०६४ वानरैः सागरतीरगमनम्

आख्याता इति । समुत्पत्य उत्थाय ॥ ४।६४।१ ॥

हरयः सम्पातेर्वचनं श्रुत्वा सीतादर्शनकाङ्क्षिणस्सन्तः रावणक्षयं प्रति रावणनिलयभूतलङ्काद्वीपमुद्दिश्य सागरं तन्मार्गभूतसमुद्रमाजग्मुरिति सम्बन्धः ॥ ४।६४।२ ॥

प्रतिबिम्बाधारभूतादर्शतलमिवेत्यर्थः । अत्र सागरमित्यनुकृष्यते ॥ ४।६४।३ ॥

उत्तरां दिशमित्यत्र दिक्शब्देन तीरं लक्ष्यते । उत्तरं तटमिति सम्यक् ॥ ४।६४।४७ ॥

(समुद्रलङ्घनं कथं कर्तव्यमिति) ब्रुवन् ब्रुवन्तः । आर्षो वचनव्यत्ययः ॥ ४।६४।८,९ ॥

विषादेन विषादकारणेन ॥ ४।६४।१०,११ ॥

विषादो यं न सहते इति पाठः । यं (न) अभिभवति । पुरुषार्थो न सिद्ध्यति इत्यत्र इतिकरणं द्रष्टव्यम् । अस्य आश्वासयामासेति पूर्वेण सम्बन्धः ॥ ४।६४।१२२० ॥

यदिति । अभयदक्षिणाम् अहं यास्यामीत्येवंरूपाभयवचनमित्यर्थः ॥ ४।६४।२१ ॥

न कश्चित्किञ्चिदब्रवीत् । नन्वमितयोजनदेशलङ्घनसमर्थवानराणामसमर्थानामिव शतयोजनपरिमितसमुद्रलङ्घनप्रसङ्गे कथं तूष्णीम्भाव इति चेत्? अलङ्घ्यशासनसुग्रीवनियमितकालातिक्रमेण च्युतधैर्यत्वादप्रमेयरावणबलपरिज्ञानाच्चेत्यवगन्तव्यम् । तथा चोक्तं स्कन्दे “नीलो ऽङ्गदो हनूमांश्च जाम्बवानथ केसरी । समुद्रतीरमागम्य न शेकुः स्पन्दितुं पदम् । रावणस्य बलं ज्ञात्वा तीरे नदनदीपतेः ।” इति ॥ ४।६४।२२,२३ ॥

नहि व इति । सङ्गः प्रतिहतिः । ब्रुवध्वमिति निर्देशः छान्दसः ॥ ४।६४।२४ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां चतुष्षष्टितमः सर्गः ॥ ६४ ॥