॥ ४।४९।१,२ ॥
तत्र तत्रेति । सहास्माभिरित्यात्मनि बहुवचनम् । अस्माभिः सह विचितानि, युष्माभिरिति शेषः ॥ ४।४९।३ ॥
कालश्चेति । समयातिक्रमेण मारयिष्यतीति भावः ॥ ४।४९।४ ॥
तन्द्रीं प्रमीलाम्, निद्रामालस्यमिति यावत् ॥ ४।४९।५ ॥
किं तत्कार्यसाधकमित्यत आह अनिर्वेदमिति । मनसश्चापराजयः मनोजय इत्यर्थः ॥ ४।४९।६ ॥
हे वनौकसः इदं दुर्गं वनम् अद्यापि विचिन्वन्तु, भवन्त इति शेषः । कथमिति चेत्? खेदं त्यक्त्वा पुनरेतद्वनं विचीयताम्, भवद्भिरिति शेषः ॥ ४।४९।७ ॥
अवश्यमिति । निर्वेदमागम्यालम्, कुतः? मीलनं नेत्रे निमील्यावस्थानम्, निरुद्योगमिति यावत् । नः अस्माकम् । न क्षमम् ॥ ४।४९।८ ॥
विचयनाभावे बाधां सूचयति सुग्रीव इत्यादि । तस्य तस्मादित्यर्थः ॥ ४।४९।९११ ॥
सदृशमिति । अङ्गदः यद्वाक्यमुवाच तद्वाक्यं वो युष्माकं सदृशं खलु सम्मतं खल्विति सम्बन्धः ॥ ४।४९।१२,१३ ॥
यथो दृष्टानीति । विचिन्वन्तु, भवन्त इति शेषः ॥ ४।४९।१४२२ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायाम् एकोनपञ्चाशः सर्गः ॥ ४९ ॥