०१० हनुमता रावणान्तःपुरप्रवेशः

तत्रेति श्लोकद्वयमेकं वाक्यम् । तत् प्रसिद्धम् । दिव्योपमम् इन्द्रशयनोपमम् । अवेक्षमाणः इतस्ततो ऽवलोकयन् । शयनासनं शयनं च तदासनं च शयनासनं पर्यङ्कम्, उभयोपकारादुभयव्यपदेशः । यद्वा आस्यते ऽस्मिन्नित्यासनं शयनस्यासनं शयनासनम्, शयनगृहमित्यर्थः । वैडूर्यैर्वरासनैः उपपन्नमभित आवृतं शयनासनं ददर्शेति सम्बन्धः ॥ ५।१०,१,२ ॥

तस्येति । तस्य पर्यङ्कस्य । एकतमे देशे शिरोभागे ॥ ५।१०।३ ॥

अथात्र रावणदर्शनाय पुनः पर्यङ्गदर्शनमाह जातरूपेत्यादिश्लोकत्रयेण । जातरूपपरिक्षिप्तं स्वर्णनिर्मितं गन्धैर्जुष्टं दिव्यगन्धैरधिवासितम् । आविकाजिनसंवृतम् आविकाजिनम् ऊर्णायुचर्मम् । वरमाल्यानां वरपुष्पाणाम् ॥ ५।१०।४६ ॥

तस्मिन्निति । महारजतवाससं हेमविचित्रवसनम् ॥ ५।१०।७,८ ॥

सवृक्षवनगुल्माढ्यं पुष्पसहितवृक्षवरगुल्माढ्यं मन्दरमिव स्थितम् । बाहवो यस्य वृक्षाः नासादयो गुल्माः ॥ ५।१०।९११ ॥

यथा नागं गजमिव निश्वसन्तं रावणम् आसाद्य प्राप्य परमोद्विग्नः अयं पापी देवीं हृतवानित्येतत्समीपे ऽवस्थानमनुचितमिति खिन्नचित्तो ऽपासर्पत्सुभीतवत् सुभीतो यथा भयहेतौ पिशाचादिसंमुखे स्थातुमशक्तो ऽपसर्पति तद्वत् ॥ ५।१०।१२ ॥

अथेति । आरोहणं सोपानम् । वेदिकान्तरं सोपानपर्वमध्यम् ॥ ५।१०।१३ ॥

गन्धहस्तिनि यस्य गन्धेन अन्ये गजा बिभ्यति स गन्धहस्ती ॥ ५।१०।१४ ॥

काञ्चनेति । विक्षिप्तौ दीर्घौ ॥ ५।१०।१५ ॥

वज्रोल्लिखितपीनांसौ वज्रेण उल्लिखितौ क्षतौ पीनांसौ ययोस्तौ ॥ ५।१०।१६ ॥

पीनाविति । समौ परस्परसदृशौ । सङ्गतौ दृढसन्धिबन्धौ । संहताविति पाठे ऽप्ययमेवार्थः । विक्षिप्तौ प्रसारितौ । एतादृशौ बाहू ददर्शेति पूर्वेण सम्बन्धः । ददर्श स कपिरित्यत्र ददर्शेति क्रियापदावृत्तिर्विशेषणबाहुल्यात् ॥ ५।१०।१७२१ ॥

ताभ्यामिति । भुजाभ्यामिति द्विभुजत्वं, महामुखादिति वक्ष्यमाणमेकमुखत्वं च रावणस्य कामरूपित्वात्सङ्गच्छते ॥ ५।१०।२२ ॥

चूतेति । निश्वासस्य चूतादिसुरभित्वं तदधिवासितवस्तुसेवनादिद्वारा । मृष्टान्नरससंयुक्तः षड्रसपदार्थगन्धोपेतः । पानगन्धपुरस्सरः पीयत इति पानं मधु तद्गन्धयुक्तः ॥ ५।१०।२३,२४ ॥

मुक्तेति । अपवृत्तेन स्वस्थानात्किञ्चिच्चलितेन उपलक्षितम् ॥ ५।१०।२५ ॥

रक्तेति । एतादृशवक्षसा उपलक्षितम् । अपविद्धेन पर्यस्तेन क्षौमेण उत्तरीयतया धृतेनोपलक्षितम् ॥ ५।१०।२६२८ ॥

