अथ सुग्रीवो रामाज्ञापुरस्सरमेव सीतान्वेषणं कारयितुं तदनुज्ञां प्रार्थयते अथेति ॥ ४।४०।१ ॥
मद्विषयवासिनः मदवगतदेशवासिनः । यद्वा मद्राज्यवासिनः ॥ ४।४०।२,३ ॥
ख्यातकर्मापदानाः, अत्र कर्मशब्दः अतिदूरलङ्घनक्रियावाची । अपदानशब्दः पूर्ववृत्तादिविस्मयनीयवीर्यशत्रुनिरसनरूपक्रियावाची । कोट्यग्रश इत्येतद्बहुसङ्ख्योपलक्षणम् ॥ ४।४०।४,५ ॥
निदेशेति । गुरुहिते स्वामिहिते । अभिप्रेतमभिलषितं कार्यम् ॥ ४।४०।६ ॥
प्राप्तकालं कालोचितम् ॥ ४।४०।७ ॥
काममिति । एषां कार्यम् एभिः कर्तव्यं मम मया विदितम्, तथापि त्वमाज्ञापथितुमर्हसि भवतः सर्वस्वामित्वादिति भावः ॥ ४।४०।८११ ॥
नाहमिति । अस्मिन् कार्ये वानरप्रेषणरूपकार्ये । सुहृद्द्वितीयः सुहृल्लक्ष्मणापेक्षया द्वितीयत्वम् । नदीं भागीरथीमित्यरभ्य भूमिं च रजताकरामित्यन्तेन प्राप्येति शेषः । ततः सीतां मृगयद्भिर्भवद्भिः भागीरथ्यादिकं प्राप्य एतत्पूर्वोक्तं सर्वं विचेतव्यमिति सम्बन्धः । ननु मेरोः पूर्वदिगवस्थितोदयाचलपर्यन्तमन्वेष्टुं प्रेषितान् वानरान् प्रति मेरोर्दक्षिणदिगवस्थितभागीरथ्यादिनदीपर्वताद्यन्वेषणविधानं कथमुपपद्यत इति चेत्, हिमाचलविन्ध्यमध्यदेशवर्त्यार्यावर्तापेक्षया प्राच्यादिविभागो विवक्षितः, न तु मेर्वपेक्षया स्वावस्थितमाल्यवदपेक्षया वेति न दोषः ॥ ४।४०।१२२० ॥
महीकालमह्यौ नद्यौ ॥ ४।४०।२१ ॥
कोशकाराणां स्वर्गकाराणाम् ॥ ४।४०।२२,२३ ॥
समुद्रमवगाढान् प्रविष्टान् पर्वतान् । पट्टणानि वनानि मन्दरस्य कोटिं च ये संश्रिताः एतेषामालयाः सर्वे विचेतव्या इति सम्बन्धः । काननौकस इति सम्बोधनम् । कामरूपिण इति च पाठः । नरव्याघ्राः नराश्च ते व्याघ्राश्च, नररूपा व्याघ्ररूपा इत्यर्थः । कर्णमेव प्रावरणं येषां ते कर्णप्रावरणाः । पर्णचोलाश्च इति पाठः । पर्णचोलाः पर्णकृतकञ्चुकाः । आममीनाशनाः अपक्वमत्स्याशनाः । किराता अल्पतनवः । “स्यात् किरातस्तु भूनिम्बे म्लेच्छे चाल्पतनावपि” इति विश्वः ॥ ४।४०।२४२८ ॥
गिरिभिर्ये च गम्यन्ते इत्यारभ्य रामपत्नीं यशस्विनीमित्यन्तमेकं वाक्यम् । प्लवनेन लङ्घनेन च ये गम्यन्ते, प्लवेन उडुपेन च ये गम्यन्ते । यवद्वीपं यवकोटिपर्युपलक्षितद्वीपम्, अस्तीति शेषः । सप्तराज्योपशोभितं सुवर्णरूप्यकं च यवद्वीपं चातिक्रम्य यः शिशिरो नाम पर्वतः शृङ्गेण दिवं स्पृशति, एतेषां गिरिदुर्गेषु वनेषु च रामपत्नीं मार्गध्वमिति सम्बन्धः । यवद्वीपसुवर्णरूप्यकावपि लङ्काद्वीपादिवत्समुद्रान्तर्वर्तिद्वीपविशेषौ ॥ ४।४०।२९३१ ॥
तत इत्यादिना पर्वतांश्च वनानि च इत्यन्तेन प्लक्षद्वीपप्रदेशा उच्यन्ते । समुद्रस्य पारं लवणसमुद्रपारस्थम् । रक्तजलमगाधम् । शीघ्रगामिनं सिद्धचारणसेवितं शोणं शोणाख्यं नदं गत्वा तस्य तीर्थेषु अवतरणप्रदेशेषु वनेषु च वैदेह्या सह रावणो मार्गितव्य इति सम्बन्धः । ततो नित्यजलं भीममिति पाठे नित्यजलमिति तदस्य सञ्ज्ञा ॥ ४।४०।३२३४ ॥
