सुन्दरकाण्डम् ॥ ५ ॥
श्रीमत्सुन्दरकाण्डे व्याख्येयानि व्याक्रियन्ते । पूर्वस्मिन् काण्डे " जगाम लङ्कां मनसा मनस्वी " इति मनसा गमनमुक्तम् । इदानीं कायेनापि गमनं कर्तुमैच्छदित्याह ततो रावणनीताया इति । व इति गायत्र्याः द्वादशाक्षरं ततो रावणनीताया इत्यस्य श्लोकस्य चतुर्थाक्षरेण व इत्यनेन संगृह्णाति । अत्र गन्तुमिति पदमध्याहर्तव्यम् । शत्रुकर्शनो हनुमान् रावणनीतायाः रावणेनापहृतायाः सीतायाः पदं स्थानमन्वेष्टुं चारणाचरिते पथि सुरवर्त्मनि गन्तुमियेषेति योजना ॥ ५।१।१ ॥
दुष्करमिति । निष्प्रतिद्वन्द्वं प्रतिद्वन्द्वान्निष्क्रान्तम्, प्रतिबन्धकरहितमित्यर्थः । कर्म समद्रलङ्घनकर्म । समुदग्रशिरोग्रीवः समुदग्रे शिरोग्रीवे यस्य स तथोक्तः, अत एव गवां पतिः वृषभ इवाबभौ ॥ ५।१।२ ॥
अथेति । वैडूर्यवर्णेषु मरकतच्छायेषु सलिलकल्पेषु तद्वत् शीतलेष्वित्यर्थः ॥ ५।१।३ ॥
केसरीव विचचारेति पूर्वेण सम्बन्धः ॥ ५।१।४ ॥
नीलेत्यादिसार्धश्लोकमेकं वाक्यम् । अत्र यच्छब्दो ऽध्याहर्तव्यः । नीलादिपत्रसमानवर्णैः । माञ्जिष्ठः पाटलः । सितासितैः कल्माषवर्णैः । स्वभावविहितैः स्वभावसिद्धैः । चित्रधातुभिस्समलङ्कृतम् । सपरिच्छदैः सालङ्कारैर्यक्षादिभिराविष्टं यत् तत्र तले तिष्ठन् वबभौ ॥ ५।१।५७ ॥
अथेष्टदेवताप्रार्थनापूर्वकं यात्रा समारब्धेत्याह स सूर्यायेत्यादि ॥ ५।१।८,९ ॥
रामवृद्ध्यर्थं रामाभ्युदयार्थम् ॥ ५।१।१०,११ ॥
मुहूर्तम् अल्पकालम् । अशातयत् अपातयत् ॥ ५।१।१२१४ ॥
महेन्द्रः काञ्चनाञ्जनराजतीः काञ्चनाञ्जनरजतमयीः । रीतिः पद्धतीः, धारा इत्यर्थः । निर्वर्तयामास प्रादुर्भावयामासेत्यर्थः ॥ ५।१।१५ ॥
समनश्शिलाः धातुविशेषसहिताः । मध्यमेनार्चिषा जुष्टः, कालीकरालीविष्फुलिङ्गिनीधूम्रवर्णाविश्वरुचिलोहितामनोजवाभिधानासु सप्तस्वग्निजिह्वासु मध्यमया धूम्राख्यया विशिष्टः अग्निः धूमराजीरिव धूमनिचयानिव शैलः पर्वतः शिला मुमोचेति सम्बन्धः ॥ ५।१।१६,१७ ॥
स इति । महासत्त्वाः महाजन्तवः तेषां सन्नादः ॥ ५।१।१८ ॥
शिरोभिरुपलक्षिताः । स्वस्तिकः फणस्थो नीलरेखाविशेषः ॥ ५।१।१९,२० ॥
यानीति । शमितुं शमयितुम् ॥ ५।१।२१ ॥