चतुर्भिरिति । विद्युल्लतैरिति पाठे लिङ्गव्यत्यय आर्षः । विद्युद्गणैरिति वा पाठः । उक्तविशेषणविशिष्टं रावणं तस्य पादमूलगताः पत्नीश्च ददर्शेति सम्बन्धः । रक्षःपतेर्गृह इति परशेषः ॥ ५।१०।२९३१ ॥

नृत्तेति । राक्षसेन्द्रस्य भुजाङ्कगाः राक्षसेन्द्रस्य भुजावङ्कञ्च गच्छन्तीति तथा, वल्लभा इति यावत् । धारिण्यः धारिणीः । निषण्णाः शयिताः ॥ ५।१०।३२३४ ॥

मदेति । मदव्यायामः मदाधिक्यम् ॥ ५।१०।३५ ॥

अङ्गहारैरिति । अङ्गहारैः अङ्गविक्षेपैः । नृत्तशालिनीति विशेषणात्सुषुप्त्यवस्थायामपि वासनाबलेन नृत्तसन्निवेशविशिष्टा स्थितेति सूचयति ॥ ५।१०।३६ ॥

महानदीप्रकीर्णेव महानद्यां प्लवमाना स्त्री नलिनीपोतं नलिनी समूलनालदलं पद्मजालकं पोतं यदृच्छया ऽ ऽगतं प्लवमाश्रितवतीव वीणां परिष्वज्य प्रकाशत इति सम्बन्धः ॥ ५।१०।३७ ॥

मड्डुको वाद्यभेदः ॥ ५।१०।३८ ॥

पीड्य आलिङ्ग्येत्यर्थः ॥ ५।१०।३९,४० ॥

विपञ्चीं वीणाभेदम् ॥ ५।१०।४१,४२ ॥

मदकृतश्रमा मदवती वादनेन कृतश्रमा च ॥ ५।१०।४३ ॥

परिगृह्य अवलम्ब्य । तथैवासक्तडिण्डिमा आलिङ्गितान्यडिण्डिमा । तरुणं रामणं वत्सं पुत्रं च परिगृह्य प्रसुप्ता ॥ ५।१०।४४ ॥

आडम्बरः तूर्यभेदः । भुजसंयोगः भुजसंश्लेषः ॥ ५।१०।४५ ॥

कलशीम् सलिलसम्भृतामित्यर्थः । अपविध्य पर्यस्य, परिमार्जिता विपर्यस्तस्वकीयकालशोदकार्द्रीकृतशरीरा नारी वसन्ते म्लानिपरिहाराय परिमार्जिता जलसिक्ता अत एव पुष्पशबला, शबलपुष्पेत्यर्थः । मालेव भातीति सम्बन्धः ॥ ५।१०।४६४८ ॥

आतोद्यानि ततानद्धसुषिरघननामकानि चतुर्विधवाद्यानि । “ततं वीणादिकं वाद्यमानद्धं मुरजादिकम् । वंशादिकं तु सुषिरं कांस्यतालादिकं घनम् । चतुर्विधमिदं वाद्यं वादित्रातोद्यनामकम् ॥ " इत्यमरः ॥

५।१०।४९ ॥

अथ प्रधानमहिषीदर्शनम् तासामिति । एकान्तविन्यस्ते तासां शयनात्पृथग्विन्यस्ते । तां वक्ष्यमाणगुणाम् ॥ ५।१०।५०,५१ ॥

गौरीं हरिद्राभाम् । किमिव गौरिमित्यत आह कनकवर्णाभामिति । इष्टां रावणस्यातिप्रियाम् । अन्तःपुरस्त्रीणामीश्वरीं कपिर्मन्दोदरीं ददर्शेत्यन्वयः ॥ ५।१०।५२ ॥

तर्कयामास सीतेति रूपयौवनसम्पदा । औचित्यमनालोच्य रूपयौवनसम्पन्मात्रदर्शनेन सीतेति विचारितवानित्यर्थः ॥ ५।१०।५३ ॥

हर्षो मुखविकासादिः, आनन्दो मानसः ॥ ५।१०।५४ ॥

सीतेति व्यामोहात्कापेयं प्रदर्शितवानित्याह आस्फोटयामासेति । जगौ हर्षात् मन्दगानं कृतवानित्यर्थः । आस्फोटपुच्छचुम्बनादिर्जातिधर्मः । जगाम स्तम्भानित्यनुकर्षः । सर्वा अप्येताश्चेष्टाः उपांश्विति बोध्यम् । एवं चेष्टायां हेतुः स्वां कपीनां प्रकृतिं निदर्शयन् इति ॥ ५।१०।५५ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां दशमः सर्गः ॥ ५।१० ॥