अथेति । प्रतिसमादिष्टः पूर्वं प्रेषितेनाङ्गदेन प्रत्येत्य समाहूतः ॥ ४।३३।१,२ ॥
निःश्वसन्तमिति । न चैनं पर्यवारयन् एनं लक्ष्मणम् उपगन्तुम् । भयेन नाशक्नुवन्नित्यर्थः ॥ ४।३३।३ ॥
रत्नसमाकीर्णम् आपणस्थरत्नैस्समाकीर्णाम् ॥ ४।३३।४६ ॥
चन्दनेति । अत्र पद्मशब्द आलेपनद्रव्यविशेषवाची । मैरेयाणां मिरादेशजातानाम् । गिरिनद्यः गिरिभ्यः प्रसृता नदीरित्यर्थः ॥ ४।३३।७१२ ॥
पाण्डुरेणेति । पाण्डुरेण शैलेन परिक्षिप्तं स्फटिकशिलामयवप्रेण परिवेष्टितम् ॥ ४।३३।१३ ॥
सर्वेति । अत्रत्यवृक्षशब्दो भौमवृक्षवाची । उपरि दिव्यपुष्पफलैर्वृक्षैरिति दिव्यवृक्षाभिधानात् ॥ ४।३३।१४१७ ॥
कक्ष्याः द्वाराङ्गणभूमयः ॥ ४।३३।१८,१९ ॥
प्रविशन्निति । तन्त्रीशब्देन ध्वनिर्लक्ष्यते ॥ ४।३३।२०,२१ ॥
फलमाल्यकृतव्यग्राः फलमाल्यार्थं व्याग्रा इत्यर्थः ॥ ४।३३।२२ ॥
नानुदात्तपरिच्छदान् नानुत्कृष्टवस्त्राभरणादिकान् ॥ ४।३३।२३ ॥
लज्जितो ऽभवत्, अन्तःपुरदर्शनादिति भावः ॥ ४।३३।२४ ॥
रोषवेगप्रकुपितः रोषवेगेन प्रवृद्धः ॥ ४।३३।२५ ॥
रामकोपसमन्वितः, बुद्धिस्थरामकोप इत्यर्थः । चारित्रेणापकृष्टः सच्चरित्रयुक्ततया परस्त्रीदर्शनेन स्त्रीनूपुरशब्दश्रवणेन च लज्जया उदासीनस्सन् एकान्ते स्थितवानिति भावः ॥ ४।३३।२६३१ ॥
किमिति । कुमारस्य लक्ष्मणस्य । रोषस्थानं रोषनिमित्तम् ॥ ४।३३।३२ ॥
भाषितुमर्हसि मह्यं वक्तुमर्हसीत्यर्थः ॥ ४।३३।३३,३४ ॥
दारुणं क्रूरकर्म, स्त्रीणां कोपालक्ष्यत्वादिति भावः ॥ ४।३३।३५ ॥
सान्त्वैः प्रियवाक्यैः । प्रसन्नेन्द्रियमानसं तत उपक्रान्तम् उपागतं द्रक्ष्यामीति सम्बन्धः ॥ ४।३३।३६ ॥
सेति । “अथवा स्वयमेवैनं द्रष्टुमर्हसि भामिनि” इति सुग्रीवेणोक्ता सा तारा । प्रस्खलन्ती मदालसतया पदे पदे प्रस्खलन्ती । मदविह्वलाक्षी भोगसंवर्धनमधुपानमदेन अलसचकितनेत्रा । प्रलम्बकाञ्चीगुणहेमसूत्रा काञ्चीगुणः रशना, प्रलम्बे काञ्चीगुणहेमसूत्रे यस्यास्सा तथोक्ता । सलक्षणा परिदृश्यमानभोगचिह्ना । नमिताङ्गयष्टिः स्तनभारेण किञ्चिन्नमिताङ्गयिष्टिः ॥ ४।३३।३७ ॥
स इति । अवाङ्मुखम्, परस्त्रीमुखावलोकस्य निषिद्धत्वादिति भावः ॥ ४।३३।३८ ॥
