तत इति । ततः प्रवेशान्तरम् । मध्यं गतं, गगनस्येति शेषः । यद्वा तारामध्यं गतम् अंशुमन्तं चन्द्रम् । भानुमन्तं दीप्तिमन्तम् ॥ ५।५।१ ॥
लोकस्येति । पापशब्देन पापफलं दुःखमुच्यते, लोकः ह्लादकत्वाच्चन्द्रस्य दुःखविनाशकत्वम् । यद्वा सूर्यचन्द्रादीनां लोकपावनत्वादिति भावः ॥ ५।५।२ ॥
या लक्ष्मीः मन्दरादिस्थानेषु भाति सा लक्ष्मीः चारुनिशाकरस्था भातीति सम्बन्धः ॥ ५।५।३,४ ॥
परिपूर्णश्रृङ्गः परिपूर्णकलः ॥ ५।५।५ ॥
महाग्रहग्राहविनष्टपङ्कः महाग्रहः सूर्यः तस्य ग्राहणः किरणसंक्रमेण विनष्टः विनाशितः पङ्कस्तमो येन तथोक्तः । चन्द्रस्य सूर्यकिरणसंक्रमणद्वारा तमोविनाशकत्वम् । तदुक्तम् “सलिलमये शशिनि रवेर्दीधितयो मूर्च्छितास्तमो नैशम् । क्षपयन्ति दर्पणो दननिहिता इव मन्दिरस्यान्तः ॥ " इति । विनष्टशीताम्बुतुषारपङ्कः शीताम्बु हिमं तस्य तुषाराः पृषतः त एव पङ्कः मालिन्यम्, विनष्टः शीताम्बुतुषारपङ्को यस्मिन् स तथा । एतदपि सूर्यकिरणसंक्रमणादित्यवगन्तव्यम् । प्रकाशलक्ष्म्याश्रयनिर्मलाङ्कः, प्रकाशसमृद्ध्याश्रयत्वात्सुव्यक्तचिह्रः इत्यर्थः ॥
५।५।६,७ ॥
प्रकाशचन्द्रोदयनष्टदोषः प्रकाशचन्द्रोदयेन नष्टः दोषः तिमिररूपदोषो यस्य स तथा । प्रवृद्धरक्षःपिशिताशदोषः प्रवृद्धः रक्षसां पिशितभक्षणरूपदोषो यस्मिन् । पिशितभक्षणस्य दोषत्वमहितजनहिंसाहेतुत्वात् । रामाभिरामेरितचित्तदोषः रामाः कान्ताः अभिरामाः रमणाः स्त्रीभिः कान्तैश्च ईरितः निरस्तः चित्तदोषः प्रणयकलहरूपो येन स तथोक्तः । स्वर्गप्रकाशः सीतान्वेषणस्यानुकूलत्वेनानन्दहेतुतया प्रदोषकालस्य स्वर्गसदृशत्वोक्तिः, अत एव भगवान् पूज्यः, आदरणीय इति यावत् । अत्र विरराजेत्यनुषज्यते ॥ ५।५।८,९ ॥
मत्तानि मदजनकद्रव्येण, अत एव प्रमत्तानि अनवहितानि, मत्तप्रमत्तजनयोगात् कुलानि भवनान्यपि तथोच्यन्ते । भद्रा गजाः ॥ ५।५।१० ॥
परस्परं चेत्यादि श्लोकद्वयमेकं वाक्यम् । आक्षिपन्तीत्यादीनि शत्रन्तानि रक्षांसीत्यस्य विशेषणानि । आक्षिपन्ति आकर्षन्ति । भुजानधिनिक्षिपन्ति अन्योन्यस्योपरि निक्षिपन्ति । मत्तप्रलापानधिकं क्षिपन्ति मुञ्चन्ति, भर्त्सयन्तीत्यर्थः । अन्योन्यमधिक्षिपन्ति तिरस्कुर्वन्ति । रूपाणि चित्राणि च विक्षिपन्ति विविधान् वेषान्विदधति । चापानि विक्षिपन्ति विष्फारयन्ति । वक्षांसि विक्षिपन्ति विवृण्वन्ति । एतादृशरक्षांसि कपिर्ददर्शेति पूर्वक्रियया सम्बन्धः ॥ ५।५।११,१२ ॥