भूतैः पृथिव्यादिभिस्सह ॥ ५।१।२२,२३ ॥
आर्षभाणि ऋषभचर्मपिनद्धानि । चर्माणि फलकानि । कनकत्सरून् सुवर्णखड्गमुष्टीन् ॥ ५।१।२४ ॥
कण्ठगुणाः कण्ठस्रजः । क्षीबा मत्ताः ॥ ५।१।२५ ॥
हारेति । पारिहार्यः वलयः " आवापकः पारिहार्यः कटकं वलयो ऽस्त्रियाम्" इत्यमरः ॥ ५।१।२६ ॥
विद्याधरमहर्षयः विद्याधरश्रेष्ठा इत्यर्थः । महाविद्याम् अणिमादिसिद्धम् ॥ ५।१।२७ ॥
शब्दं वाक्यम् ॥ ५।१।२८ ॥
तमेवाह एष इत्यादि ॥ ५।१।२९ ॥
रामार्थमिति । वानरार्थं तेषां रामकार्ये तथाभिमानात् ॥ ५।१।३०३२ ॥
आनुपूर्व्यात् वृत्तं लाङ्गूलं विचिक्षेपेत्यन्वयः ॥ ५।१।३३ ॥
आविद्धं भुग्नम् ॥ ५।१।३४ ॥
बाहू संस्तम्भयामास पर्वतोपरि दृढविन्यासेन निष्पन्दीचकार । ससाद च कपिः कट्याम् इति कायप्रसारणात् कटिप्रदेशे कृशो ऽभूदित्यर्थः । चरणो संचुकोच सङ्कोचयामास ॥ ५।१।३५ ॥
तेजः पराभिभवने सामर्थ्यम् । सत्त्वं बलम् ॥ ५।१।३६४० ॥
आनयिष्यामि आनेष्यामि ॥ ५।१।४१४४ ॥
समुत्पतति हनूमति समुद्गच्छति सति नगरोहिणः पर्वतस्थवृक्षाः विटपान् संहृत्य संक्षिप्य, वेगात् समुत्पेतुरित्यर्थः ॥ ५।१।४५४९ ॥
सारवन्तः गुरुत्वातिशययुक्ताः ॥ ५।१।५०,५१ ॥
तस्य हनूमतो वेगन विमुक्ताः द्रुमाः पुष्पाणि मुक्त्वा सलिले अवशीर्यन्त । अडभाव आर्षः । सुहृदो यथेति । बन्धुप्रस्थापनार्थं गताः सुहृदो बन्धून् प्रस्थाप्य यथा निवर्तन्ते तथा द्रुमा निवृत्ता इत्यर्थः ॥ ५।१।५२५७ ॥
पिबन्निवेति । अर्णवसमीपगमनवेलायामुदर्धिं पिबन्निव बभौ, उपरि गमनावस्थायाम् आकाशं पिपासुरिव ददृशे ॥ ५।१।५८,५९ ॥
परिमण्डले वर्तुलाकारे ॥ ५।१।६०६३ ॥
स्फिग्देशेन वालमूलप्रदेशेन ॥ ५।१।६४ ॥
गर्जति जगर्ज ॥ ५।१।६५ ॥
सानुबन्धा सूक्ष्मोल्लासहिता ॥ ५।१।६६ ॥
पतत्पतङ्गसङ्काशः गच्छत्सूर्यसदृशः । व्यायतः दीर्घाकारः । कपिः बध्यमानया कक्ष्यया गजमध्यबन्धनरज्ज्वा । प्रवृद्धः दीर्घीभूतो मातङ्ग इव शुशुभ इति योजना ॥ ५।१।६७ ॥
उपरिष्टात्स्थितशरीरेणावगाढया सागरान्तःप्रविष्टया छायया प्रतिबिम्बेन चैकाकारस्सन् सागरान्तर्मग्नमूला बहिष्ठोर्ध्वभागा मारुताविष्टा वायुप्रेरिता
नौरिवासीदिति योजना । ५।१।६८ ॥
