०३५ तारया लक्ष्मणसान्त्वनम्

य इति । यस्तु राजा स्थितो धर्म इत्यत्र अधर्म इति छेदः ॥ ४।३४।८ ॥

पुरुषः अश्वानृते अश्वविषयानृते शतं हन्ति, शताश्वहननदोषभाग्भवेदित्यर्थः । एवं गवानृते गोविषयानृते सहस्रं हन्ति, सहस्रगोहननदोषभाग्भवेत् । पुरुषानृते आत्मानं स्वजनं हन्ति आत्मस्वजनहननदोषभाग्भवेदित्यर्थः । महापुरुषरामविषयानृते तु सर्वहननदोषभाग्भवेदिति भावः ॥ ४।३४।९ ॥

अनृतवादिनो दोषमभिधाय कृतघ्नस्य दोषमाह पूर्वमिति ॥ ४।३४।१० ॥

उक्तार्थे सम्मतिमाह गीत इति । अयं श्लोकः कृतघ्नं दृष्ट्वा ब्रह्मणा गीतः तं निबोधेत्यन्वयः । नमस्कृतः आदृतः इत्यर्थः ॥ ४।३४।१११३ ॥

कर्तव्यं प्रत्युपकारमाह नन्विति । कृतमिच्छता उपकारं स्मरता ॥ ४।३४।१४ ॥

सर्पं मण्डूकराविणं मण्डूकग्रहणार्थं सर्पो मण्डूकवद्रौति तमिव वञ्चकं त्वां नाज्ञासीदित्यर्थः ॥ ४।३४।१५१८ ॥

रामसन्दिष्टं वाक्यमभिधाय प्रकृतकार्योचितं स्ववाक्यमाह न नूनमिति । इक्ष्वाकुवरस्य कार्मुकात् च्युतान् बाणान् वज्रसन्निभान् न पश्यसि नाद्राक्षीः नूनम्, ततो नाम तस्मात् खलु सुखं निषेवसे सुखी सन् रामकार्यं मनसापि नावेक्षस इति योजना ॥ ४।३४।१९ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां चतुस्त्रिंशः सर्गः । ३४ ॥

। ॥ ४।३५।१३ ॥

देहेति । देहधर्मं गतस्य शरीरस्वभावं प्राप्तस्य । कामं कामवर्तनम् ॥ ४।३५।९ ॥

अपराधमङ्गीकृत्य सान्त्वयित्वा इदानीं विचार्यमाणे अपराध एव नास्तीत्याह न चेति । निश्चयार्थं निश्चयरूपमर्थम्, सुग्रीवाभिप्रायमिति यावत् ॥ ४।३५।१० ॥

अविमृश्य अविचार्य ॥ ४।३५।११ ॥

संरम्भः सम्भ्रमः ॥ ४।३५।१२१४ ॥

अधुनैव रावणः किं न हन्यत इत्यत आह शतकोटीत्यादि । किलेति वार्तायाम् ॥ ४।३५।१५,१६ ॥

तेनेति । अत्र नकारो ऽनुषज्यते तेन राक्षसवधेन विना रावणवधस्याशक्यत्वेन असहायेन सहायरहितेन सुग्रीवेण क्रूरकर्मा रावणो विशेषतो रणे हन्तुं न शक्यश्च, न शक्य एवेति योजना ॥ ४।३५।१७ ॥

एवमाख्यातवानिति । ननु सहायरहितेन सुग्रीवेण रावणो हन्तुं न शक्य इति पूर्वोक्तं रावणबलादिकं च । तारायै वाली कदा ऽब्रवीदिति चेत्, तारामुखेनाङ्गदोक्तरामसुग्रीवसख्यकरणवृत्तान्तश्रवणानन्तरमतिबलपराक्रमरावणनिरसनविषये मां विहाय दुर्बलं सुग्रीवं रामः कथमवलम्बत इति तारायाः प्रत्युत्तरत्वेनोक्तवानित्यवगम्यते ॥ ४।३५।१८२० ॥

कृतेति । हे सौमित्रे अत्र सीतान्वेषणकार्यविषये सुग्रीवेण पुरा त्वदागमनात्पूर्वमेव संस्था व्यवस्था त्रिपञ्चरात्रादर्वागागन्तव्यमित्येवंरूपा यथा येन प्रकारेण कृता तथा अद्य अस्मिन् दिने तैर्महाबलैरागन्तव्यमिति योजना ॥ ४।३५।२१,२२ ॥

तवेति । हरिवरवनिताः तवेदं मुखं निरीक्ष्य प्रथमभयस्य शङ्किताः वालिवधजनितभयशङ्किताः सत्यः रोषाद्धेतोः क्षतजसमे नयने निरीक्षमाणाः शान्तिं न यान्ति हि न यान्त्येव । प्रथमभयस्येति कर्मणि षष्ठी ॥ ४।३५।२३ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां पञ्चत्रिंशः सर्गः ॥ ३५ ॥