अथ प्रस्थितानां वानराणां वृत्तान्तमाह दर्शनार्थमिति ॥ ४।४७।१ ॥
स सरांसि सरित्कुक्षान् इति पाठः । सरित्कुक्षान् नदीकुञ्जान् । नदीदुर्गान् नदीभिर्दुर्गमान् प्रदेशान् ॥ ४।४७।२,३ ॥
धृता नियुक्ताः ॥ ४।४७।४ ॥
ते वानराः सर्वेष्वहस्सु दिवसेषु सीतां विचित्य सर्वर्तुकामान् सार्वकालिकपुष्पफलयुक्तान् सफलान् तत्तत्कालीनफलयुक्तांश्च द्रुमानासाद्य फलादिभक्षणार्थं रजनीं रजन्यां शय्यां चक्रुरिति योजना । अनेन आहारविश्रमादिकम् अहस्सु नास्तीत्यवगम्यते ॥ ४।४७।५ ॥
तदह इति । प्रस्थानविशिष्टमहः । निराशाः, अभवन्निति शेषः ॥ ४।४७।६ ॥
एकैकस्यागमनमाह विचित्येत्यादिना ॥ ४।४७।७११ ॥
लताविततसन्तताः लताभिर्वितताः सन्तताश्च तिर्यगूर्ध्वं च व्याप्ता इत्यर्थः ॥ ४।४७।१२ ॥
सत्त्वान्यतिप्रमाणानि, रावणभ्रान्त्येति भावः । तर्हि को वा सीतां द्रक्ष्यतीत्यपेक्षायामाह उदारेति ॥ ४।४७।१३,१४ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां सप्तचत्वारिंशः सर्गः ॥ ४७ ॥