सोन्माद इव समुद्रः अपस्मारीव लक्ष्यते, भ्रमणफेनजलोद्गमनघोषादिमत्त्वादियमुपमा ॥ ५।१।६९ ॥
शैलवर्ष्मणा शैलसदृशेन । उरश्शब्देन उरोवेगतो जनितवायुर्लक्ष्यते ॥ ५।१।७०,७१ ॥
विकर्षन्निव रोदसी द्यावापृथिव्यौ ऊर्मिजालानि विकिरन् विक्षिपन्निव पुप्लुव इति सम्बन्धः ॥ ५।१।७२,७३ ॥
वेगसमुद्धुष्टं वेगेनोत्कीर्णम् अत एवाम्बरस्थम् अत एव सजलदं जलदसहचरं जलं शारदाभ्रमिव स्वयं च जलदविशेषवत् विबभ्राजेत्यर्थः । वेगसमुद्भूतमित्यपि पाठः ॥ ५।१।७४ ॥
शरीराणि अवयवाः ॥ ५।१।७५७७ ॥
श्वेतेति । श्वेताभ्रघनराजीव, अत्र श्वेतशब्देन स्वच्छतोच्यते, घनशब्देन सान्द्रता, तथाच निर्मलाभ्रसान्द्रपङ्क्तिरित्यर्थः ॥ ५।१।७८८० ॥
आपात इति । आपतन्ति सञ्चरन्त्यस्मिन्नित्यापातो मार्गः ॥ ५।१।८१८७ ॥
तस्मिन्निति । सागरः सगरसम्बन्धी अत एव इक्ष्वाकुकुलमानार्थी पूजार्थी ॥ ५।१।८८ ॥
चिन्ताप्रकारमेवाह साहाय्यमिति । विवक्षतां वक्तुमिच्छताम्, वागिन्द्रियवतामित्यर्थः । सर्ववाच्यः सर्वनिन्दावाग्विषयो भविष्यामीत्यर्थः ॥ ५।१।८९,९० ॥
शेषं मार्गशेषम् ॥ ५।१।९१ ॥
हिरण्यनाभं हिरण्यप्रधानम्, हिरण्मयमित्यर्थः । “नाभिः प्रधाने कस्तूर्याम्” इति विश्वः ॥ ५।१।९२ ॥
परिघस्सन्निवेशितः आयुधविशेषत्वेन सन्निवेशितः, अनेन पक्षच्छेदभयात् समुद्रप्रवेशानन्तरं पातालस्थराक्षसनिरोधार्थं देवराजेन मैनाकः स्थापित इत्यवगम्यते ॥ ५।१।९३,९४ ॥
तिर्यगिति । वर्द्धितुं, शक्तिरस्तीति शेषः ॥ ५।१।९५ ॥
स एष एति । त्वामुपरि तवोपरि ॥ ५।१।९६,९७ ॥
अतः साचिव्यकरणात् अस्माकं कार्यं प्रयोजनं नातिक्रमेत् न लुप्यतामित्यर्थः । कार्यातिक्रमे अरिष्टमाह कर्तव्यमिति ॥ ५।१।९८,९९ ॥
चामीकर हिरण्यात्मक ॥ ५।१।१०० ॥
आनृशंस्यं कृतज्ञत्वम् हिरण्यनाभ इति । निशम्य, वचनमिति शेषः ॥ ५।१।१०११०३ ॥
स महात्मेत्यादि श्लोकद्वयमेकं वाक्यम् । शातकुम्भमयैः श्रृङ्गैरुपलक्षितः ॥ ५।१।१०४,१०५ ॥
शस्त्रसङ्काशं शस्त्रश्याममाकाशम्, काञ्चनप्रभं कनकगौरमासीदित्यर्थः ॥ ५।१।१०६,१०७ ॥
असङ्गेन एकाकिना ॥ ५।१।१०८,१०९ ॥
जहर्ष च ननन्द च इत्यनेन कायमनसोर्विकृतिरुच्यते ॥ ५।१।११०११३ ॥
