०६१ सम्पातिना स्वकथानिरूपणम्

। ॥ ४।६१।१,२ ॥

अहमिति । आकाशं पतितौ प्राप्तौ । सङ्घर्षात् मत्सरात् ॥ ४।६१।३ ॥

कैलासेति । पणबन्धनप्रकारमाह रविरिति । यावदस्तं महागिरिम् अस्ताचलावधिकमावाभ्यां रविरनुसृत्य यातव्यस्स्यादित्येवंरूपं पणं बद्ध्वा युगपत् प्राप्तौ महीतले नगराण्यपश्यावेति सम्बन्धः । “यावत्तावच्च साकल्ये” इत्यमरः । यावदस्तं याति तावत्पर्यन्तमिति भावः ॥ ४।६१।४६ ॥

तूर्णमिति । तत्स्थूलोन्नतवृक्षाधारत्वेन प्रसिद्धं वनम् । शाद्वलस्येव संस्थितिरवस्थानं यस्य तत् शाद्वलसंस्थितिः । स्थूलोन्नतवृक्षनिकरोपि भूप्रदेशगततृणगणरूपेण प्रतीयत इत्यर्थः । एतादृशप्रतीतिरतिविप्रकर्षनिबन्धनेत्यवगन्तव्यम् ॥ ४।६१।७९ ॥

तीव्र इति । मोहः चित्तविभ्रमः । अत्र मूर्च्छा नाम इन्द्रियैस्सह मनस उपप्लवः ॥ ४।६१।१० ॥

नियतस्थानविशेषा याम्या दिक् न विज्ञायते । किमिव? पूर्वं नियतः नियतस्थानविशेषः । युगान्ते अग्निना दग्धो हतो लोक इव ॥ ४।६१।११ ॥

मन इति । संश्रयम् अवलोकनाश्रयभूतं चक्षुरिन्द्रियम् सन्निवर्त्य स्वेन विप्रयुज्य भूयो भृशं हतं मूढं मे मनः महता यत्नेन अस्मिन् चक्षुषि पुनः सन्धाय महता यत्नेन भूयो रविः समवलोकित इति योजना ॥ ४।६१।१२,१३ ॥

जटायुः महीं प्रति निपपात । तं पतन्तं दृष्ट्वा आकाशात् पूर्वाधिष्ठिताकाशप्रदेशात् आत्मानं तूर्णं मुक्तवान् जटायुषो रक्षणार्थं तदुपरि सत्वरमागच्छमित्यर्थः । प्रमादादिति । पक्षयोर्विवृतत्वे सूर्यो धक्ष्यतीति बुद्ध्यभावात् ॥ ४।६१।१४१७ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायाम् एकषष्टितमः सर्गः ॥ ६१ ॥