०६७ हनुमता सागरोल्लङ्घननिश्चयः

आदीप्तमम्बरीषमिव स्थितं जृम्भमाणस्य तस्य मुखं विधूमः पावक इव अशोभतेति सम्बन्धः । अम्बरीषमिवादीप्तमिति च पाठः । अम्बरीषं भ्राष्ट्रमिवस्थितम् “क्लीबे ऽम्बरीषं भ्राष्टो ना” इत्यमरः ॥ ४।६७।७,८ ॥

अरुजादित्यादि । अनिलः गमनशीलः ॥ ४।६७।९ ॥

तस्येति । शीघ्रवेगस्य शीघ्रा वैनतेयादयः तेषां वेग इव वेगो यस्य तस्य । यद्वा वेगवत्साम्यमसहमानस्ततोप्याधिक्यमाह शीघ्रगस्येति । शीघ्रान् पुरतस्त्वरितं गच्छतो वैनतेयादीन् गच्छतीति शीघ्रगः तस्य ॥ ४।६७।१० ॥

सम्प्रति हनूमान् वीरवादानाह उत्सहेयमिति । असङ्गेन अविलम्बेन । परिगन्तुं परितः प्रदक्षिणं कर्तुम् ॥ ४।६७।११ ॥

बाहुवेगेति । समाप्लावयितुं सम्यक् आसमन्तात् प्लावयितुम् ॥ ४।६७।१२ ॥

ममेति । ऊरू च जङ्घे च ऊरुजङ्घं तस्य वेगेन । प्राण्यङ्गत्वादेकवद्भावः ॥ ४।६७।१३ ॥

पक्षिसेविते आकाशे वैनतेयगतिः पदे त्यक्तस्य पदे स्थित्वा ततो ऽधः पतन्तं पन्नगाशनं वैनतेयमुपर्यधो भ्रमणेन सहस्रशः परिगन्तुं शक्तः । पन्नगाशनं पतन्तमिति पदद्वयेन आमिषार्थः पतनवेगातिशयः सूच्यते ॥ ४।६७।१४ ॥

प्रस्थितम् उदयगिरेर्निर्गच्छन्तमादित्यं स्वस्थानात्प्राप्य तेन सह गन्तुं प्रारभ्य ततः पूर्वमेवास्तगिरिमासाद्य अनस्तमितं ज्वलन्तं रश्मिमालिनमभिगन्तुं प्रत्युद्गन्तुं समुत्सह इत्यर्थः । ज्वलन्तमिति विशेषणेन आदित्यस्यास्तगिरेः प्राच्यां दूरवर्तित्वं द्योत्यते ॥ ४।६७।१५ ॥

तत इति । ततः सूर्यप्रत्युद्गमनानन्तरं भूमिमसंस्पृश्य कुत्र चिदप्यविश्रम्य भीमेन महता वेगेनैव पुनरागन्तुमुत्सह इति सम्बन्धः । शतयोजनान्तरितलङ्कां गन्तुं किमुतेति भावः ॥ ४।६७।१६ ॥

उत्सहेयमिति । आकाशगोचरान् ग्रहनक्षत्रादीन् ॥ ४।६७।१७,१८ ॥

हरिष्यामीति । पुष्पमित्येतद् जात्येकवचनम् ॥ ४।६७।१९ ॥

स्वातेः पन्था इव परिपूर्णतारापथ इव, पुष्पानुगतिचिह्नादिति भावः ॥ ४।६७।२०२२ ॥

वैनतेयस्येति । मम या शक्तिः सा वैनतेयस्य मारुतस्य वेति सम्बन्धः । सुपर्णराजानमिति छान्दसः ॥ ४।६७।२३,२४ ॥

उत्थिता उद्भूता ॥ ४।६७।२५,२६ ॥

न केवलं पराक्रमः किन्तु ज्ञानसम्पत्तिरप्यस्तीत्याह बुद्ध्येति ॥ ४।६७।२७ ॥

मारुतस्येति । वेगे मारुतस्य समः, अहमिति शेषः । अमितबलपराक्रमशाली हनुमान् वस्तुतः स्वोक्तविशेषणविशिष्टो ऽपि दुःखसागरमग्नवानरवाहिनीसन्तोषार्थमेतादृशान्यौद्धत्यवचनान्युक्तवान् ऽप्रहृष्टा हरयस्तत्र समुदैक्षन्त विस्मिताःऽ इति वचनात् “ज्ञातीनां विपुलः शोकस्त्वया तात प्रणाशितः” इति जाम्बवद्वचनाच्चेत्यवगन्तव्यम् ॥ ४।६७।२८ ॥

सहसा बलेन समुत्क्षिप्य उद्धृत्य गच्छेयम् खे गच्छेयमित्यर्थः ॥ ४।६७।२९,३० ॥

तस्येति । ज्ञातिशब्दो ऽत्र बन्धुमात्रपरः ॥ ४।६७।३१,३२ ॥

कल्याणी रुचिः छाया येषां ते कल्याणरुचयः, हितकाङ्क्षिण इत्यर्थः ॥ ४।६७।३३ ॥

मङ्गलं मङ्गलानुशासनम् ॥ ४।६७।३४,३५ ॥

शिलासङ्कटशालिनः शिलातुङ्गप्रदेशभूयिष्ठस्य । “सङ्कटो दन्तुरे तुङ्गे” इति निघण्टुः ॥ ४।६७।३६ ॥

धातुनिष्यन्दो धातुरसः तेन शोभन्त इति तथोक्तेषु ॥ ४।६७।३७४० ॥

सिंहेति । सलिलोत्पीडसङ्कुलं तत्र तत्र निस्सृतनिर्झरसलिलसङ्कुलम् ॥ ४।६७।४१४३ ॥

मुमोचेति । सलिलोत्पीडान् सलिलसमूहान् ॥ ४।६७।४४ ॥

पानसंसर्गकर्कशैः पानसंसर्गदृढैः, पानप्रवृत्तौ दृढाभिनिवेशैरित्यर्थः ॥ ४।६७।४५,४६ ॥

चलशृङ्गशिलोद्घातः चलानां शृङ्गाणां शिलानां च उद्घाता आहतयो यस्मिन् स तथोक्तः ॥ ४।६७।४७,४८ ॥

सार्थहीनः सहायहीनो ऽध्वगः पथिकः इव, अभूदिति शेषः ॥ ४।६७।४९ ॥

वेगसमाहितात्मा वेगे गमने सम्यगाहितः अर्पितः आत्मा बुद्धिर्येन । मनः समाधाय मनस्समाधानं कृत्वा ॥ ४।६७।५० ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीनारायणतीर्थशिष्यश्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां सप्तषष्टितमः सर्गः । ६७ ॥

महेशतीर्थरचिता रामपादसमर्पिता ।

किष्किन्धाकाण्डटीकेयं समाप्ता तत्त्वदीपिका ॥ । इति किष्किन्धाकाण्डः समाप्तः ॥