०५५ वानरकृतशीघ्रान्वेषणनिश्चयः

। ॥ ४।५५।१,२ ॥

धर्मेण मातरं ज्येष्ठभ्रातृपत्नीत्वरूपधर्मप्रयोज्यमातृत्ववतीं भ्रात्रा वालिना नियुक्तेन त्वं बिलद्वारि तिष्ठ अहमन्तः प्रविश्य योत्स्यामीति युद्धायाभिनियुक्तेन दुरात्मना सुग्रीवेण बिलस्य मुखं पिहितम् आच्छादितम् । स कथं धर्मं जानीत इति सम्बन्धः ॥ ४।५५।३,४ ॥

सत्यादिति । पाणिगृहीतः पाणौ गृहीतवान् ॥ ४।५५।५ ॥

तर्हि सीतागवेषणप्रयत्नः कथमकारीत्यत आह लक्ष्मणस्येति । अधर्मभयभीरुणा अधर्मरूपं भयं हेतुः तस्मात् भीरुणा नादिष्टाः, किन्तु लक्ष्मणस्य भयादेवादिष्टाः ॥ ४।५५।६ ॥

स्मृतिहीने पूर्वोपकारस्मरणशून्ये ॥ ४।५५।७,८ ॥

भिन्नेति । भिन्नमन्त्रः प्रकाशितविगृह्यावस्थानविषयमन्त्रः ॥ ४।५५।९१६ ॥

तस्येति । समीप इति शेषः ॥ ४।५५।१७,१८ ॥

मतमिति । तत्र विन्ध्ये ॥ ४।५५।१९ ॥

दक्षिणाग्रेष्विति । उत्तरीयं समाहिता इति कर्तरि निष्ठा । उत्तरीयं संवसितवन्त इत्यर्थः । उदक्तीरं समाश्रिता इति च पाठः ॥ ४।५५।२०,२१ ॥

हरीणां भयमागतं सम्पातिरूपं भयनिमित्तं प्राप्तम् । एतच्चानन्तरसर्गादौ स्पष्टीभविष्यति ॥ ४।५५।२२ ॥

भयनिमित्तागमने हेतुमाह स संविशद्भिरिति । सन्नादितनिर्दरान्तरत्वस्य भयनिमित्तसम्पात्यागमनहेतुत्वात् । नदद्भिः सम्पातिदर्शनजनितभयेन नादं कुर्वद्भिः ॥ ४।५५।२३ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां पञ्चपञ्चाशः सर्गः ॥ ५५ ॥