०३६ सुग्रीवकृतं लक्ष्मणसमाश्वासनम्

॥ ४।३५।१ ॥

तस्मिन्निति । स्नानानन्तरं क्लिन्नमार्द्रं वस्त्रमिव ॥ ४।३६।२ ॥

बहुगुणं बहुविधभोगप्रदम् । महत् दिव्यम् । चिच्छेद तत्याज, विनयेनेति भावः ॥ ४।३६।३५ ॥

क इति । कः शक्तः को दक्षः ॥ ४।३६।६ ॥

सहायमात्रेण मयेति उपलक्षणे तृतीया । स्वयमेवार्थसाधकः, अहं तु तस्य परिकरमात्रमिति भावः ॥ ४।३६।७९ ॥

अन्विति । नरेन्द्रस्य रामस्य । अनु अनुसृत्त्य यात्रां करिष्ये ॥ ४।३६।१० ॥

अतिक्रान्तम् अतिक्रमणम् । विश्वासात् आश्रितमपराधिनमपि न बाधत इति ज्ञानादित्यर्थः । प्रेष्यस्य परिचारकस्य क्षमितव्यम् । तत्र हेतुमाह कश्चिदिति । कश्चिदपि नापराध्यतीति न, परिचारकेषु मध्ये सर्वोप्यपराधी, तस्मात्क्षन्तव्यमिति भावः ॥ ४।३६।१११३ ॥

यस्ते प्रभावस्सुग्रीव यच्च ते शौचमार्जवम् इत्यत्र तेनेत्यध्याहार्यः ॥ ४।३६।१४,१५ ॥

धर्मज्ञस्येति । उपपन्नमर्हम् । युक्तं युक्तियुक्तम् ॥ ४।३६।१६ ॥

दोषज्ञः विद्वान् । “विद्वान् विपश्चिद्दोषज्ञः” इत्यमरः ॥ ४।३६।१७१९ ॥

स्वोक्तपरुषवाक्यानां रामोक्तत्वशङ्का मा भूदिति स्वेनैवोक्तमुपपादयन् स्वापराधं शमयति यच्चेति । रामस्य भाषितं सीतोद्देशेन श्रवणासह्यविलापम् ॥ ४।३६।२० ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां षट्त्रिंशः सर्गः ॥ ३६ ॥