अथ हनुमता स्वागमनहेतुरुच्यते द्विपञ्चाशे अथेत्यादि ॥ ४।५२।१ ॥
वानरा इति । मया श्राव्यं मया श्रोतुं योग्यम् ॥ ४।५२।२ ॥
तस्या इति । आर्जवेन ऋजुस्वभावेन ॥ ४।५२।३ ॥
अगस्त्यचरितामिति । दक्षिणामाशां प्रति येन प्रस्थापिता वयमिति सम्बन्धः । यमरक्षितामित्यनेन दुर्गमत्वमुक्तम् ॥ ४।५२।७१२ ॥
तेषामिति । तेषामपि हि सर्वेषाम् अनुमानमुपागतं जलक्लिन्नपक्षिनिर्गमरूपलिङ्गदर्शनाद्बिलप्रवेशनमङ्गीकृतमित्यर्थः ॥ ४।५२।१३ ॥
निपतिताः मिलिताः ॥ ४।५२।१४ ॥
त्वां चेति । परिद्यूनाः परिक्षीणाः ॥ ४।५२।१५१९ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां द्विपञ्चाशः सर्गः ॥ ५२ ॥