तत इति । अभिलक्षितान् दृष्टापदानान् ॥ ४।४१।१ ॥
नीलमित्यादि । अत्रोक्तस्सुषेणस्तारापितुरन्यः ॥ ४।४१।२५ ॥
तेषां सहायमाज्ञापयति तेषामिति । तेषां नीलादीनाम् ॥ ४।४१।६ ॥
तत्र विचेयप्रदेशानाह ये केचनेति ॥ ४।४१।७ ॥
तदेव विवृणोति सहस्रशिरसमित्यादि । पूर्ववत् मध्यदेशापेक्षया विन्ध्याद्रेर्दक्षिणदिक्त्वव्यपदेशः । सहस्रशिरसं सहस्रशिखरम् ॥ ४।४१।८,९ ॥
वरारोहां महाभागां, वरः आरोहो दैर्ध्यं यस्यास्ताम् । “आरोहो दैर्ध्यमानयोः” इति विश्वः ॥ ४।४१।१० ॥
सहस्रशिरसमित्यादिना सर्वमेवानुपश्यतेत्यन्तेन विन्ध्यस्य पश्चिमभागस्थान् दक्षिणपार्श्वस्थांश्च नदीनगरदेशानुपदिश्य विदर्भानित्यादिना पूर्वभागान् देशानुपदिशति ॥ ४।४१।११ ॥
नदीं गोदावरीमिति । अत्र गोदावरीशब्देन दण्डकारण्यवर्तिगोदावरीखण्ड उच्यते, अतो न पुनरुक्तिः ॥ ४।४१।१२१८ ॥
ततो हेममयमिति । कवाटं पाण्ड्यानां नगरद्वारकवाटम् ॥ ४।४१।१९ ॥
तत इति । अर्थनिश्चयः सम्प्रधार्यः, भवद्भिरिति शेषः । दुर्गप्रदेशत्वादिति भावः । अत्र श्रीशब्दः पुष्पफलादिसमृद्धिपरः । द्वितीयः श्रीशब्दः शोभापरः ॥ ४।४१।२०२३ ॥
द्वीप इति । तस्य समुद्रस्यापरे पारे परपारातिरिक्ते आन्तरालिके पार इत्यर्थः ॥ ४।४१।२४ ॥
तस्य देशस्य रावणसम्बन्धितया सामान्येनैवावगतत्वे ऽपि सुदृढान्वेषणार्थं तं देशं तदीयत्वेन निश्चित्योक्तवान् ॥ ४।४१।२५ ॥
समुद्रे अप्रमत्तैर्गन्तव्यमित्यभिप्रायेण तत्रत्यं बाधकमाह दक्षिणस्येति ॥ ४।४१।२६ ॥
एवं निस्संशयान् कृत्वा संशयान् नष्टसंशयाः यथा संशयतो रावणदेशो निश्चयेनान्विष्यते एवं संशयान् संशयितान् देशान् निस्संशयान् कृत्वा निश्चितसदसद्भावान् कृत्वा नष्टसंशयाः नरेनद्रपत्नीं मृगयध्वम् । यथा शङ्कासद्भावे ऽपि रावणे ऽपि लङ्काद्वीपे ऽपि निश्चयेन मृग्यते, एवं शङ्का कारणवत्स्वन्येषु देशेषु निश्चयेन मृगयतेत्यर्थः ॥ ४।४१।२७३१ ॥
तमतिक्रम्य लङ्काद्वीपमतिक्रम्य ॥ ४।४१।३२,३३ ॥
अगस्त्यभवनमेव विशिनष्टि तत्रेति । तत्र कुञ्जरपर्वते । योजनविस्तारं शतयोजनं शरणं गृहमिति सम्बन्धः ॥ ४।४१।३४३७ ॥
निर्यायेति । सा भोगवती पुरी मार्गितव्या । तस्याः निर्याय निर्गत्य ॥ ४।४१।३८ ॥
तत्र ये केचन सुसंवृताः अनन्तरदेशा, मार्गितव्या इति सम्बन्धः ॥ ४।४१।३९ ॥
ऋषभस्येव संस्थितिरवस्थानं यस्येति विग्रहः ॥ ४।४१।४० ॥
गोशीर्षकं गोरोचनासदृशवर्णम्, पद्मकं पद्मदलसमानवर्णम्, हरिम् कुङ्कुमसमानवर्णम्, श्यामम् तमालदलनिभम् । अग्निसमप्रभम् अग्निसदृशवर्णम् । तच्चन्दनं च यत्रोत्पद्यत इति सम्बन्धः ॥ ४।४१।४१ ॥
तत्र काङ्क्षा न कर्तव्येत्याह न त्विति । तत्र हेतुमाह रोहिता इति ॥ ४।४१।४२,४३ ॥
स्वर्गजितः प्राप्तस्वर्गा इत्यर्थः ॥ ४।४१।४४ ॥
कष्टेन दुष्प्रवेशेन ॥ ४।४१।४५४८ ॥
ततः प्रियतरो नास्ति तस्मात्प्रियतरो नास्ति । मम प्राणाद्विशेषतः, न प्रियतर इति सम्बन्धः ॥ ४।४१।४९,५० ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायाम् एकचत्वारिंशः सर्गः ॥ ४१ ॥