एवमिति । एवं स्वव्यापारमुक्त्वा ॥ ४।६२।१ ॥
प्राणादयश्च भविष्यन्तीति वचनव्यत्ययः कर्तव्यः । प्रपक्षौ प्रधानपक्षौ । पूर्ववत्सर्वव्यवहारसमर्थावित्यर्थः ॥ ४।६२।२ ॥
पुराण इति । पुराणे शास्त्ररहस्ये श्रुत्वा स्थितस्य मम च तपसा दृष्टमिति सम्बन्धः ॥ ४।६२।३६ ॥
सा चेति । काम्यन्त इति कामाः अपेक्षणीयाः तैः प्रलोभ्यन्ती ॥ ४।६२।७ ॥
परमान्नमिति । ज्ञात्वा, अनशन(ना)मिति शेषः ॥ ४।६२।८ ॥
तदिति । इन्द्रादिदं त्विति विज्ञानं पातिव्रत्यमहिम्नेति भावः । प्रकारान्तरेण रावणादागतं चेत्तत्परिहरतीति तात्पर्यम् । ऽअग्रमुद्धृत्य रामाय भूतले निर्वपिष्यतिऽ इत्यनेन पतिव्रताचार उक्तः । " भुक्तवत्येव भुञ्जीयात्स्वपत्यथ शयीत च" इति स्मरणात् ॥ ४।६२।१०,११ ॥
सर्वथेति । देशकालप्रतीक्षणस्य फलमाह पक्षाविति ॥ ४।६२।१२ ॥
तव पक्षसम्पादनसामर्थ्यं किमिदानीं नास्तीत्यत्राह नोत्सहेयमिति । अधुनैव पक्षसम्पादनं मया कृतं चेत्तवात्रावस्थानासम्भवादिहस्थेन त्वया कर्तव्यं न सिद्ध्यतीत्यर्थः ॥ ४।६२।१३ ॥
त्वयापीति । नृपपुत्रयोस्तत्प्रयोजनं त्वयापि कार्यं कर्तव्यं ब्राह्मणादीनां च कर्तव्यमिति सम्बन्धः ॥ ४।६२।१४,१५ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां द्विषष्टितमः सर्गः ॥ ६२ ॥