स इति । लम्बे लम्बाकारे लम्बशिखरे लम्बगिरिश्रृङ्गे । सत्त्वमास्थाय बलमास्थाय ॥ ५।३।१३ ॥
सुपुष्टेति । विटपावतीम् अलकापुरीम् । चारुतारेणनिर्यूहां निर्यूहः मत्तवारणः, तोरणस्य निर्यूहः तोरणनिर्यूहः, चारुः तोरणनिर्यूहो यस्यो ताम् । पाण्डरद्वारतोरणाम् पाण्डरे सुधा धवलिते द्वारे तोरणं यस्यां ताम् ॥ ५।३।४८ ॥
जाम्बूनदमयैर्द्वारैरित्युपलक्षणे तृतीया । राजहंसनिषेवितैरित्यन्तविशेषणविशिष्टैर्द्वारैरुपलक्षितां लङ्कानगरीं समीक्ष्य हनुमान् जहर्षेति सम्बन्धः । वज्रस्फटिकमुक्ताभिः, भूषितैरिति शेषः । राजतामलपाण्डरैः रजतमयामलपाण्डरोपरिप्रदेशैः । चारुसञ्जवनोपेतैः रमणीयचतुश्शालोपेतैः । “सभा सञ्जवनं त्विदम् । चतुःशालम्” इत्यमरः ॥ ५।३।९११ ॥
वस्वोकसारा पूर्वदिक्स्थेन्द्रपुरी । उत्पतितुंकामाम् उत्पतितुमिव स्थिताम् ॥ ५।३।१२१४ ॥
अन्येषामसाध्यत्वे ऽप्येतेषां साध्येत्याह कुमुदाङ्गदयोरिति । प्रसिद्धा दुष्प्रवेशत्वेन प्रसिद्धेयं नगरी कुमुदाङ्गदादीनामपि भूमिः विषयः भवेत् । विवस्वतस्तनूजस्य सुग्रीवस्य कुशपर्वणः मम च गतिर्भवेत् गम्या भवेत् ॥ ५।३।१५,१६ ॥
विक्रान्तं विक्रमम् । रामलक्ष्मणाभ्यामनायासेन जेतुं शक्येति मत्वा प्रीतिमानभूदित्यर्थः ॥ ५।३।१७ ॥
तां रत्नेत्यादिश्लोकद्वयमेकं वाक्यम् । तत्रैकस्तच्छब्दः प्रसिद्धिपरः अपर प्रकृतपरामर्शी ॥ ५।३।१८,१९ ॥
अथेति । स्वेन रूपेण अधिदेवतारूपेण ॥ ५।३।२०,२१ ॥
पुरस्तादिति । अतिष्ठत स्वात्मानं प्रकाशितवती ॥ ५।३।२२ ॥
ते तव प्राणा यावद्धरन्ति ध्रियन्ते तावत् यत्तत्त्वं तत्कथयस्त्र ॥ ५।३।२३२७ ॥
अहमिति । आज्ञाप्रतीक्षा आज्ञानुवर्तिनी ॥ ५।३।२८३३ ॥
वनानीति । उपवनानि कुत्रिमवनानि । वनानि क्षुद्राणि ॥ ५।३।३४ ॥
भूयः भृशं परुषाक्षरं वाक्यं पुनर्बभाषे इति सम्बन्धः ॥ ५।३।३५३७ ॥
वेगिता सञ्जातवेगा ॥ ५।३।३८,३९ ॥
अङ्गुलीः संवर्तयामास मुष्टिमाबबन्धेत्यर्थः ॥ ५।३।४०,४१ ॥
विकृताननदर्शना विकृताननदृष्टिः ॥ ५।३।४२४४ ॥
प्रसीदेति । समये स्त्री न हन्तव्येति व्यवस्थायाम् ॥ ५।३।४५ ॥
दुर्जयत्वज्ञापनाय स्वस्वरूपं तावदाह अहं त्विति । अहं स्वयं साक्षात् लङ्कानगर्येव लङ्कानगर्यधिष्ठात्री देवतैव, अधिष्ठानदेवतात्वादेवाहं दुर्जयेत्यर्थः । ततः किमत आह निर्जितेति । दुर्जया ऽप्यहं त्वया बलान्निर्जिता अतः सत्यं सर्वे लङ्कान्तर्वर्तिनो राक्षसाः निर्जिता इति भावः ॥ ५।३।४६ ॥
स्वनिर्जयेन रक्षसां निर्जितत्वप्रतिपादनस्य कारणमाह इदमित्यादिना । वरदानं दत्तम् वरदानं कृतमित्यर्थः ॥ ५।३।४७ ॥
वरस्वरूपमाह यदेति । अत्र रावणाधिक्षेपक्षुभितनन्दिकेश्वरशापात् सद्यः प्राप्तो विनाशः स्वयम्भूवरप्रसादात् वानरास्कन्दनपर्यन्तं प्रतिबद्ध इति कथा ऽनुसन्धेया ॥ ५।३।४८५१ ॥
प्रविश्येति । यदृच्छया स्वैरम् ॥ ५।३।५२ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां तृतीयः सर्गः ॥ ५।३ ॥