०३९ वानरसेनासङ्ख्यानिवेदनम्

॥ ४।३९।१,२ ॥

त्वद्विधः त्वत्सदृशः सत्पुरुषः मित्राणां प्रतिकुर्यात् प्रत्युपकारं कुर्यात् न तच्चित्रमिति सम्बन्धः ॥ ४।३९।३ ॥

हे सौम्य त्वयि यच्छोभनं प्रत्युपकारलक्षणं भवेत् एतन्न चित्रमिति सम्बन्धः ॥ ४।३९।४ ॥

सुहृत् शोभनहृदयः ॥ ४।३९।५ ॥

जहारेति । अत्रेन्द्रेणेप्सितां पौलोमीं तत्पितुः पुलोमस्यानुमत्या तामनुह्लादो जहार । इन्द्रस्त्वनुमन्तारं पुलोमं हत्वा ततः तां प्रत्यानीतवानिति पौराणिकी प्रसिद्धिरनुसन्धेया ॥ ४।३९।६,७ ॥

एतस्मिन्निति । एतस्मिन्नन्तरे रामसुग्रीवसंल्लापावसरे ॥ ४।३९।८ ॥

मूर्च्छता व्याप्नुवता ॥ ४।३९।९ ॥

ततः रजोव्याप्त्यनन्तरम् । अनेन श्लोकेन सेनासमुदायव्याप्तिरुच्यते ॥ ४।३९।१० ॥

ततः सेनासमुदायव्याप्त्यनन्तरम् ॥ ४।३९।११ ॥

नादेयैः नदीतीरवनभवैः । “नद्यादिभ्यो ढक्” । पार्वतीयैः “पर्वताच्छः” । सामुद्रैः “तत आगतः” इत्यण् प्रत्ययः । अन्यैश्च वनचारिभिरावृतेति पूर्वेण सम्बन्धः ॥ ४।३९।१२,१३ ॥

वानरमात्रागमनमुक्त्वा इदानीं तत्तत्सङ्ख्याविशिष्टकपिवरागमनमाह कोटीत्यादिना ॥ ४।३९।१४ ॥

तत इति । तारायाः पिता सुषेणः ॥ ४।३९।१५ ॥

रुमायाः पिता तारः ॥ ४।३९।१६२० ॥

महाचलेति । तिसृभिः कोटिभिरुपलक्षितैर्महाचलनिभैर्वानरैर्वृत इति सम्बन्धः ॥ ४।३९।२१३० ॥

तत इति । तारः रुमापितुरन्यः कश्चित् ॥ ४।३९।३१ ॥

इन्द्रेति । तैः एकादशकोटिसङ्घ्याकैः कपिभिरित्यर्थः ॥ ४।३९।३२३४ ॥

कैलासेति । कोटिसहस्रेणोपलक्षितैः वानरैर्वृत इति सम्बन्धः ॥ ४।३९।३५ ॥

कोटीशतेन सहस्रेण शतेन चेत्युपलक्षणे तृतीया ॥ ४।३९।३६३९ ॥

आगता इति । पृथिव्यां विशिष्याश्च सर्वे वानराः प्राकृतवानराश्च ॥ ४।३९।४० ॥

आप्लवन्तः आ समन्तात् प्लवन्तः लङ्घयन्तः ॥ ४।३९।४१ ॥

सुग्रीवाय न्यवेदयन्, आत्मानमिति शेषः ॥ ४।३९।४२ ॥

संयम्य वस्त्रादिकं सङ्कुचितं कृत्वा ॥ ४।३९।४३ ॥

सुग्रीव इति । सुग्रीवः प्राञ्जलिः त्वरितः सर्वान्वानरर्षभान् रामे निवेदयित्वा स्थितः तानब्रवीत्, भो वानरेन्द्राः पर्वतनिर्झरेषु वनेषु स्वानि बलानि यथासुखं निवेशयित्वा बलज्ञो यूथपः स्वं स्वं बलं प्रतिपत्तुं ज्ञातुमीष्टे ईशो भवेत् । व्यत्ययेन लिङर्थे लट् ॥ ४।३९।४४,४५ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायाम् एकोनचत्वारिंशः सर्गः ॥ ३९ ॥