कृते चेति । कृते उपकारे सो ऽयमुदधिः तत्प्रतिकारार्थी इति पाठः । तस्योपकारस्य प्रत्युपकारार्थी त्वत्तस्सम्मानमर्हति, त्वत्सकाशात् त्वत्स्वीकाररूपां पूजां प्राप्तुं योग्यो भवतीत्यर्थः ॥ ५।१।११४ ॥
त्वन्निमित्तमित्यादि श्लोकद्वयमेकं वाक्यम् । एष कपिः योजनानां शतं समाप्लुतः समाप्लवितुमुपक्रान्तः । शेषं मार्गशेषं प्रक्रमतामिति त्वन्निमित्तमनेन सागरेणाहं बहुमानात्प्रचोदितः, अतः कपिशार्दूल त्वं तिष्ठ मयि विश्रम्य गम्यतामित्यन्वयः ॥ ५।१।१५,१६ ॥
तदिति । तत् प्रसिद्धम् ॥ ५।१।१७ ॥
अस्माकमिति । महागुणपरिग्रहः महागुणेन वायुना परिगृह्यत इति तथा ॥ ५।१।१८,१९ ॥
अतिथिरिति । त्वादृशो महानिति पाठः ॥ ५।१।१२०१२८ ॥
एवंगते प्राप्ते सति । कार्ये उपकाररूपकार्ये । प्रीतिं कर्तुमर्हसि, पूजास्वीकारेणेति भावः ॥ ५।१।१२९१३१ ॥
मन्युः पूजानङ्गीकारनिबन्धनं दैन्यम् । कार्यकालः लङ्काप्रवेशकालः । त्वरते विलम्बं न सहते ॥ ५।१।१३२ ॥
आलभ्य स्पृष्ट्वा । प्रहसन्निव प्रसन्नमुखस्सन् ॥ ५।१।१३३,१३४ ॥
पितुः पन्थानं वायुमार्गम् ॥ ५।१।१३५,१३६ ॥
तदिति । समुद्रलङ्घनं प्रथमं कर्म, द्वितीयं मैनाकगिरावविश्रम्य गमनम् ॥ ५।१।१३७ ॥
देवताश्चेति । वासवश्च हृष्ट इति सम्बन्धः ॥ ५।१।१३८१४० ॥
साह्यमिति । साह्यं सहायकर्म सहकारित्वमिति यावत् । ते तव मन्निमित्तभये सत्यपि निर्भयस्य हनूमतः साह्यं कृतम् अतः अभयं प्रयच्छामीति सम्बन्धः ॥ ५।१।१४११४३ ॥
सागरं मैनाकाधिष्ठितसिन्धुप्रदेशम् ॥ ५।१।१४४१४७ ॥
त्वामुपायेन विजेष्यति वा विषादं दैन्यं गमिष्यति वेति ज्ञातुमिच्छामह इति सम्बन्धः ॥ ५।१।१४८१५० ॥
ईश्वरैः दैवतैः ॥ ५।१।१५११५३ ॥
अस्येति पाठः । कार्यविषक्तस्य मायामृगवधप्रस्थितस्य ॥ ५।१।१५४ ॥
विषयवासिनि रामराज्यवासिनि त्रैलोक्यनाथत्वाद्रधुनाथस्येति भावः ॥ ५।१।१५५,१५६ ॥
एवमिति । कश्चिदपि जनः नातिवर्तेत, मामिति शेषः । नातिवर्तेन्माम् इत्यपि पाठः ॥ ५।१।१५७ ॥
[अथ वरदानं श्रुत्वापि जिगमिषन्तं प्रत्याह तमिति । एवमिति । विषहिष्यसे अभिभविष्यसि, प्रसिष्यसीत्यर्थः ॥ ११० ॥
]
तद् दृष्ट्वेति । सुरसया व्यादितमास्यम् ॥ ५।१।१५८१६१ ॥
समानय संयोजय ॥ ५।१।१६२ ॥
