। ॥ ४।४५।१ ॥
वानरप्रस्थानमाह तदिति । शलभोपमानेन वानराणामसङ्ख्येयत्वमुक्तम् ॥ ४।४५।२ ॥
सीताधिगमे इति निमित्तसप्तमी ॥ ४।४५।३८ ॥
आनयिष्याम इति । अत्रेतिकरणं द्रष्टव्यम् । नदन्तः नादमात्रं कुर्वन्तः । उन्नदन्तः उच्चैर्नदन्तः । गर्जन्तः आत्मश्लाघां कुर्वन्तः । क्ष्वेलन्तः सिंहनादं कुर्वन्तः । विनदन्तः विकृतनादं कुर्वन्तः ॥ ४।४५।९१२ ॥
अहं योजनसङ्ख्यायाः शतं प्लविता नात्र संशय इत्येकस्य वचनम् । योजनसङ्ख्यायाः शतं समधिकमित्यन्यस्य ॥ ४।४५।१३,१४ ॥
इतीति । ऊचुश्च । अत्र चकारः प्रस्थानवीरवादयोस्समुच्चयवाचकः । उक्त्वा प्रतस्थिर इत्यर्थः ॥ ४।४५।१५ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां पञ्चचत्वारिंशस्सर्गः ॥ ४५ ॥