००४ लङ्कापुरीप्रवेशः

अद्वारेणेति । शत्रुस्थानमद्वारेण प्रवेष्टव्यमिति शास्त्रादद्वारेणेत्युक्तम् ॥ ५।४।१ ॥

प्रविश्येति । प्रवेष्टुमुपक्रम्य सव्यं पादं चक्रे, अग्रे इति शेषः । सः अग्रतः कृतसव्यपादः शत्रूणां मृर्द्धन्येत्र कृतो भवति । अग्रतः सव्यपादनिक्षेपे शत्रवः पराभूताः स्युरिति भावः ॥ ५।४।२ ॥

प्रविष्ट इति । महापथमास्थाय गम्यत्वेनावलम्व्य प्रविष्टः ॥ ५।४।३,४ ॥

हसितानामुत्कृष्टनिनदैः अट्टहासैः वज्राङ्कुशनिकाशैः वज्रनिकाशैरङ्कुशनिकाशैश्च गृहमेधैः गृहश्रेष्ठैः । गृहमुख्यैरित्यपि पाठः ॥ ५।४।५ ॥

प्रजज्वालेति । प्रजज्वाल प्रचकाशे ॥ ५।४।६ ॥

पद्मस्वस्तिकसंस्थितैः पद्मस्वस्तिकनामभ्यां संस्थानविशेषाभ्यां सस्थितैः । वर्द्धमानगृहैः वर्धमाननाम्ना संस्थानेन संस्थितैः स्वस्तिकाख्यगृहा आकृत्या चतुरश्राः । चतुश्शाला चतुर्द्वारा सर्वतोभद्रसंजिता । पश्चिमद्वाररहिता मध्यावर्ता हयानना । दक्षिणद्वाररहिता वर्धमाना धनप्रदा । प्राग्द्वाररहिता स्वस्तिकाख्या पुत्रधनप्रदा ॥ " इत्यक्तेः पद्मस्वस्तिकवर्द्धमानाख्यागृहाः प्रभुगृहभेदा इत्यर्थः ॥ ५।४।७९ ॥

त्रिस्थानस्वरभूषितम्, उरःकण्ठशिरस्स्थानत्रयोत्पन्नैः मन्द्रमध्यमतारकैः स्वरैर्भूषितम् ॥ ५।४।१० ॥

सोपाननिनदान् सोपानसञ्चरत्कान्ताजनमञ्जीरध्वनीनित्यर्थः । आस्फोटितनिनादान् हर्षोत्पन्नक्रियाविशेषजनितशब्दान् क्ष्वेलितान् । सिंहनादान् ॥ ५।४।१११३ ॥

मध्यमे गुल्मे नगरमध्यस्थसैन्यसङ्घे । चरान् नगरवृत्तान्तनिवेदकान् गूढचारानित्यर्थः ॥ ५।४।१४ ॥

गोजिनाम्बरवाससः गोचर्मवाससः । दर्भमुष्टिप्रहरणान् अनिष्टनिवारकानुष्ठानसाधनतया दर्भमुष्टीनामायुधत्वम् । अग्निकुण्डायुधान् कृत्याद्युत्पादनद्वारा शत्रुमारकतया अग्निकुण्डानामायुधत्वम् ॥ ५।४।१५,१६ ॥

विकटान् विषमाङ्गान् ॥ ५।४।१७२० ॥

क्षेपणी क्षेपणीयः ॥ ५।४।२१,२२ ॥

आरक्षम् आ समन्ताद्रक्षतीत्यारक्षं सैन्यम् । अन्तः पुराग्रतः रावणगृहस्याग्रतः ॥ ५।४।२३ ॥

स इत्यादिश्लोकद्वयमेकं वाक्यम् । द्वितीयस्तच्छब्दः प्रसिद्धिपरः ॥ ५।४।२४२६ ॥

रथैरिति । यानैः शिबिकादिभिः । आविवेश आससाद, साक्षात्प्रवेशस्य वक्ष्यमाणत्वात् ॥ ५।४।२७,२८ ॥

सहेमेति च्छेदः । हेमसहितं जाम्बूनदचक्रवालसहितं स्वर्णप्राकारमण्डलयुक्तम् । अन्तःपुरम् अन्तर्नगरम् आविवेश ॥ ५।४।२९ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां चतुर्थः सर्गः ॥ ५।४ ॥