इतरदिक्प्रस्थितवानरवृत्तान्तस्य अल्पत्वेन प्रथमत एव संवर्ण्य इदानीं दक्षिणदिक्प्रस्थितवानरवृत्तान्तमाह सहेति ॥ ४।४८।१,२ ॥
पर्वतान् विन्ध्यस्य प्रत्यन्तपर्वतान् गोमन्तत्र्यम्बकादीन् । घनपादपानिति सर्वत्र विशेषणम् ॥ ४।४८।३,४ ॥
सः प्रसिद्धो देशः, अस्तीति शेषः ॥ ४।४८।५७ ॥
तैः प्रविष्टं देशं वर्णयति यत्र वन्ध्यफलेत्यादिना । वन्ध्यान्यनुभोग्यानि फलानि येषां ते ॥ ४।४८।८,९ ॥
ओषध्यः व्रीह्यादयः । स्निग्धपत्रा इत्यादावपि न सन्तीत्यनुषज्यते ॥ ४।४८।१० ॥
तस्य देशस्योक्तरूपत्वे कारणमाह कण्डुर्नामेत्यादिना ॥ ४।४८।११ ॥
तस्येति । जीवितान्ताय जीवितान्तकराय । वनाय क्रुद्ध इत्यर्थः ॥ ४।४८।१२,१३ ॥
तस्य देशस्य । नदीशब्देन निस्तोयनदीप्रदेशा उच्यन्ते, “निस्तोयास्सरितो यत्र” इति पूर्वमभिधानात् । प्रभवानि उत्पत्तिस्थानानि ॥ ४।४८।१४१६ ॥
गाढं परिहिताः दृढं परिधानं कृतवन्तः ॥ ४।४८।१७ ॥
अङ्गदः संहतं मुष्टिमुद्यम्यापतन्तमयं रावण इति ज्ञात्वा तस्य मूर्ध्नि तलेनाभिजघानेति सम्बन्धः ॥ ४।४८।१८२१ ॥
विचितमिति । अपरं परं न भवतीत्यपरम्, सन्निकृष्टमित्यर्थः ॥ ४।४८।२२२४ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायाम् अष्टचत्वारिंशः सर्गः ॥ ४८ ॥