ददर्शेति । समालभन्त्य इत्यादौ द्वितीयार्थे प्रथमा । समालभन्त्यः चन्दनादिना अनुलिम्पन्त्यः । " समालम्भो विलेपनम् " इत्यमरः ॥ ५।५।१३ ॥
महागजैरिति । रराज, पूरिति शेषः ॥ ५।५।१४ ॥
रुचिराभिधानात् रुचिरवचनान्, अन्यत्र रुचुरनामधेयान् । नानाविधानान् नानाव्यापारान् ॥ ५।५।१५ ॥
ननन्देति । आत्मगुणानुरूपान् आत्मगुणानुरूपव्यापारान् ॥ ५।५।१६ ॥
वरार्हाः श्रेष्ठभूषणानुलेपनादियोग्याः ॥ ५।५।१७ ॥
प्रमदोपगूढाः हर्षपूर्णाः । विहङ्गाः विहङ्गीरित्यर्थः ॥ ५।५।१८ ॥
निविष्टाः ऊढाः, पाणिगृहीता इत्यर्थः । “निवेशः शिबिरोद्वाहविन्यासेषु” इत्यमरः ॥ ५।५।१९ ॥
अप्रावृता इत्यादिश्लोकद्वयमेकं वाक्यम् । अत्र ददर्शेति क्रियायास्सर्वत्र सम्बन्धः । उतरीयरहिताः, काञ्चनराजिवर्णाः कनकरेखाकाराः, तपनीयवर्णाः तप्तस्वर्णवर्णाः, शशलक्ष्मणवर्णाः चन्द्रवर्णाः, कान्तप्रहीणाः प्रियवियुक्ताः रामाश्च ददर्श, ततः प्रियान् प्रसमीक्ष्य प्राप्य सुप्रीतियुक्ता रामाश्च ददर्श । गृहेषु हृष्टाः रामाश्च ददर्शति सम्बन्धः । यद्वा स हरिप्रवीरः मनोभिरामान् प्रियान् प्राप्य अभिसृत्य सुप्रीतियुक्ताः रामाः प्रसमीक्ष्य गृहेषु हृष्टाः स्वगृहेषु रमणं प्राप्य हृष्टाः परमाभिरामाश्च ददर्शेति सम्बन्धः । पूर्वोक्तानियतभर्तृकाभिसारिकासमभिव्याहारादुत्तरार्धेन स्वगृहप्राप्तरमणा वाराङ्गना उच्यन्ते ॥ ५।५।२०२२ ॥
न त्विति । साधुजातामित्येतल्लताविशेषणम् । परमाभिजाताम् अत्यन्ताभिरूपां मनसाभिजाताम् अयोनिजान् ॥ ५।५।२३ ॥
सनातने वर्त्मनि अविच्छेदेन प्रवृत्ते पातिव्रत्यरूपमार्गे । सन्निविष्टां सम्यङ्निष्ठिताम् ॥ ५।५।२४ ॥
उष्णार्दितां विरहतापपीडिताम् । अनुसृतास्रेण कण्ठेन सह वर्तत इति सानुसृतास्रकण्ठीम् । निष्कम् उरोभूषणम् । अव्यक्तरेखाम् अस्पष्टप्रकाशां चन्द्ररेखां चन्द्रकलाम् । पांसुप्रदिग्धाम् पांसुदूषिताम्, हेमरेखां स्वर्णशलाकाम् । क्षतप्ररूढां क्षता च सा प्ररूढा च ताम्, अन्तर्व्रणां बहिश्छादितामित्यर्थः । यद्वा क्षते व्रणे प्ररूढां प्रलीनां बाणरेखां बाणशकलमित्यर्थः ॥ ५।५।२५,२६ ॥
सीतामिति । चिरस्यापश्यन् चिरमन्विष्यापश्यन् दुःखाभिभूतः अचिरस्य सद्य एव मन्द इव मूढ इव बभूव ॥ ५।५।२७ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां पञ्चमः सर्गः ॥ ५।५ ॥