०४२ प्रतीचीं प्रति सुषेणप्रेषणम्

अथेति । प्रस्थाप्य प्रयाणोपदेशं कृत्वा । अयं पूर्वोक्तसुषेणादन्यः, सोमपुत्रः सुषेण इति वेदितव्यम् ॥ ४।४२।१ ॥

ताराया इति । अब्रवीदिति पुनर्वचनं प्राञ्जलित्वाभिगमनादिविशेषकथनार्थम् ॥ ४।४२।२ ॥

महर्षिपुत्रं मारीचं महर्षेर्मरीचेः पुत्रं मारीचम् ॥ ४।४२।३६ ॥

पुन्नागगहनं कुक्षिमित्यादिना केतुमालप्रदेशानुपदिशति । कुक्षिर्देशविशेषः । कान्तारा गिरयश्च एतानपि मार्गध्वमिति पूर्वेण सम्बन्धः ॥ ४।४२।७१० ॥

कपयो भवदीयाः ॥ ४।४२।११ ॥

तत्रेति । पत्तनानि ततस्तत इत्येतत्पर्यन्तं मार्गध्वमित्यनुषज्यते ॥ ४।४२।१२ ॥

अवन्तीमङ्गलोपां चेति द्वे नगर्यौ ॥ ४।४२।१३,१४ ॥

पक्षगमाः पक्षाभ्यां गच्छन्तीति पक्षगमाः, सपक्षा इत्यर्थः । सिंहाः तिमिमत्स्यगजान्नीडान्यारोपयन्ति स्वावासस्थानानि प्रापयन्ति ॥ ४।४२।१५ ॥

तानीति । समन्ततः तोयपूर्णे अस्मिन्स्थले ये गजास्सन्ति गिरिशृङ्गगताश्च ये ते गजास्तानि नीडानि विचरान्ति सिंहनीडाश्रयसानुषु विचरन्तीत्यर्थः । बाधकबाहुल्ये ऽपि सञ्चारात् पर्वतस्यातिरमणीयत्वमवगम्यते, जातिप्रयुक्तवैरैस्सिंहैर्बाध्यमाना अपि गजास्तद्गिरिं न जहतीति भावः ॥ ४।४२।१६१८ ॥

कोटिमिति । तत्र समुद्रे पारियात्रस्य कोटिं द्रक्ष्यथेति सम्बन्धः ॥ ४।४२।१९,२० ॥

नादेयम् आदातुमर्हं न भवति ॥ ४।४२।२१ ॥

तेभ्यो गन्धर्वेभ्यो भयं नास्ति तेषां रामकार्यसहायत्वादिति भावः ॥ ४।४२।२२ ॥

तत्र वैडूर्येत्यादिसार्धश्लोकमेकं वाक्यम् । योजनानां शतं समं यथा तथा । समुदितः सम्यगुत्पन्नः ॥ ४।४२।२३,२४ ॥

चतुर्भागो समुद्रस्य लवणसमुद्रस्य ॥ ४।४२।२५ ॥

कस्मिंश्चिद्देवासुरयुद्धे विष्णोरवतारः पुरुषोत्तमः पञ्चजनं हयग्रीवाख्यं दानवं च हत्वा सुदर्शनपाञ्चजन्यौ जग्राहेति पौराणिकी कथा ॥ ४।४२।२६,२८ ॥

तत्र वराहपर्वते ॥ ४।४२।२९,३० ॥

तमिति । काञ्चनाः स्वर्णविकारा अन्तरनिर्दरा मध्यपाषाणसन्धयो यस्य सः ॥ ४।४२।३१ ॥

तेन शब्देन स्वकीयध्वन्युत्पन्नप्रतिध्वनिना दर्पिता गजादयस्तं पर्वतमभिगर्जन्ति ॥ ४।४२।३२३६ ॥

तेन आदित्येन ॥ ४।४२।३७,३८ ॥

विश्वेदेवादयः पश्चिमां सन्ध्याम् अस्मदपेक्षया उत्तरपर्वतं मेरुमासाद्य वर्तमानमादित्यमुपतिष्ठन्ति पूजयन्ति । अस्तगिरिसमीपस्थसावर्णिमेरोरभिधानात् ततः पूर्वस्था अनुक्तास्समुद्रद्वीपादयो ऽपि मार्गितव्यत्वेनोक्ता इत्यवगन्तव्यम् ।

४।४२।३९,४० ॥

मेरुपर्वतास्ताचलमध्यदेशप्रमाणं सूर्यस्य गतेर्वेगं चाह योजनानामिति । दिवाकरस्तमस्ताख्यं शिलोच्चयमभिमुखीभूय मुहूर्तार्धेन मुहूर्तार्द्धो घटिकाया अपि स्वल्पकाल इति मन्तव्यम्, योजनानां दशसहस्राणि गच्छन्तीति सम्बन्धः । मेरोरस्ताचलस्य चान्तरमयुतयोजनपरमिति यावत् ॥ ४।४२।४१४३ ॥

अन्तरेति । अन्तरा मेरुमस्तं च सावर्णिमेरोरस्ताचलस्य च मध्ये ॥ ४।४२।४४,४५ ॥

यत्र मेरौ ॥ ४।४२।४६,४७ ॥

एतावदिति । भास्करः रजनीक्षये जीवलोकस्य एतावत्सर्वमुदयास्तमयाद्रिमध्यं वितिमिरं कृत्वा अस्तं गच्छतीति योजना ॥ ४।४२।४८५१ ॥

भवन्तश्चेति । एवं सुषेणं प्रमाणं व्यवस्थापकम् ॥ ४।४२।५२,५३ ॥

अत इत्यादि । अस्य रामस्य यत्कार्यं प्रियमनुकूलं भवेत्तद्भवद्भिस्सम्प्रधार्य कर्तव्यमित्यर्थः ॥ ४।४२।५४,५५ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां द्विचत्वारिंशः सर्गः ॥ ४२ ॥