०५६ सम्पातिना वानरमुखात् जटायुमृत्युश्रवणम्

। ॥ ४।५६।१३ ॥

विधिरिति । विधिः दैवम् । विधानेन योगक्षेमसम्पादनेन । नरं प्राणिनमनुवर्तते । यदा यस्मात्कारणात् । मह्यं विहितो ऽयं भक्ष्यः वानररूपः चिरादिहागत इति सम्बन्धः ॥ ४।५६।४ ॥

पराणां श्रेष्ठानां वानराणां मध्ये परं मुख्यं वानरं मृतं मृतं हत्वा हत्वा भक्षिष्य इत्येवं वच उवाचेति सम्बन्धः । अन्यथा स्वयंमृतभक्षणे पूर्वं वानराणां भयमागतमिति सम्पातिनिमित्तभयागमनवचनं, पश्य गृध्रापदेशेनेति वक्ष्यमाणमङ्गदनिर्वेदवचनं च नोपपद्यते । नहि स्वयंमृतभक्षिणः पक्ष्यादयो भयहेतवो भवन्ति । किञ्च क्षुधितः तदानीमामिषार्थं निर्गतः सः तेषां स्वयंमरणं नापेक्षते अतो हत्वा हत्वेति व्याख्यातम् ॥ ४।५६।५ ॥

परमायस्तः परमश्रान्तः ॥ ४।५६।६,७ ॥

अज्ञाता विपत्तिः अचिन्तिता विपत् ॥ ४।५६।८,९ ॥

तथेति सार्धश्लोकमेकं वाक्यम् । स्नेहकारुण्ययन्त्रिताः रामस्नेहकारुण्याभ्यां निबद्धाः वयं यथा तथा उपकुर्वन्ति उपकुर्वाणानि तिर्यग्योनिगतान्यपि सर्वाण्यपि भूतानि अन्योन्यं प्रत्येकं प्रत्येकं रामस्य प्रियं कुर्वन्ति ॥ ४।५६।१० ॥

जटायुषा रामस्य प्रियं कृतमित्युक्तं तदेव विवृणोति तेनेति । तस्य रामस्य उपकारार्थम् आत्मानं त्यजता जटायुषा प्रियं कृतमिति सम्बन्धः ॥ ४।५६।११ ॥

राघवार्थ इति । सन्त्यक्तजीविताः सन्त्यक्तजीविताशाः ॥ ४।५६।१२ ॥

सुग्रीवभयान्मुक्तः सुग्रीवस्य वनचरेश्वरत्वेन वानराणामिव जटायुषो ऽपि सुग्रीवनिमित्तकं भयं सम्भविष्यतीति आलोच्यैवमुक्तमिति भावः ॥ ४।५६।१३ ॥

जटायुषो विनाशेन दशरथस्य विनाशेन वैदेह्या हरणेन च हरयः संशयं प्राणसंशयं गता इति योजना । जटायुर्यदि न विनश्येत् सीता नापह्रियेत दशरथो यदि जीवेत् रामादीनां वनात्प्रत्यानयनं सम्भवेदिति भावः । जटायुर्वैदेह्याः कृते रावणेन सह युद्धं कृत्वा रामसन्निधानमरणेन उत्तमगतिभागभूत्, वयं तु रामसमीपे न वसामः, सीतामपि न पश्यामः अतो वृथा प्राणांस्त्यजाम इति दुःखातिशयोक्तिरिति ज्ञेयम् ॥ ४।५६।१४ ॥

उक्तहेतूनां कारणमाह रामलक्ष्मणयोरित्यादिना श्लोकद्वयेन । रामादीनां वनवासः राक्षसानां खरादीनां वालिनो वधश्च इतीदं विकृतं कैकेय्या वरदानेन कृतं हीति सम्बन्धः । कैकेयीवरदानेन हेतुना रामवनवासमारभ्य प्रायोपवेशपर्यन्तं यदस्ति तत्सर्वं प्राप्तमिति भावः ॥ ४।५६।१५,१६ ॥

तदसुखमिति । वचः भ्रातृनिधनज्ञापकं वचः, श्रुत्वेति शेषः । वानरान् भुवि पतितांश्च समीक्ष्य ज्ञात्वा कृपणं भ्रातृवधप्रकारप्रश्नत्वाद्दीनं वच इत्यनुषङ्गः । उदाहृतवान् पृष्टवान् ॥ ४।५६।१७१९ ॥

कथमासीज्जनस्थाने युद्धम्, सखा दशरथः कथमित्यनुवादेन च तदुभयमप्यङ्गदेन पूर्वमुक्तमित्यवगन्तव्यम् ॥ ४।५६।२०२५ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां षट्पञ्चाशः सर्गः ॥ ५६ ॥