। ॥ ४।४३।१३ ॥
दिशमिति । विक्रान्तामधिकाम् ॥ ४।४३।४ ॥
सीतान्वेषणस्य फलमाह अस्मिन्निति । अस्मिन्कार्ये सीतान्वेषणकार्ये । कृतार्थार्थविदां वराः इत्यत्र सवर्णदीर्घ आर्षः ॥ ४।४३।५,६ ॥
प्रत्युपकारस्यावश्यकर्तव्यत्वं कैमुत्यन्यायेन द्रढयति अर्थिन इति । यः पुरुषः अकर्तुः पूर्वमुपकारमकुर्वतो ऽपि अर्थिनः कार्यापेक्षिणः पुरुषस्य कार्यनिर्वृत्तिं चरेत् कुर्यात् तस्य जन्म सफलं स्यात्, पूर्वकारिणः किं पुनः ॥ ४।४३।७९ ॥
इमानीति । नद्यः नदीः ॥ ४।४३।१० ॥
भरतान् इन्द्रप्रस्थहस्तिनापुरप्रदेशान् । कुरून् कुरुक्षेत्रप्रदेशान् । म्लेच्छादीन् हिमवदन्तान् देशान् पुनः पुनरन्वीक्ष्य परिमार्गन्त्विति पूर्वेण सम्बन्धः ॥ ४।४३।१११७ ॥
तत इति । पर्वतालया इति कपिसम्बोधनम् ॥ ४।४३।१८,१९ ॥
तमतिक्रम्य देवसख्याख्यपर्वतात्परम् । आकाशं शून्यावरणस्थलम्, वर्तत इति शेषः ॥ ४।४३।२०२२ ॥
नलिनी मानसाख्यसरसी ॥ ४।४३।२३,२४ ॥
तस्य कैलासस्य । पर्वतेषु पर्यन्तपर्वतेषु ॥ ४।४३।२५ ॥
क्रौञ्चमिति । बिलं स्कन्दशक्तिकृतं रन्ध्रम् ॥ ४।४३।२६२८ ॥
क्रौञ्चस्य शिखरं प्रधानभूतं शिखरं च अवृक्षम् अवृक्षाख्यप्रत्यन्तपर्वतं कामशैलं च मानसं मानसाख्यगिरिं ततो निरीक्ष्य विचेतव्या इति पूर्वेण सम्बन्धः ॥ ४।४३।२९ ॥
तत्र मानसाख्ये पर्वते । सः मानसपर्वतः । सानुः पर्वतपार्श्वसमतलः । प्रस्थस्तु विषमतलः ॥ ४।४३।३० ॥
क्रौञ्चं गिरिमतिक्रम्य क्रौञ्चगिरेः परं मैनाको नाम पर्वतो वर्तत इति शेषः ॥ ४।४३।३१ ॥
स्त्रीणामश्वमुखीनां किम्पुपुरुषयोषिताम् ॥ ४।४३।३२ ॥
आश्रमं सिद्धसेवितम्, अस्तीति शेषः ॥ ४।४३।३३ ॥
तपस्सिद्धाः तपसा सिद्धाः अणिमाद्यष्टैश्वर्यसिद्धियुक्ताः ॥ ४।४३।३४,३५ ॥
औपवाह्यः राजवाहनम् । पर्येति अटति ॥ ४।४३।३६ ॥
व्योम, वर्तत इति शेषः । व्योम्नो नष्टचन्द्रदिवाकरत्वं, नियतमार्गवर्तिनां चन्द्रादीनां तत्र सञ्चाराभावात् ॥ ४।४३।३७,३८ ॥
तमित्यादिश्लोकद्वयमेकं वाक्यम् । उभयोस्तीरयोर्जाताः कीचकाः
अन्योन्यसङ्ग्रथिततया गमनसाधनभूतास्सन्तः सिद्धान् परं तीरं नायन्ति प्रत्यानयन्ति चेति सम्बन्धः ॥ ४।४३।३९,४० ॥
