गतेष्विति । अत्रेतिकरणं द्रष्टव्यम् ॥ ४।४६।१,२ ॥
यदा तु दुन्दुभिर्नामेति पूर्वोक्तमायाविवृत्तान्तस्यैवेदानीमनूद्यमानत्वात् अत्र दुन्दुभिशब्देनाभेदोपचारात्तत्पुत्रो मायाव्येवोच्यते ॥ ४।४६।३ ॥
विवेशेति । तत्रापि गुहायमपि । तज्जिघांसया मलयं मलयगुहां विवेशेति सम्बन्धः ॥ ४।४६।४ ॥
विनीतवत् भृत्यवत् ॥ ४।४६।५ ॥
तत इति । तद्रक्तपूर्णं बिलं दृष्ट्वा विस्मितः भ्रातृशोकविषार्दितश्चाभूवमिति शेषः ॥ ४।४६।६ ॥
अथानन्तरम् । गुरुः वाली सुव्यक्तं निहत इति गतबुद्धिः प्राप्तबुद्धिः आसमिति शेषः ॥ ४।४६।७ ॥
विनशेत् विनश्येदित्यर्थः ॥ ४।४६।८ ॥
वसामि अवसम् ॥ ४।४६।९,१० ॥
स मामिति । परिकालयते निरकासयत् ॥ ४।४६।११ ॥
सानुबन्धः सामात्यः ॥ ४।४६।१२ ॥
अलातचक्रप्रतिमा अग्नियुक्तकाष्ठभ्रमणसमा, गैरिकादिधातुचित्रितचक्रवालपरिवृतत्वाद्भूमेरलातचक्रसाम्यम् ॥ ४।४६।१३१६ ॥
दिश इति । तस्याः पूर्वस्याः दिशः पुनरावर्तमानः । विन्ध्यपादपसङ्कीर्णां दक्षिणां दिशं प्रस्थित इति सम्बन्धः ॥ ४।४६।१७,१८ ॥
प्राप्येति । सम्पश्यन्नित्यनुषज्यते । हिमवन्तं च मेरुं च उत्तरसमुद्रं च सम्पश्यन् उत्तरां दिशं सम्प्रधावित इति सम्बन्धः । हिमवन्तं च सम्पश्यन्नित्यभिधानात् पश्चिमदिशो ऽपि हिमवत्पर्यन्तं पुनरावृत्य उत्तरां दिशं प्रधावित इत्यवगम्यते ॥ ४।४६।१९,२० ॥
यदा शरणं रक्षितारं न विन्दं नाविन्दम् । अडभाव आर्षः ॥ ४।४६।२१ ॥
इदानीमित्यादिसार्धश्लोकमेकं वाक्यम् । राजन् अस्मिन्नाश्रममण्डले वाली प्रविशेद्यदि अस्य मूर्द्धा शतधा भवेदिति मतङ्गेन पुरा हरीश्वरो ऽभिशप्तः । तदिदानीं मे स्मृतमिति योजना ॥ ४।४६।२२२४ ॥
एवमिति । गुहां मतङ्गाश्रमस्थऋश्यमूकगुहां सीताभरणनिक्षेपस्थानभूताम् ॥ ४।४६।२५ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां षट्चत्वारिंशः सर्गः ॥ ४६ ॥