शोकादिति । कर्मणा शङ्किताः “मृतं मृतं च भक्षिष्ये” इति भक्षणकर्मप्रतिपादकवाक्येन भीताः ॥ ४।५७।१ ॥
रौद्रां बुद्धिम् आत्मत्यागाध्यवसायरूपत्वेन क्रूरां मतिम् ॥ ४।५७।२४ ॥
आर्यः पितामहः ॥ ४।५७।५ ॥
ओघबलौ ओघसङ्ख्याकपुरुषबलौ । ओघः सेनासमुदायः ॥ ४।५७।६१३ ॥
अभिषेचयत् अभ्यषेचयत् ॥ ४।५७।१४१७ ॥
ते वयमिति । संस्थां व्यवस्थां मर्यादा वा ॥ ४।५७।१८,१९ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां सप्तपञ्चाशः सर्गः ॥ ५७ ॥