तत इति । कृतोदकं जटायुर्निमित्तं कृतपारलौकिकक्रियामित्यर्थः गृध्रं परिवार्य उपविष्टा इति सम्बन्धः ॥ ४।६०।१ ॥
जनितप्रत्ययः निशाकरमुनिनोक्तप्रकारेण रामदूतवानरागमनदर्शनात् पक्षप्ररोहाच्च निशाकरोक्तार्थे जनितविश्वासः ॥ ४।६०।२ ॥
कृत्वेति । स्ववृत्तान्तकथनं सीतावृत्तान्तकथनोपयुक्तमिति द्योतयितुं यथा जानामि मैथिलीमित्युक्तम् ॥ ४।६०।३ ॥
अस्येति । निर्दग्धः निर्दग्धपक्षः । विवशः शरीरपारवश्ययुक्तः । विह्वलन् दीनः । इवशब्दो वाक्यालङ्कारे ॥ ४।६०।४,५ ॥
ततस्त्विति । सागरान् सागरम् । मतिः प्रत्यभिज्ञा ॥ ४।६०।६ ॥
तामेवाह हृष्टपक्षीति । निश्चितः निश्चितवान् ॥ ४।६०।७,८ ॥
अष्टाविति । निशाकरे स्वर्गते तेन ऋषिणा विना अस्मिन् गिरौ वसतो मम अष्टौ वर्षसहस्राणि, व्यतीतानीति शेषः ॥ ४।६०।९ ॥
ऋषेरवस्थानकाले मम पतनानन्तरम् ऋषिदर्शनप्रकारमाह अवतीर्येत्यादि ॥ ४।६०।१० ॥
दर्शने निमित्तमाह जटायुषेति । बहुश इत्यनेन पूर्वपरिचितः सूच्यते ॥ ४।६०।१११४ ॥
तमिति । धातारं पोषकम् । ययुः प्रापुः ॥ ४।६०।१५१७ ॥
हे सौम्य ते रोम्णां वैकल्यतां विकलत्वं दृष्ट्वा नावगम्यते, त्वत्स्वरूपमिति शेषः । रोमविकलत्वे हेतुः अग्निदग्धाविति ॥ ४।६०।१८२१ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां षष्टितमः सर्गः ॥ ६० ॥