। ॥ ४।६६।१३ ॥
अरिष्टेति । अरिष्टनेमिनः अरिष्टनेमेः कश्यपस्य । नकारान्तत्वमार्षम् ॥ ४।६६।४,५ ॥
पक्षयोरिति । विक्रमादिकं तेन गरुत्मता, समानमिति शेषः । नावहीयते न न्यूनं भवतीत्यर्थः । यद्वा तेनेति पञ्चम्यर्थे तृतीया ॥ ४।६६।६,७ ॥
अप्सराप्सरसामिति निर्देश आर्षः ॥ ४।६६।८११ ॥
रक्तदशं रक्ताग्रम् ॥ ४।६६।१२१४ ॥
स तामिति । तां गतात्मा तां पर्यष्वजतेति सम्बन्धः । सतीमिति वा पाठः ॥ ४।६६।१५,१६ ॥
न त्वामिति । त्वां न हिंसामि पातिव्रत्यान्न च्यावयामि मारुतो ऽहं त्वां परिष्वज्य गतो ऽस्मीति यत् अतस्ते भयं पातिव्रत्यप्रच्युतिनिमित्तं भयं मा भूदिति योजना ॥ ४।६६।१७ ॥
न केवलं पातिव्रत्यभङ्गाभावः, श्रोयो ऽपि भविष्यतीत्याह वीर्यवानिति ॥ ४।६६।१८ ॥
एवमुक्तेति । गुहायां मन्दरगुहायाम् ॥ ४।६६।१९,२० ॥
शतानीति । शतानि त्रीण्येतदनेकयोजनसहस्राणामुपलक्षणम् । उत्तरश्रीरामायणे “बहुयोजनसाहस्रं क्रामत्येष ततो ऽम्बरम् । पितुर्बलाच्च बाल्याच्च भास्कराभ्याशमागतः । " इति वक्ष्यमाणत्वात् ॥ ४।६६।२१३७ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां षट्षष्टितमः सर्गः ॥ ६६ ॥