स विशेषेणेति । अर्थं प्रयोजनमुक्तवान्निक्षिप्तवानित्यर्थः ॥ ४।४४।२ ॥
न भूमाविति । अन्तरिक्षे पतत्रिमेघसञ्चारप्रदेशे । अम्बरे तदुपरि सिद्धविद्याधरादिसञ्चरणप्रदेशे । अमरालये स्वर्गे । एतदुपरितनलोकानामप्युपलक्षणम् ॥ ४।४४।३५ ॥
तेजसेति । भूतं सत्त्वम् । तत्त्वमित्यत्र तदिति च्छेदः । तत् तथाशब्दार्थे । नयपण्डितेत्यत्रेतिकरणं द्रष्टव्यम् । तस्याब्रवीच्चेति पूर्वेण सम्बन्धः ॥ ४।४४।६,७ ॥
अथ रामस्सुग्रीववचनैर्हनुमतो न दुर्लभमस्तीत्यालोच्य समनन्तरकर्तव्यं चिन्तयति तत इति । ततः सुग्रीववचनात् हनुमति कार्यसमासङ्गमवगम्य सुग्रीवेण हनुमति कार्यभारो निवेशित इति बुद्ध्वा हनुमन्तं स्वयमेव कार्यसाधकं विदित्वा च राघवश्चिन्तयामास ॥ ४।४४।८ ॥
चिन्ताप्रकारमाह सर्वथेति श्लोकद्वयेन । कर्मभिः परिज्ञातस्य अस्य हनुमतः । फलोदय इत्यत्र इतिकरणं द्रष्टव्यम् । एतस्य चिन्तयामासेति पूर्वेण सम्बन्धः ॥ ४।४४।९,१० ॥
तं समीक्ष्येति । व्यवसायोत्तरमुद्योगप्रधानम् ॥ ४।४४।११ ॥
अभिज्ञायते अनेनेत्यभिज्ञानमङ्गुलीयकम् ॥ ४।४४।१२,१३ ॥
ऽअनुद्विग्ना ऽनु पश्यतिऽ इति कथनं कथमित्याशङ्क्याह व्यवसाय इति । सिद्धिं कथयतीव मे इत्यत्र इत्यवादीदित्यध्याहर्तव्यम् ॥ ४।४४।१४,१५ ॥
स इति । हरिणामित्यत्र दीर्घाभाव आर्षः ॥ ४।४४।१६ ॥
अतिबलेति । तथा कुरुष्वेत्यनन्तरं इति च रामो ऽब्रवीदित्यध्याहर्तव्यम् । अतिबलेति सम्बोधनम् ॥ ४।४४।१७ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां चतुश्चत्वारिंशः सर्गः ॥ ४४ ॥