समुद्रद्वीपान् इक्षुसमुद्रस्थितद्वीपान् ॥ ४।४०।३५ ॥
ऊर्मिमन्तम् इक्षुसमुद्रम् । तत्र इक्षुसमुद्रे ॥ ४।४०।३६,३७ ॥
तम् इक्षुसमुद्रम् । तीर्थेन उपायेनाधिगम्य । “तीर्थं मन्त्राद्युपाये च” इति निघण्टुः । उपायेन गमनं नाम छायाग्राहिपरिहारेण गमनम् ॥ ४।४०।३८ ॥
ततो गताः ततः इक्षुसमुद्राद्गताः निर्गताः । तां कूटशाल्मलिं लोहितं नाम सागरं मधुसमुद्रं च द्रक्ष्यथेति सम्बन्धः ॥ ४।४०।३९ ॥
तत्र शाल्मलिद्वीपे ॥ ४।४०।४० ॥
तत्र मधुसमुद्रे ॥ ४।४०।४१ ॥
निहता इति । ब्रह्मतेजोभिः गायत्रीप्रभावैः ॥ ४।४०।४२ ॥
ततः पाण्डरमेघाभं क्षीरोदं नाम सागरम् इति । ऽलवणेक्षुसुरासर्पिर्दधिदुग्धजलैस्समम्ऽ इत्युक्तप्रक्रियया मधुसमुद्रानन्तरं सर्पिर्दधिसमुद्रान्वेषणे वक्तव्ये, तौ विहाय क्षीरोदप्राप्तेरभिधानात्तदुभयप्राप्तिमन्तरेण क्षीरोदप्राप्तेरसम्भावत्तदुभयप्राप्तिरनुक्ताप्युक्तेत्यवगन्तव्या ॥ ४।४०।४३४६ ॥
जलोदं शुद्धोदकम् ॥ ४।४०।४७ ॥
कोपजम् और्वकोपजम् । हयमुखं तन्महत्तेजः । तत्र शुद्धोदके । कृतं निक्षिप्तमिति सम्बन्धः । हयमुखं कृतं तत्तेजः तत्र वर्तत इति वा । अस्य तेजसः सचराचरं तद्, जलमिति शेषः । ओदनमाहुः संहारवेलायामिन्धनमाहुरित्यर्थः ॥ ४।४०।४८ ॥
श्रूयते च समर्थानामित्यत्र चकारो ऽप्यर्थः ॥ ४।४०।४९५३ ॥
पूर्वस्यामिति । पूर्वस्यां दिशि निर्माणं कृतम्, पूर्वदिगवधित्वेन तालरूपः केतुः त्रिदशेश्वरैः कल्पित इत्यर्थः ॥ ४।४०।५४५७ ॥
तत्रेति । तत्र कोट्यां पूर्वं विष्णुः त्रिविक्रमे त्रिविक्रमप्रस्तावे तत्र सौमनसशृङ्गे पूर्वपदं कृत्वा द्वितीयपदं मेरोः पश्चिमदिगवधिभूतस्य सावर्णिनिवासमेरुशिखरे चकारेति सम्बन्धः ॥ ४।४०।५८ ॥
उत्तरेणेति । अत्र प्राप्येत्यध्याहर्तव्यम् । दिवाकरः अस्तमयानन्तरं जम्बूद्वीपमुत्तरेण परिक्रम्य महोच्छ्रयं तत्सौमनसशिखरं प्राप्य भूयिष्ठं दृश्यो भवति, मेरोर्दक्षिणभागवर्तिनां दृश्यो भवतीत्यर्थः ॥ ४।४०।५९,६० ॥
अयमिति । अस्य तेजसः । पुरः सन्निधौ । अयं सुदर्शनो द्वीपः शोभनदर्शनो ऽयं द्वीपः प्रकाशते । अयमिति शृङ्गग्राहिकया निर्देशात् जम्बूद्वीप उच्यते । यद्वा सुदर्शनाकारत्वात्सुदर्शनशब्देन जम्बूद्वीप उच्यते । सर्वप्राणभृतां चक्षुश्च यस्य तेजसः पुरः प्रकाशते तस्य शैलस्य कुञ्जेषु कन्दरेषु च वैदेह्या सह रावणो मार्गितव्य इति सम्बन्धः ॥ ४।४०।६१६३ ॥
पूर्वदिशो निर्वचनमाह पूर्वमेतदिति । हि यस्मात्कारणात् पृथिव्या भुवनस्य च पूर्वद्वारं कृतं प्रथमद्वारं ब्रह्मणा सृष्ट्यादौ कल्पितं सूर्यस्य परितो भ्रमणाय प्रथमे तदुदयनं च कृतं उदयस्थानं कल्पितं तस्मादेषा पूर्वा दिगित्युच्यते ॥ ४।४०।६४,६५ ॥
तत इति । त्रिदशावृता । ततः परम् उदयाद्रेः परम् अगम्येति सम्बन्धः ॥ ४।४०।६६ ॥
उक्तेष्वनुक्तप्रदेशाः ॥ ४।४०।६७ ॥
अभास्करम् सूर्यरहितम् अत एव अमर्यादम् ॥ ४।४०।६८७१ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां चत्वारिंशः सर्गः ॥ ४० ॥