उत्तरकुरुसञ्ज्ञकाः तत्र, वर्तन्त इति शेषः । कृतपुण्यप्रतिश्रयाः, पुण्यानां प्रतिश्रया आश्रयभूताः ज्योतिष्टोमादयः ते कृता यैस्ते कृतपुण्यप्रतिश्रयाः । यद्वा कृतपुण्यानां सुकृतिनां प्रतिश्रया इति वा । ततः कृतपुण्यप्रतिश्रयत्वात् । काञ्चनपद्माभाः पद्मिनीभिः कृतोदकाश्च दिव्यसरसीभिः कृतजलक्रीडादिकाः । नीलवैडूर्येत्यादिना उत्तरकुरुदेशो वर्ण्यते नीलवैडूर्याणि पत्राणि च तैराढ्याः नीलवैडूर्यपत्राढ्याः ॥ ४।४३।४१४४ ॥
निस्तुलाभिः वर्तुलाभिः “निस्तुलं वर्तुलं वृत्तम्” इत्यमरः ॥ ४।४३।४५ ॥
नगोत्तमैः पर्वतश्रेष्ठैः ॥ ४।४३।४६ ॥
पत्ररथाः पक्षिणः ॥ ४।४३।४७४९ ॥
नगोत्तमाः वृक्षश्रेष्ठाः ॥ ४।४३।५०५५ ॥
उत्तरः पयसांनिधिः उत्तरलवणसमुद्रः अस्तीति शेषः ॥ ४।४३।५६ ॥
तत्र लवणसमुद्रे । मध्ये मध्यप्रदेशे ॥ ४।४३।५७ ॥
स देशो विसूर्यो ऽपि रात्रौ विगतसूर्यो ऽपि विगतसूर्यकिरणो ऽपीति वा । तस्य सोमगिरेः भासा प्रकशते । कथमिव? सूर्यलक्ष्म्याभिविज्ञेयः सूर्यप्रभया विज्ञेयो देशः तपता विवस्वतेवेति योजना ॥ ४।४३।५८ ॥
भगवान् नारायणः रूढनामेदम् । स हि भगवच्छब्देन झटिति प्रतीयते । अयमत्र पदान्वयः विश्वात्मा भगवान् ब्रह्मर्षिपरिवारितस्तत्र वसति । एकादशात्मकः शम्भुः ब्रह्मर्षिपरिवारितस्तत्र वसति । देवेशो ब्रह्मा ब्रह्मार्षिपरिवारितस्तत्र वसतीति योजना ॥ ४।४३।५९ ॥
न कथञ्चनेति । वः युष्माभिः । अन्येषामपि शक्तिविशेषविशिष्टदैत्यादीनामपि । ४।४३।६०,६१ ॥
एतावत् उत्तरकुरुदेशपर्यन्तम् । ततः परम् उत्तरकुरुदेशात्परं समुद्रद्वीपादिकम् अस्ति । अभास्करं रविकिरणसञ्चाररहितम्(?) अमर्यादम् अज्ञातमर्यादाप्रदेशं न विजानीमः, ततः परस्य देशस्य सर्वैर्गन्तुमशक्यत्वेन मयाप्यनवगतत्वादिति भावः ॥ ४।४३।६२ ॥
सर्वमिति । यदन्यदपि नोक्तं च तत्रापि क्रियतां मतिः, गम्यत्वेनोक्तप्रदेशानां यावत्पार्श्वादिकमनुक्तं तत्राप्यन्वेषणे मतिः कर्तव्येत्यर्थः ॥ ४।४३।६३,६४ ॥
तत इति । भूतधराः प्राणभृद्धराः पाणिभिरुपजीव्याः सन्तः उर्वीं चरिष्यथेति सम्बन्धः । भूतधरामिति पाठे उर्वीविशेषणम् ॥ ४।४३।६५ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां त्रिचत्वारिंशस्सर्गः ॥ ४३ ॥