००२ लङ्कापुरीवर्णनम्

॥ १ ॥

तत इति । पुष्पमयो यथा पुष्पमयकपिरिवेत्यर्थः ॥ ५।२।२ ॥

अनिश्वसन् श्रमनिबन्धनदीर्घनिश्श्वासममुञ्चन् । तत्र लङ्घननिमित्ते । नाधिगच्छति नाध्यगच्छत् ॥ ५।२।३ ॥

अहं सुबहून्यपि योजनानां शतानि क्रमेयं शतयोजनं यथा तथा सङ्ख्यातं सागरस्यान्तं किं पुनरित्यमन्यतेति शेषः ॥ ५।२।४,५ ॥

गण्डवन्ति स्थूलपाषाणवन्ति । नगवन्ति क्षुद्रगिरिवन्ति । शाद्वलानि वनानि च पश्यन्निति शेषः । मध्येन मार्गेण जगामेति सम्बन्धः ॥ ५।२।६,७ ॥

सनग्राग्रे शिखरसहिते अचले लम्बगिरौ तिष्ठन् ॥ ५।२।८११ ॥

हंसेति । आक्रीडान् राजसम्बन्धित्वेपि साधारणोद्यानानि, उद्यानानि राज्ञामसाधारणानि ॥ ५।२।१२,१३ ॥

लङ्कां लङ्कासमीपम् ॥ ५।२।१४ ॥

सीतापहरणार्थेन सीतापहरणहेतुना अपहृतद्रव्यत्वेन हेतुना सुरक्षितामित्यर्थः ॥ ५।२।१५,१६ ॥

प्रतोल्यः रथ्याः, तासां पाण्डुरत्वमुच्चत्वं च तत्रत्यसौधसम्बन्धेन । अट्टालकशताकीर्णां प्रकारवेदिकोपरियुद्धार्थं परिकल्पितमञ्चविशेषशतसङ्कुलाम् । मत्स्याद्याकारा ध्वजाः, ततो ऽन्याः पताकाः । लतापङ्क्तयः विचित्ररचनाविशेषाः । ददर्श हनुमान् पुरीम् इति पुनर्दर्शनाभिधानं विशेषान्तरविवक्षया उपमानान्तरविवक्षया च ॥ ५।२।१७२० ॥

लङ्कां स्त्रीत्वेन निरूपयति वप्रेति । वप्रः चयः, प्राकाराधरावेदिकेति यावत् । " स्याच्चयो वप्रमस्त्रियाम्" इत्यमरः । विपुलाम्बुनवाम्बराम्, अत्राम्बुशब्देन परिघान्तर्गतजलमुच्यते । निर्मितामित्यत्र ददर्शेत्यनुषज्यते ॥ ५।२।२१ ॥

चिन्तयामास, लङ्का केन प्रदेशेन गन्तव्येति चिन्तयामासेति भावः ॥ ५।२।२२ ॥

डीयमानामिवाकाशं प्रत्युद्गच्छन्तीमिव स्थिताम् । डीयमानत्वादिविशेषणविशिष्टां लङ्कां तस्याः महतीं गुप्तिं च सागरं च रावणं घोरं रिपु च निरीक्ष्य ज्ञात्वा वानरः चिन्तयामासेति सम्बन्धः ॥ ५।२।२३२६ ॥

चिन्ताप्रकारमेवाह आगत्यापीत्यादिना ॥ ५।२।२७,२८ ॥

अवकाशो नेति । आसुरप्रकृत्या अर्थोपचयबलदर्पपराक्रमसम्पन्नत्वात् सामादीनामवकाशो नास्तीति भावः ॥ ५।२।२९ ॥

गतिः प्राप्तिः, सम्भावितेति शेषः ॥ ५।२।३० ॥

यावदिति । जीवति वा नवेति वैदेहीं जानामि यावत् जानाम्येव । यदि जीवति तां जनकात्मजां दृष्ट्वा तत्रैव तस्मिन् काल एव चिन्तयिष्यामीति योजना । यद्वा जीवति वा जीवतीति वैदेहीं न जानामि यावत् न जानाम्येव वा । उत यदि जीवति तां जनकात्मजां दृष्ट्वा तत्रैव तस्मिन्काल एव चिन्तयिष्यामीत्यर्थः ॥ ५।२।३१३४ ॥