तृतीयं कर्म सुरसावक्रान्निष्क्रमणम् ॥ ५।१।१६३,१६४ ॥
कैशिकाचार्यैः केशिकं नृत्तादि तदाचार्यैस्तुम्बुरुप्रभृतिभिः । ऐरावतनिषेविते ऐरावतम् इति ऋज्जुदीर्घमिन्द्रधनुरुच्यते ॥ ५।१।१६५,१६६ ॥
वज्रशनिसमाघातैः वज्रशन्योस्समः तुल्यः आघातो ऽभिघातो येषां तैः पावकैः ॥ ५।१।१६७ ॥
आकाशस्य एकोनपञ्चाशदग्निसम्बन्धमुक्त्वा तत्प्रधानभूतचित्रभानुसम्बन्धामाह वहतेति ॥ ५।१।१६८ ॥
विश्वे विश्वव्यापके । विश्वावसुः गन्धर्वराजः ॥ ५।१।१६९१७३ ॥
अद्येति । आशिता भुक्तवती । समाक्षिपत् जग्राह ॥ ५।१।१७४१७९ ॥
पातालान्तरसन्निभम् पातालविवरसदृशम् ॥ ५।१।१८०,१८१ ॥
कायमात्रं शरीरप्रमाणम्, स्वशरीरकबलपर्याप्तमित्यर्थः । मुखं ददर्श । मर्माणि प्राणस्थानानि संक्षिप्य ॥ ५।१।१८२१८४ ॥
मनस्सम्पातिविक्रमः मनोगमनसमानगतिः ॥ ५।१।१८५ ॥
दृष्ट्या सूक्ष्मदर्शनेन । धृत्या धैर्येण । दाक्षिण्येन कौशलेन, क्षिप्रकारित्वेनेत्यर्थः । तस्याः संहारवैपुल्येन वा ॥ ५।१।१८६ ॥
सा सिंहिका । हृतहृत् विदारितहृदया, अत एव विधुरा विह्वला ॥ ५।१।१८७ ॥
अरिष्टं शुभम् ॥ ५।१।१८८,१८९ ॥
प्रतिपन्नप्रयोजनः प्राप्तप्रकृतकार्यः ॥ ५।१।१९० ॥
प्राप्तं प्राप्तप्रायं भूयिष्ठपारं महातीरं येन ॥ ५।१।१९१ ॥
पतन् गच्छन् । मलयः लङ्कायां मलयो नाम गिरिः ॥ ५।१।१९२,१९३ ॥
मतिं कर्तव्यनिश्चयम् ॥ ५।१।१९४ ॥
तामेवाह कायवृद्धिमित्यादि । कौतूहलम् आश्चर्यधिया दिदृक्षाम् ॥ ५।१।१९५ ॥
प्रकृतिं निजाकारम् । वीतमोहः निवृत्ताविद्यः ॥ ५।१।१९६ ॥
उक्तशरीरसंक्षेपं दृष्टान्तकथनार्थमनुवदति तद्रूपमिति ॥ ५।१।१९७ ॥
नानाविधरूपधारी परैः शत्रुभिः अशक्यः अप्रधृष्यः । समीक्षितात्मा समालोकितातिप्रमाणस्वशरीरः । समवेक्षितार्थः आलोचितानन्तरकार्यः । प्रतिपन्नरूपः अङ्गीकृतपृषदंशदेहः, अभूदिति शेषः ॥ ५।१।१९८ ॥
लम्बस्य लम्बाख्यस्य गिरेः । विचित्रकूटे विचित्राः कूटाः अवान्तरशिखराणि यस्मिन् तस्मिन् । कूटे श्रृङ्गे निपपातेति सम्बन्धः ॥ ५।१।१९९ ॥
उक्तार्थं पुनः श्लोकद्वयेनाह ततस्त्वित्यादि ॥ ५।१।२००,२०१ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायां प्रथमः सर्गः ॥ ५।१ ॥