दूतागमनानन्तरं सुग्रीवः किमकार्षीदित्याह प्रतिगृह्येति ॥ ४।३८।१,२ ॥
स लक्ष्मण इति सार्धश्लोकमेकं वाक्यम् । अत्रेतिकरणं द्रष्टव्यम् ॥ ४।३८।३६ ॥
एत आगच्छत ॥ ४।३८।७ ॥
स्त्रीदर्शनक्षमाः अन्तःपुरयुवतिदर्शनयोग्याः वशीकृतेन्द्रिया इत्यर्थः । अर्कसदृशप्रभ इति च्छेदः ॥ ४।३८।८ ॥
उपस्थापयत आनयत ॥ ४।३८।९ ॥
श्रुत्वेति । शीघ्रविक्रमाः सत्वरपादविन्यासाः, राज्ञां कालविलम्बस्यासहिष्णुत्वादिति भावः ॥ ४।३८।१०,११ ॥
हरिभिः वाहकैः । युक्तम् अवलम्बितम् ॥ ४।३८।१२१४ ॥
स इति । पौरकीर्णः परिवेष्टितः ॥ ४।३८।१५,१६ ॥
आसाद्येति । तथा अभवन् कृताञ्जलिपुटा अभवन् ॥ ४।३८।१७२३ ॥
अमित्राणामिति । त्रिवर्गफलभोक्ता धर्मार्थकामफलाधिष्ठाता इत्यर्थः । अयथाकालानुष्ठानवैषम्यद्योतकस्तुशब्दः । धर्मेण राजधर्मेण ॥ ४।३८।२४२६ ॥
प्रनष्टेति सार्धश्लोकमेकं वाक्यम् । हे देव त्वत्प्रसादात् तव भ्रातुः प्रसादाच्च इदं राज्यादिकं पुनः प्राप्तमिति सम्बन्धः ॥ ४।३८।२७,२८ ॥
स्वस्योपकारविस्मरणं नास्तीति द्योतयितुमाह एत इति । आदाय आहूय ॥ ४।३८।२९३१ ॥
शतैरित्यादि । अत्र केचित्पदमध्याहर्तव्यम् । केचित् प्लवङ्गमाः शतैः कपिशतैः आवृता आगमिष्यन्ति । केचित्सहस्रैरावृताः, केचिदर्बुदैः, केचिदर्बुदशतैः, केचिन्मध्यैः, केचिदन्तैः, केचित्समुद्रैः, केचित्परार्धैरावृता आगमिष्यन्तीति योजना । हरियूथपा इत्येतत् प्रथमान्तविशेषणत्वेन सर्वत्र सम्बध्यते । शतसहस्रं लक्षम्, शतलक्षं कोटिः, अयुतं दशसहस्रम्, कोटिलक्षं शङ्कुः, शङ्कुसहस्रमर्बुदम्, अर्बुदाद्दशगुणं मध्यम्, अस्माद्दशगुणो ऽन्तः, अस्माद्विंशतिगुणस्समुद्रः, अस्मात्रिंशद्गुणः परार्धः । शतादयः परार्धान्ताः शब्दाः सङ्ख्यावाचकाः ॥ ४।३८।३२३४ ॥
तत इति । प्रबुद्धनीलोत्पलतुल्यदर्शनः विकसितनीलोत्पलवद्दर्शनीयवर्णः ॥ ४।३८।३५ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायाम् अष्टात्रिंशः सर्गः ॥ ३८ ॥