लक्ष्याल्येण रूपेण सूक्ष्मशरीरेण महत्कृत्यं सीतान्वेषणरूपं प्राप्तकालम् उचितमिति चिन्तयामासेति पूर्वेण सम्बन्धः ॥ ५।२।३५ ॥

तामिति । सम्बन्धः ॥ ५।२।३६३८ ॥

भूताश्चार्थाः निष्पन्नान्यपि प्रयोजनानि । विक्लवम् अविवेकिनम् आसाद्य देशकालविरोधितास्सन्तः विपद्यन्ते नश्यन्तीति सम्बन्धः ॥ ५।२।३९ ॥

किञ्च न केवलं कार्यहानिः किन्तु स्वाम्यादीनां बुद्धिशून्यतापि स्यादित्याह अर्थेति । अर्थानर्थान्तरे कार्याकार्यविषये । निश्चितापि स्वामिना सचिवैस्सह निश्चितापि बुद्धिः विक्लवं दूतमासाद्येत्यनुकर्षः, न शोभते अकिञ्चित्करा भवतीत्यर्थः । तस्मात् दूतदोषादेव राज्ञां कार्यहानिरित्याह घातयन्ति हीति ॥ ५।२।४० ॥

प्रागुक्तदोषाः स्वस्मिन् यथा न स्युः तथा कर्तव्यमित्याह नेति । कार्यं स्वामिकार्यम् । वैक्लव्यं बुद्धिहीनता । वेक्लव्यमित्यादौ स्वस्येति शेषः । तथा कर्तव्यमिति श्लोकशेषः ॥ ५।२।४१ ॥

प्रस्तुतकार्याविरोधाय यावदस्तमयं स्वगोपनमुचितमिति हृदि निधायाह मयि दृष्ट इत्यादिना ॥ ५।२।४२४५ ॥

स्वेन रूपेण वानररूपेण ॥ ५।२।४६४८ ॥

पृषदंशकमात्रः, पृषान् मूषिकान् दशतीति पृषदंशः मार्जारः । “ओतुर्बिडालो मार्जारः पृषदंशक आखुभुक् " इत्यमरः ॥ ५।२।४९ ॥

प्रदोषे प्रविवेश प्रवेष्टुमुपक्रान्तः, ऽअद्वारेण महाबाहुः प्राकारमभिपुप्लुवे ऽ इति चतुर्थे सर्गे साक्षात्प्रवेशस्य वक्ष्यमाणत्वात् ॥ ५।२।५० ॥

प्रासादेति । स्तम्भादिभिरुपलक्षिताम् । भूमिषु भवन्तीति भौमानि तलानि, सप्त भौमानि येषां ते तथा । एवमष्टभौमाः तैः प्रासादैरिति शेषः । तैरुपलक्षितां पुरीं स ददर्शेति योजना ॥ ५।२।५१५३ ॥

रक्षसां तोरणानि रक्षोगृहस्थद्वारतोरणानि ॥ ५।२।५४ ॥

विषण्णः लङ्काया दुर्धर्षत्वाद्विषण्णः, अत्यद्भुतत्वं तु हृष्टश्च ॥ ५।२।५५ ॥

पाण्डुरोद्विद्धविमानमालिनीं धवलोन्नतसप्तभौमप्रासादपङ्क्तिमतीम् ॥ ५।२।५६ ॥

ज्योत्स्नावितानेन लोकान्वितत्य विस्तारीकृत्य अस्य हनूमतः मैनाकसिन्धुवत् साचिव्यं कुर्वन्निव कुर्वन्नेव विराजन् मध्यगतः तारागणमध्यगतः तारागणैः सह उत्तिष्ठते प्रादुरभूदित्यन्वयः ॥ ५।२।५७ ॥

पोप्लूयमानं भृशं प्लवमानम् ॥ ५।२।५८ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां द्वितीयः सर्गः ॥ ५।२ ॥