०६३ सम्पातिना नूतनपक्षप्राप्तिः

॥ ४।६३।१,२ ॥

अद्य त्वेतस्येति । पूर्वं निशाकरमुनिप्रयाणानन्तरम् अष्टौ वर्षसहस्राणि मम व्यतीतानीत्युक्तत्वात् इदानीं साग्रं वर्षशतमित्येतदष्टवर्षसहस्रोपलक्षणम् ॥ ४।६३।३ ॥

वितर्कैः विविधविचारैः ॥ ४।६३।५ ॥

तस्येति । पक्षविति प्रपक्षयोरुपलक्षणम् । अन्यथा उत्तरत्र पक्षैरिति बहुवचनायोगात् ॥ ४।६३।८ ॥

अरुणच्छदैः अरुणबहिष्पत्रैः । अरुणप्रभैरिति पाठः ॥ ४।६३।९,१० ॥

बलं पौराणमेव च इति पाठः । पुराणमेव पौराणम् । स्वार्थे ऽण् । पुराणेषु दिव्यानां यादृशं बलं श्रूयते तादृसमिति वा ॥ ४।६३।१११४ ॥

अभिजिदभिमुखाः अभिजिन्मुहूर्तप्रतीक्षकाः । “सूर्याच्चतुर्थकं लग्नमभिजित्परिकीर्तितम् । सर्वदोषहरं चैव प्रशस्तं शुभकर्मसु ।” इति ज्योतिश्शास्त्रे ॥ ४।६३।१५ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां त्रिषष्टितमः सर्गः ॥ ६३ ॥