। ॥ ४।५१।१,२ ॥
भावान् पदार्थान् ॥ ४।५१।३ ॥
वयं प्रव्यथिताः, अलौकिकवस्तुसन्दर्शनजनितभयेनेति भावः ॥ ४।५१।४७ ॥
कथं मत्स्याश्चेति । आत्मनस्त्वनुभावात्, तवानुभावादित्यर्थः ॥ ४।५१।८,९ ॥
मयो नामेति । मायया विचित्रशक्त्या ॥ ४।५१।१०,११ ॥
औशनसं धनं विचित्रनिर्माणप्रतिपादकशिल्पशास्त्रज्ञानम्, शिल्पस्योशनसा प्रणीतत्वात्तद्धनत्वव्यपदेशः ॥ ४।५१।१२ ॥
वनमिति । विधाय सर्वं वनं काञ्चनं कृत्वा ॥ ४।५१।१३,१४ ॥
इदमिति । विचित्रनिर्माणसामर्थ्यगुणयोगात् अत्र ब्रह्मशब्दो दानवविश्वकर्ममयवाची ॥ ४।५१।१५ ॥
तर्हि त्वं का, किमर्थं चात्र तिष्ठसीत्यत आह दुहितेति । तस्याः हेमाया इति सम्बन्धः ॥ ४।५१।१६ ॥
दत्तवरा, वरः पराप्रधृष्यत्वादिरूपः । युवयोः कः सम्बन्धः इत्यत आह ममेति । तथापि रक्षणसामर्थ्यं तव कथमित्यत आह तयेति ॥ ४।५१।१७ ॥
वानरागमनं पृच्छति किं कार्यमिति ॥ ४।५१।१८,१९ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायाम् एकपञ्चाशः सर्गः ॥ ५१ ॥