०३७ किष्किन्धे वानरसेनामेलनम्

। ॥ ४।३७।१ ॥

महेन्द्रेति । पञ्चशैलेषु परिगणितमहेन्द्रादिमन्दरान्तेषु । अस्तमयपर्वतं परितः सौवर्णाः षष्टिसहस्राणि गिरयस्सन्ति तेषु ॥ ४।३७।२,३ ॥

आदित्यभवन इति । आदित्यो ऽस्मिन् भवति प्रादुर्भवतीत्यादित्यभवनम् उदयाद्रिः । ये स्थिता इति सम्बन्धः । पद्मतालेति । पद्मः चन्दनवृक्षविशेषः । पालाशाख्यो वृक्षो वा ॥ ४।३७।४१० ॥

दीर्घसूत्राः चिरक्रियाः । उद्योगं कुर्वाणा इव कालयापका इत्यर्थः ॥ ४।३७।१११४ ॥

ते इति । गतिं गम्यत इति गतिः निलयम्, पृथिव्यां सर्वान् हरीनानयन्त्विति सम्बन्धः ॥ ४।३७।१५,१६ ॥

हरयः पतत्ित्रज्योतिरध्वगाः पक्षिनक्षत्रमार्गगाः । विष्णुविक्रान्तं पदामाकाशं तत्क्षणेन प्रयाता इति सम्बन्धः ॥ ४।३७।१७,१८ ॥

अथ दूतमुखेन सुग्रीवाज्ञाश्रवणानन्तरं सर्वे ऽपि कपयस्समागता इत्याह मृत्युकालेति । मृत्युकालोपमस्य प्रलयकालतुल्यस्य ॥ ४।३७।१९ ॥

येन हेतुना राघवो वर्तते तस्माद्धेतोः अञ्जनसङ्काशप्लवङ्गमानां तिस्रः कोट्यः तस्माद्गिरेरञ्जनगिरेर्निर्ययुरिति योजना ॥ ४।३७।२०२४ ॥

क्षीरोदेति । अत्र अपतन् द्रुतमित्यनुषज्यते ॥ ४।३७।२५,२६ ॥

ये तु त्वरयितुं याता इत्युक्त्या एते वानराः पूर्वं नीलेन प्रेषिताः, न तु हनुमता । अयं निश्चयो विशेषवाचितुशब्दश्रवणात् लक्ष्मणसन्निधौ तदानीं प्रेषितानां तदानीमेवागमनासम्भवाच्च ॥ ४।३७।२७,२८ ॥

अन्नेति । अन्ननिष्यन्दजातानि होमद्रव्याज्यादिस्रवणाज्जातानि । तत्र यज्ञायतने ॥ ४।३७।२९३३ ॥

ते वानराकारणार्थं गता यूथपाः । तेन मुहूर्तेन सप्तम्यर्थे तृतीया ॥ ४।३७।३४३७ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां सप्तत्रिंशः सर्गः ॥ ३७ ॥