०५३ प्रायोपवेशनिश्चयः

॥ ४।५३।११४ ॥

मयस्येति । गिरिदुर्गम् ऋक्षबिलम् ॥ ४।५३।१५ ॥

विन्ध्यस्येति । चिन्ताम् अतः परं किं कुर्म इत्येवंरूपाम् ॥ ४।५३।१६ ॥

वासन्तिकान् द्रुमान् वसन्तकालफलिनो द्रुमान् चूतादीन् । ये वसन्ते फलन्ति ते शिशिरादौ पुष्प्यन्ति हि ॥ ४।५३।१७ ॥

वसन्तं प्राप्तं वसन्तकालं प्रत्यासन्नम् । तदानीं शिशिरः कथम्? तथा हि शरत्कालान्ते सुग्रीवो मार्गशीर्षे सेनां सन्निपात्य पौषमासमवधिं दत्त्वा सीतान्वेषणार्थमस्मान् प्रस्थापितवान्, स पौषो ऽतीतः, मधुः प्रवृत्त इति, तेन वसन्तः प्रत्यासन्न एव न प्राप्त इति मन्तव्यम् ॥ ४।५३।१८,१९ ॥

स त्विति । सिंहवृषयोरिव स्कन्धौ यस्य स तथा ॥ ४।५३।२० ॥

शासनादिति । बिलस्थानाम् बिले परिवर्तमानानाम् अस्माकमवधित्वेन सुग्रीवपरिकल्पितमासः पूर्णः किं न बुद्ध्यते भवद्भिर्न ज्ञायते किम्? खेदं त्यक्त्वा पुनरेतद्वनं विचेयम्, भवद्भिरिति शेषः । इदानीं शिशिरर्तुलिङ्गभूतपुष्पदर्शनेन न जानीथ किमिति भावः ॥ ४।५३।२१ ॥

कालस्यातीतत्वमुपपादयन्नाह वयमिति । वयमाश्वयुजे मासि हनुमच्चोदितेन सुग्रीवेण त्रिपञ्चरात्रसङ्ख्यया नियम्य समाहूताः । ततो मार्गशीर्षे लक्ष्मणचोदितेन तेन दशरात्रसङ्ख्यया समाहूताः । ततः सीतान्वेषणे पौषमासमवधिं दत्त्वा तेन प्रेषिताः । एवमाश्वयुजमासमारभ्य कालसङ्ख्यया व्यवस्थितानामस्माकं कालविस्मरणं न युक्तमित्यर्थः । यद्वा आश्वयुजे मासि दशम्यामुत्थितायामितिवत्सामीप्याधिकरणविवक्षया सप्तमी, तेन कार्तिकमास उच्यते “कार्त्तिके समनुप्राप्ते त्वं रावणवधे यत । एष नस्समयस्सौम्य प्रविश त्वं स्वमालयम्” इत्युक्तकालातिक्रमप्रयुक्तरामकोपदर्शनात् कार्तिकान्तो विवक्षितः । “प्रस्थिताः सो ऽपि चातीतः किमतः कार्यमुत्तरम् ।” इत्यत्र अपिचेत्यनेन मार्गणावधिभूतमार्गशीर्षानन्तरमासस्समुच्चीयते ॥ ४।५३।२२ ॥

भवन्त इति । प्रत्ययं विश्वासं प्राप्ताः ॥ ४।५३।२३२७ ॥

अप्रवृत्तौ वार्ताभावे । पापं वधम् । प्रायोपविशनम् अनशनदीक्षा । “प्रायश्चानशने मृत्याम्” इति कोशः । प्रायोपविशनमिति गुणाभाव आर्षः ॥ ४।५३।२८ ॥

तत्रैव वधो भवत्वित्यत आह वधेनेति । वधादित्यर्थः । अप्रतिरूपेण अनर्हेणेत्यर्थः ॥ ४।५३।२९ ॥

पुत्रप्रीत्या त्वां युवराजं कृतवान् सुग्रीवः कथं हनिष्यतीत्याशङ्क्याह न चाहमिति ॥ ४।५३।३०,३१ ॥

बन्धुषु विद्यमानेषु प्रायोपवेशनं न युक्तमित्यत आह किं म इति । मे जीवितान्तरे जीवितावधौ व्यसनं पश्यद्भिः सुहृद्भिः किम्? सुहृदो मद्व्यसनप्रदर्शनेन क्लेशयित्वा मम किं प्रयोजनमित्यर्थः ॥ ४।५३।३२३८ ॥

श्रुत्वा ऽङ्गदस्यापि वचो ऽनुकूलम् अङ्गदस्याप्यनुकूलं तारस्य वचनं श्रुत्वेत्यर्थः । प्रतीता हृष्टाः सन्तः । असक्तमविलम्बम् ॥ ४।५३।३९ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां त्रिपञ्चाशः सर्गः ॥ ५३ ॥