०५८ सम्पातिना सीतान्वेषणसाहाय्यप्रतिज्ञा

इतीति । सबाष्पो वानरान् गृध्रः इति पाठः । स बाष्पं धारयन् क्रुद्धः इति पाठे क्रोधो रावणविषयः ॥ ४।५८।१३ ॥

आदित्मुपयातौ स्वः आदित्यं प्राप्तावभूव ॥ ४।५८।४ ॥

आवृत्त्येति । स्मशब्दस्य अवसीदतीत्यनेन सम्बन्धः ॥ ४।५८।५ ॥

छादयामास आच्छादयम् ॥ ४।५८।६८ ॥

जटायुष इति । यदि भ्राता तर्हि रामदासो ऽसीत्यभिप्रायः । मया गदितं ऽतस्य भार्या जनस्थानात्ऽ इत्यादिना उक्तम् ॥ ४।५८।९ ॥

अदीर्घदर्शनम् आगाम्यनर्थानवेक्षकमित्यर्थः ॥ ४।५८।१०१२ ॥

वक्ष्यमाणकर्मणि प्रामाणिकत्वसम्पादनाय स्वज्ञानातिशयमाह जानामीति । वारुणान् लोकान् अतलादिलोकान् त्रैविक्रमान् त्रिविक्रमक्रमितान् ऊर्ध्वलोकानित्यर्थः । महासुरविमर्दान् देवासुरसङ्ग्रामान् ॥ ४।५८।१३१९ ॥

इतो द्वीपः अस्तीति शेषः । तस्मिन् द्वीपे ॥ ४।५८।२०२४ ॥

विक्रमध्वं गच्छत । ज्ञानेन दिव्यज्ञानेन ॥ ४।५८।२५ ॥

एतादृशदिव्यज्ञानं भवतः कथमभूदित्याकाङ्क्षायां दिव्या वयमिति प्रतिपादयन्नाह आद्य इत्यादि । ऽये चान्ये धान्यजीविनःऽ इत्यभिधानात् कुलिङ्गाः भूप्रत्यासन्नगगनचारिणः धान्यजीविनः पक्षिविशेषाः ॥ ४।५८।२६ ॥

भासाः जलवायसाः ॥ ४।५८।२७ ॥

हे वानरर्षभाः वैनतेयाच्च नो जन्म, विनतापत्यानूरोरस्माकमुत्पत्तिः । सर्वेषाम् अस्मत्कुलीनानाम् । “वैनतेयाच्च नो जन्म” इत्यनेन दिव्यज्ञानहेतुत्वं प्रतिपादितम् । ऽगर्हितं तु कृतं कर्मऽ इत्यस्य श्लोकस्य ऽवृत्तिश्चरमयोधिनाम्ऽ इत्यस्यानन्तरमवस्थाने कथायाः सुसङ्गतत्वात्तत्रैवायं द्रष्टव्यः ॥ ४।५८।२८ ॥

न केवलं दिव्यज्ञानम्, दिव्यचक्षुरप्यस्तीत्याह इहस्थ इति । अपिशब्दो भिन्नक्रमः चक्षुरित्यनेन सम्बध्यते । सौवर्णमिति विशेषणम् अतिदूरदर्शित्वद्योतनार्थम् । आहारवीर्येण आहारबलेन । निसर्गेण सौवर्णत्वनिबन्धनस्वभावेन ॥ ४।५८।२९,३० ॥

अस्माकमिति । वृत्तिर्भक्ष्यग्रहणम् । पादमूले पादविकीर्णप्रदेशे । चरणयोधिनां कुकुटादीनाम् ॥ ४।५८।३१ ॥

भवतां लङ्कागमनोद्योगो ममाप्युपकाराय भविष्यतीत्याशयेनाह गर्हितमिति । येन पिशिताशिना रावणेन गर्हितं कर्म सीताहरणरूपं कृतं मया भ्रातुर्हेतोः प्रतीकार्यं तस्य वैरं कृतं प्रतिकृतं भवेत्, भवद्भिरिति शेषः । मया कर्तव्यो रावणविनाशो युष्माभिः कर्तव्य इति भावः ॥ ४।५८।३२ ॥

अतो लङ्घनोपायश्चिन्त्यताम् । अवश्यम्भाविनी कार्यसिद्धिरित्याह उपाय इति । गमिष्यथ, किष्किन्धां प्रतीति शेषः ॥ ४।५८।३३ ॥

समुद्रं नेतुमिति । मामिति शेषः । भवद्भिरिति करणे तृतीया ॥ ४।५८।३४ ॥

तत इत्यादिश्लोकद्वयमेकं वाक्यम् । वानराः पतगेश्वरं सम्पातिं नदनदीपतेः तीरं देशं तीरप्रदेशं नीत्वा पुनः तं देशम् आवासभूतदेशं प्रत्यानयित्वा प्रवृत्तिं सीतावृत्तान्तमुपलभ्य ते वानराः हृष्टा बभूवुरिति सम्बन्धः ॥ ४।५८।३५,३६ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायाम् अष्टपञ्चाशः सर्गः ॥ ५८ ॥