। ॥ ४।५०।१ ॥
सिंहेति । नगेन्द्रस्य सिंहशार्दूलजुष्टेषु विषयेशषु शिलाश्च महाप्रस्रवणेषु सरितश्च विचिनोति स्मेति पूर्वेण सम्बन्धः ॥ ४।५०।२ ॥
आसेदुरिति । स कालः सुग्रीवकल्पितो मासरूपः व्यत्यवर्तत, व्यतीतप्राय इत्यर्थः । ऽमासः पूर्णो बिलस्थानाम्ऽ इत्युत्तरत्राङ्गदेनाभिधानात् । दक्षिणपश्चिमां दक्षिणपश्चिमयोरन्तरालम्, नैर्ऋतीमित्यर्थः ॥ ४।५०।३,४ ॥
तत्र सङ्गम्येत्यध्याहार्यम् । वायुसुतः अन्योन्यस्याविदूरतः परस्परेण सङ्गम्य सर्वं पर्वतं विचिनोति स्मेति सम्बन्धः । समन्ततो वानरानविदूरे स्थापयित्वा सानुगह्वरादिविशिष्टं कृत्स्नं पर्वतं वायुसुतो महता वेगेन विचितवानित्यर्थः ॥ ४।५०।५७ ॥
दुर्गमित्यादिसार्द्धश्लोकमेकं वाक्यम् । दुर्गं दुर्गमं दानवेन मयेन बिलस्य विशिष्टतां द्योतयितुं ददृशुरिति पुनरभिधानम् ॥ ४।५०।८१० ॥
सञ्जातपरिशङ्का इत्यादिश्लोकद्वयमेकं वाक्यम् । सञ्जातपरिशङ्काः इदमेव रावणस्थानमिति सञ्जाताः परिशङ्का ऊहा येषां ते तथोक्ताः ॥ ४।५०।११,१२ ॥
कान्तारवनकोविदः कान्तारे दुर्गमार्गे वने च कोविदः ॥ ४।५०।१३ ॥
दक्षिणां दिशं दक्षिणस्यां दिशीत्यर्थः ॥ ४।५०।१४१६ ॥
इत्युक्त इति पाठे इत्युक्ते सति सर्वे हरयः तद्बिलं विविशुः ॥ ४।५०।१७ ॥
हरिशार्दूलाः तस्मात् बिलात् निर्गच्छतः सिंहादीन् निशाम्य दृष्ट्वा तद्बिलं प्रविष्टा इति योजना ॥ ४।५०।१८ ॥
कथमन्धकारावृतबिलप्रवेश इत्यत्राह न तेषामिति । तेजः प्रभावः, तेज आदि तद्बिलस्थतमसि न प्रवर्तत इत्यर्थः ॥ ४।५०।१९ ॥
त इति । प्रकाशं तिमिररहितं देशं दूराद्ददृशुरित्यर्थः ॥ ४।५०।२० ॥
एवं सङ्ग्रहेणोक्त्वा सप्रपञ्चमाह ततस्तस्मिन्नित्यादिना । अन्योन्यं सम्परिष्वज्य अन्योन्यं हस्तावलम्बनं कृत्वा ॥ ४।५०।२१,२२ ॥
आलोकं प्रकाशवन्तं देशम् । “आलोकौ दर्शनोद्द्योतौ " इत्यमरः ॥ ४।५०।२३२५ ॥
स्तबकैरिति श्लोकद्वयमेकं वाक्यम् । आपीडैः शेखरैः हेमाभरणभूषितान् फलितहेमाभरणान् हिरण्यमयान् रजतमयान् स्तबकादिभिश्च युतान् ददृशुरिति पूर्वेण सम्बन्धः ॥ ४।५०।२६,२७ ॥
नीलवैडूर्येत्यादिश्लोकद्वयमेकं वाक्यम् । पतगावृताः बालार्कसन्निभेर्महद्भिः काञ्चनैः काञ्चनमयैः पद्मैः वृताः । नीलवैडूर्यवर्णाः पद्मिनीः सकच्छपैः जातरूपमयैर्मत्स्यैर्वृताः । प्रसन्नसलिलावृताः नलिनीश्च ददृशुरिति योजना ॥ ४।५०।२८३१ ॥
पुष्पितानिति । मधूनि पुष्परसाः “मधु मद्ये पुष्परसे” इत्यमरः ॥ ४।५०।३२३४ ॥
पानानि उदकानि ॥ ४।५०।३५३८ ॥
तामिति । सन्त्रस्ताः तदीयातिरिक्ततेजोदर्शनेनेति भावः ॥ ४।५०।३९,४० ॥
तत इति । वदस्व वद ॥ ४।५०।४१ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां पञ्चाशस्सर्गः । ५० ॥