०६५ वानरैः सागरोल्लङ्घनभयम्

तत इति । गतौ गमनविषये । स्वं स्वं स्वकीयं स्वकीयम् उत्साहमूचुरिति सम्बन्धः ॥ ४।६५।१,२ ॥

ऽआबभाषे गजस्तत्र प्लवेयं दशयोजनम्ऽ इत्यादिना गजादीनां दशयोजनमात्रविषयस्वस्वप्लवनशक्तिकथनं न वास्तवम् । “भूतले सागरे वापि शैलेषूपवनेषु च । पातालस्यापि वा मध्ये न ममाच्छिद्यते गतिः” इति सुग्रीवसन्निधौ वानरयूथपैः स्वस्वशक्तेः प्रख्यापितत्वात् “नहि वो गमने सङ्गः कदाचित्कस्यचित् क्वचित् । ब्रुवध्वं यस्य या शक्तिर्गमने प्लवर्गषभाः ।” इत्यङ्गदेन यूथपान्प्रति सन्निहितपूर्वसर्गे विधानाच्च । तर्हि प्लवेयं दशयोजनमित्यादिना किमर्थं स्वस्वप्लवनशक्तिन्यूनतामुक्तवन्त इति चेत्? सत्यम्, अधिकशक्तियुक्ता अप्येते रावणाधिष्ठितलङ्काप्रवेशः सीतान्वेषणं च दुष्करमिति मत्वा तादृशकार्यसाधकस्य वीरस्य हनुमतः प्रोत्साहनार्थं तथोक्तवन्त इति सर्वं समञ्जसम् ॥ ४।६५।३,४ ॥

चत्वारिंशत्पञ्चाशच्छब्दयोर्द्वितीयार्थे प्रथमा ॥ ४।६५।५९ ॥

तेषां कथयतां तेषु कथयत्सु ॥ ४।६५।१० ॥

गतिपराक्रमः गत्यतिशय इति यावत् । पारम् अन्तम् ॥ ४।६५।११ ॥

तर्हि उपेक्षणीयं किम्? नेत्याह किंत्विति । तत्र हेतुमाह यदर्थमिति ॥ ४।६५।१२१४ ॥

त्रिविक्रमं त्रयाणां विक्रमाणां पादविन्यासानां समाहारस्त्रिविक्रमम् । क्रममाणः सनातनः प्रभविष्णुः पूर्वं मया प्रदक्षिणीकृत इति सम्बन्धः । अनेन ब्रह्माण्डप्रदक्षिणमुक्तं भवति ॥ ४।६५।१५१८ ॥

ऽतमुवाच हरिश्रेष्ठो जाम्बवान्वाक्यकोविदःऽ हरिश्रेष्ठ इति जाम्बवतो व्यपदेशो हरिसाधर्म्यात्, अल्पमन्तरम् ऋक्षाणां हरीणां च अत एवासौ हर्यृक्षसत्तमेत्यङ्गदं सम्बोधयति । सजातीयस्य हि निर्धारणं भवति “न निर्धारणे” इति षष्ठीसमासस्य निषेधे ऽपि मुनिप्रयोगात्साधुत्वम् सप्तमीसमासो वा ॥ ४।६५।१९,२० ॥

काममिति । भवान् योजनानां शतं सहस्रं वा गन्तुं प्रतिनिवर्तितुं च कामं शक्तः । तथापि एष विधिः भृत्यैः स्वामिप्रस्थापनं नोच्यते न विधीयते हि ॥ ४।६५।२१ ॥

तदेव विवृणोति नहीति । हे तात प्रेषयिता स्वामी । कथञ्चन केन प्रकारेणापि प्रेष्यो नहि ॥ ४।६५।२२ ॥

भवानिति । कलत्रं रक्षणीयं वस्तु । एषा गतिः लोकस्थितिरित्यर्थः ॥ ४।६५।२३ ॥

एतस्य कार्यस्य समुद्रलङ्घनस्य । अर्थस्य प्रयोजनस्य । उक्तार्थमर्थान्तरन्यासेनाह मूले हीति । वृक्षस्य चेति शेषः ॥ ४।६५।२४२७ ॥

यदीति । नान्ये गमिष्यन्तीति व्यत्ययः । गतिसामर्थ्याभावादित्यर्थः ॥ ४।६५।२८३३ ॥

तत इति । प्रतीतं प्रख्यातम् । सुखोपविष्टं प्रकृतकार्यस्यानन्यसाद्ध्यत्वात्स्वस्य सुकरत्वाच्चेति भावः ॥ ४।६५।३४ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां पञ्चषष्टितमः सर्गः ॥ ६५ ॥