००६ अन्तःपुरवर्णनम्

॥ १,२ ॥

रक्षितमिति । चकाशे विस्मयादुल्ललासेत्यर्थः । चचार कपिकुञ्जरः इति वा पाठः ॥ ५।६।३ ॥

रूप्यकोपहितैः रजतनिर्मितैः । कक्ष्याभिः प्रकोष्ठैः । “कक्ष्या प्रकोष्ठे हर्म्यादेः " इत्यमरः ॥ ५।६।४ ॥

महामात्रैः प्रधानैः । “महामात्राः प्रधानानि” इत्यमरः । असंहार्यैः अवार्यैः ॥ ५।६।५ ॥

सिंहव्याघ्रतनुत्राणैः तच्चर्मनिर्मितवर्मभिरित्यर्थः ॥ ५।६।६ ॥

महारथसमावासं महारथानां रथिकविशेषणां समावासं स्थानम् । समावापमिति पाठे ऽप्ययमेवार्थः । महारथं च तत् महासनं च महारथमहासनम् ॥ ५।६।७ ॥

दृश्यैः दर्शनीयैः । परमोदारैः अतिमहद्भिः । “उदारो दातृमहतोः” इत्यमरः ॥ ५।६।८ ॥

अन्तपालैः बाह्यरक्षकैः ॥ ५।६।९ ॥

राक्षसेन्द्रनिवेशनम् निवासभूतम् । राजगुणाः राजोपचाराः तैः सम्पन्नम् ॥ ५।६।१०,११ ॥

नित्यार्चितं गन्धादिभिः । पर्वहुतं पर्वसु हुतं होमो यस्मिन् तत्, रावणस्याहिताग्नित्वात् ॥ ५।६।१२१४ ॥

रावणस्य समीपतः रावणभवनस्य समीपतः ॥ ५।६।१५२४ ॥

विद्युज्जिह्वेन्द्रजिह्वानामिति बहुवचनमार्षम् । यद्वा तन्नामानो बहवः सन्ति ॥ ५।६।२५२८ ॥

उपशायिन्यः समीपशायिन्यः ॥ ५।६।२९ ॥

ददर्शेति । गुल्मान् सेनाः । “गुल्मो रुक्स्तम्बसेनासु” इत्यमरः ॥ ५।६।३० ॥

हरीन् अश्वान् । कुलीनान् परगजारुजान् परगजानां भञ्जकान् ॥ ५।६।३१ ॥

निष्ठितान् गजशिक्षायां गजविद्याभ्यासे शिक्षितान् ॥ ५।६।३२३५ ॥

लतागृहाणीति । चित्रशालागृहाणि चित्रशालायुक्तगृहाणि । दारुपर्वतकान् दारुमयक्रीडापर्वतान् । कामस्य गृहकं कामोद्दीपकं गृहम् । दिवागृहकं दिवाविहारोचितचित्रगृहम् । मयूरस्थानानि क्रीडामयूरस्थानानि ॥ ५।६।३६३८ ॥

धीरनिष्ठितकर्मान्तं निष्ठिता निष्ठितवन्तः दृढव्रताः । धीराश्च ते निष्ठिताश्च धीरनिष्ठिताः तेषां कर्म तपोरूपं तस्यान्तः फलम्, महातपःफलमिति यावत् । भूतपतेः शिवस्य ॥ ५।६।३९४१ ॥

मध्विति । मध्वासवकृतक्लेदं मध्वासवैः क्षौद्रविकारमद्यैः कृतद्रवम् ॥ ५।६।४२ ॥

घोषवद्भिः नादविशेषयुक्तैः । अनुक्तैरन्यैश्च । सुव्यूढकक्ष्यं सन्निवेशितप्रकोष्ठम् । व्यूहः पद्मस्वस्तिकादिरचनाविशेषः ॥ ५।६।४३,४४ ॥

इति श्रीमहेश्वरतीर्थिविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां षष्ठः सर्गः ॥ ५।६ ॥