०५९ सम्पातिना सीतावर्णनम्

तत इत्यादि । अमृतस्येवास्वादो यस्य तत् तथोक्तम्, अमृततुल्यमित्यर्थः ॥ ४।५९।१,२ ॥

अथ जाम्बवान् लूनपक्षः कन्दरान्तर्गतस्सन् सम्पातिर्दूरवृत्तसीतापहरणादिकं केन प्रकारेणावगतवानिति मत्वा विशेषतो ऽवगन्तुं पुनः पृच्छति क्व सीतेत्यादिना ॥ ४।५९।३,४ ॥

स हरीनिति । सीताश्रुतिसमाहितान् सीतावृत्तान्तश्रवणे एकाग्रचित्तानित्यर्थः ॥ ४।५९।५ ॥

श्रूयतामिति । यत्र दृष्टा येन चाख्यातं तत्सर्वं श्रूयताम् ॥ ४।५९।६९ ॥

स इति । क्षुधार्तस्य मम, समीपमिति शेषः ॥ ४।५९।१०,११ ॥

स मामिति । अनुमान्य सम्प्रार्थ्य । आहारसंरोधात् आहाराभावात् ॥ ४।५९।१२१५ ॥

सो ऽहमिति । कृतनिश्चयः आहारो लब्ध इति कृतनिश्चयो ऽहं तेन याचितः । (कृतनिश्चयः, अभवमिति शेषः ।) तर्हि किन्निमित्तं नावधीरित्यत आह तेनेति ॥ ४।५९।१६ ॥

नीचेष्वपि वर्तमानः कश्चिदपि जनः सामोपपन्नानां प्रहर्ता न विद्यते, मद्विधः किमुत? अङ्गेत्यामन्त्रणे । बतेति खेदे । खेचरैर्भूतैः सिद्धचारणादिभिः ॥ ४।५९।१७,१८ ॥

दिष्ट्येति । असौ सकलत्रः सरक्ष्यवस्तुः कथञ्चिद्गतो हि । हे तात दिष्ट्या जीवसि, ते असंशयं स्वस्तीति मां महर्षयो ऽब्रुवन्निति योजना । अहं तैरेवमुक्तः ॥ ४।५९।१९,२० ॥

रामलक्ष्मणयोर्नाम क्रोशन्तीं जनकात्मजां हरन् स रक्षसां राजा रावण इति मे मया प्रतिवेदित इति सम्बन्धः ॥ ४।५९।२१ ॥

एष कालात्ययः कालातिक्रमः कालातिक्रमे एष हेतुरिति भावः ॥ ४।५९।२२२४ ॥

वागिति । सर्वेषां सर्वप्राणिनाम् । वाङ्मतिभ्यां प्रियं करिष्यामि हि । दाशरथेः वः दाशरथिसम्बन्धिनां युष्माकं यत्कार्यं तत्तु मम हि ममैव, अत्र संशयो नेति योजना ॥ ४।५९।२५,२६ ॥

लोकानां त्राणनिग्रहे त्राणे रक्षणे निग्रहे च ॥ ४।५९।२७ ॥

काममिति । न किञ्चिदपि दुष्करम्, भविष्यतीति शेषः ॥ ४।५९।२८ ॥

तदिति । कालसङ्गेन कालविलम्बनेन भविष्यदर्थज्ञापनेन तेन बुद्ध्या प्रियं कृतं भवतीति वेदितव्यम् ॥ ४।५९।२९ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायाम् एकोनषष्टितमः सर्गः ॥ ५९ ॥