनां रूपं यथा रमणीयं तथैवासीदित्यर्थः ॥ ५।११।३४,३५ ॥
निरीक्षमाण इति । धर्मसाध्वसशङ्कितः धर्मलोपभयात् शङ्कितः । परदारपरिग्रहः परदारा एव परिग्रहः ॥ ५।११।३६३८ ॥
निश्चितैकान्तचित्तस्य निश्चयनियतचित्तस्य ॥ ५।११।३९ ॥
वैकृत्यं विकृतत्वम् ॥ ५।११।४०४२ ॥
योनिः जातिः ॥ ५।११।४३४६ ॥
स इति । तत् रावणस्य गृहम् ॥ ५।११।४७ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां एकादशः सर्गः ॥ ५।११ ॥