०५४ हनुमता-अङ्गदोपदेशः

अथ महाप्राज्ञो हनुमान् तारादिमतस्याप्रतिषिद्धत्वादङ्गदं तन्मतावलम्बिनमवगम्य तस्याशंसितं प्रतिषेधयति तथेति । राज्यं हृतं मेने, राज्यं कर्तुं सामर्थ्यमस्तीति मेन इत्यर्थः ॥ ४।५४।१ ॥

सामर्थ्यमेव प्रतिपादयति बुद्ध्या हीत्यादिना । अष्टाङ्गया अष्टगुणया । ते च गुणाः “शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा । ऊहो ऽपोहो ऽर्थविज्ञानं तद्विज्ञानं च धीगुणाः ।” इति । चतुर्बलसमन्वितम् बाहुबलमनोबलोपायबलबन्धुबलसमन्वितम् । यद्वा चतुर्विधबलानि सामादयश्चतुरुपायाः । चतुर्दशगुणास्तु “देशकालज्ञता दार्ढ्यं सर्वक्लेशसहिष्णुता । सर्वविज्ञानिता दाक्ष्यमूर्जस्संवृतमन्त्रता । अविसंवादिता शौर्यं शक्तिज्ञत्वं कृतज्ञता । शरणागतवात्सल्यममर्षित्वमचापलम् ।” इत्युक्तचतुर्दशगुणयुक्तम् ॥ ४।५४।२,३ ॥

शुश्रूषमाणमिति । तारस्य शुश्रूषमाणम्, वाक्यमीति शेषः । (तारमतपक्षपातिनमित्यर्थः) शुक्रस्येव पुरन्दरम् । पुरन्दरसन्निधानादत्र शुक्रशब्दो बृहस्पतिपरः । यद्वा स कस्याञ्चिदवस्थायां हितमुपदिशतः शुक्रस्य वचनं पुरन्दरः श्रुतवानिति गम्यते ॥ ४।५४।४ ॥

भर्तुरिति । अभिसन्धातुं समाधातुम् । उक्तविचारान्निवर्तयितुमिति यावत् ॥ ४।५४।५ ॥

स इति । चतुर्णां सामादीनां मध्ये तृतीयं भेदमनुवर्णयन् ॥ ४।५४।६ ॥

तेष्विति । कोपोपायसमन्वितैः कोपजन्योपायः कोपोपायः दण्डः तत्समन्वितैः, कोपोपायाभ्यां समन्वितैरिति वा ॥ ४।५४।७ ॥

त्वमिति । पितुः सुग्रीवात् । यथा पिता वाली कपिराज्यं युद्धे धुरं च दृढं धारयितुं शक्त इति सम्बन्धः ॥ ४।५४।८ ॥

तथा चेदेभिस्सहास्मिन् बिल एव राज्यं करिष्यामीत्यत आह नित्यमिति । आज्ञाप्यम् आज्ञापनम् । पुत्रदारान् विना पुत्रैर्दारैर्विरहिताः । त्वयेति कर्तरि तृतीया । त्वया आज्ञापनं न सहिष्यन्ति ॥ ४।५४।९ ॥

त्वामिति । एते पुत्रदारादीन् त्यक्त्वा त्वां नानुयुञ्जेयुः नानुवर्तेरन्नित्यर्थः । एते नानुयुञ्जेयुरित्युक्तम्, तानेवाह यथेति । यथा जाम्बवान्नीलः सुहोत्रश्च एते त्वां नानुयुञ्जेयुस्तथा अहमपि नानुवर्त इति योजना । दण्डेनेत्यर्धमेकं वाक्यम् । सुग्रीवात् पूर्वोक्ता हरयः दण्डेन सुग्रीवादपकर्षितुं न शक्याः ॥ ४।५४।१०,११ ॥

ननु तथा ह्यहमेक एव सुग्रीवेण विगृह्य स्थास्यामीत्यत आह विगृह्येति । विगृह्यासनमपि विगृह्यावस्थानमपि दुर्बलेन सह बलीयस एव कर्तव्यमाहुः, न तु दुर्बलस्य बलीयसा । तस्मादात्मरक्षाकरः स्वक्षेमकारी दुर्बलः बलीयसा न विगृह्णीत विगृह्य नासीतेति योजना ॥ ४।५४।१२ ॥

स्वतो बलाभावे ऽपि दुर्गबलमस्तीत्याशङ्क्य पिरहरति यां चेति । यामिमां गुहां धात्रीं रक्षित्रीं मन्यसे एतदृक्षबिलम् ऋक्षबिलमिति च तारादृतम् एतदृक्षबिलं विदारणे विदारणविषये लक्ष्मणबाणानामीषत्कार्यम्, अयत्नसाद्ध्यमित्यर्थः ॥ ४।५४।१३ ॥

स्वल्पमिति । पुरा बिलवासिनं मयमुद्दिश्य अशनिं क्षिपतेन्द्रेण स्वल्पं कृतं द्वारमात्रमेव कृतं न तु बिलभेदनम्, लक्ष्मणस्तु निशितैर्बाणैः पत्रपुटमिव भिन्द्याद्धि ॥ ४।५४।१४ ॥

लक्ष्मणस्य तथाविधं सामर्थ्यं कथमित्यत आह लक्ष्मणस्येति । तद्भिदाः इति पाठे बिलभेदकाः ॥ ४।५४।१५ ॥

अवस्थान इति । अवस्थाने बिले । यद्वा अवस्थाने विगृह्यावस्थाने यथा आसिष्यसि स्थास्यसि, विगृह्यावस्थानं यथा अध्यवसिष्यसीत्यर्थः ॥ ४।५४।१६,१७ ॥

ततः किमित्यत आह स त्वमिति । भयोद्विग्नः भयचलितः ॥ ४।५४।१८ ॥

लक्ष्मणसायकाः असंवृत्तं वृत्तहीनम्, स्वकार्याकरमित्यर्थः । त्वां न हिंस्युरिति न, हिंस्युरेवेत्यर्थः ॥ ४।५४।१९ ॥

किष्किन्धाप्रवेशे तथा भविष्यतीत्याह अस्माभिरिति । आनुपूर्व्यात् क्रमप्राप्तात् ॥ ४।५४।२०२२ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां चतुष्पञ्चाशस्सर्गः ॥ ५४ ॥