सेति । दृष्टिप्रसारात् दृष्टेरवाक्प्रसारणात् ॥ ४।३३।३९ ॥
किमिति । आसीदति आभिमुख्येन तिष्ठति । निर्विशङ्कः निर्भयः ॥ ४।३३।४० ॥
प्रणयदृष्टार्थं प्रकर्षेण नयः प्रणयः तेन दृष्टः अर्थः प्रयोजनं यस्य तत् ॥ ४।३३।४१ ॥
अयं कामवृत्त इति एनं नावबुद्ध्यसे किमिति सम्बन्धः । भर्तृहिते युक्ते इति सम्बोधनम् ॥ ४।३३।४२ ॥
राज्यार्थं राज्यप्रयोजनम् ॥ ४।३३।४३४५ ॥
ऽपानादर्थश्चऽ इत्यादिनोक्तमुपपादयति धर्मलोप इत्यादिना । कृते उपकारविषये अप्रतिकुर्वतः प्रत्युपकारमकुर्वतः महान् धर्मलोपो भवेत् । चकारात्कामलोपश्च ॥ ४।३३।४६ ॥
उक्तमेवार्थं विशदयति मित्रं हीति । सत्यधर्मपरायणं मित्रम् अर्थगुणश्रेष्ठम्, अत्र गुणशब्दः कामवाची, अर्थकामाभ्यां श्रेष्ठं हि, तादृशं मित्रं त्यजता सुग्रीवेण तद्द्वयम् अर्थकामद्वयन्तु परित्यक्तमेव । धर्मे तु न व्यवस्थितं धर्मो ऽपि परित्यक्त इत्यर्थः ॥ ४।३३।४७ ॥
तत् तस्मात् हे कार्यतत्त्वज्ञे कार्ये धर्मार्थकामविलोपहेतुभूते मित्रपरित्यागलक्षणे कार्ये एवं प्रस्तुते सति यदुत्तरं कार्यमस्माभिः कार्यं कर्तव्यं तदुदाहर्तुमर्हसीति योजना ॥ ४।३३।४८ ॥
सेति । धर्मार्थसमाधियुक्तं धर्मार्थधैर्यसम्पादकमित्यर्थः । गतार्था अवगतप्रयोजना ॥ ४।३३।४९ ॥
त्वदर्थकामस्य त्वत्प्रयोजनपरस्य ॥ ४।३३।५० ॥
अपकृष्टसत्त्वे सत्त्वगुणहीने, क्षुद्र इत्यर्थः । सत्त्वावरुद्धः रजस्तमसोरनुप्रवेशाय सत्त्वगुणेन निरुद्धः । तपसः प्रसूतिः उपशमरूपतपस उत्पत्तिस्थानम् ॥ ४।३३।५१ ॥
अस्मद्दोषमेव निवारयन्ती त्वं तद्धेतुं न जानासीत्यत आह जानामीति । हरिवीरबन्धोः रामस्य रोषं रोषस्वभावं जानामि । कार्यस्य उद्योगरूपकार्यस्य कालसङ्गं कालाविलम्बं च जानामि । यदत्र कार्यमस्मिन्नुपकारे अस्माभिर्यत्सीतान्वेषणादिकं कर्तव्यं तच्चापि जानामि ॥ ४।३३।५२ ॥
तच्चेति । हे नरश्रेष्ठ शरीरजस्य कामस्य बलं यथा अविषह्यं तच्चापि जानामि । अद्य सुग्रीवं यस्मिन् जने कामेन असक्तमनवरतमवबद्धं जानामि । तं स्त्रीजनं जानामीति योजना । कामेन असक्तं सुग्रीवम् अद्य यस्मिन् जने अवबद्धं जानामीति वा योजना ॥ ४।३३।५३ ॥
लक्ष्मणसंरम्भोपशमार्थं स्वप्रागल्भ्येन सखेलोक्तिमाह न कामतन्त्र इत्यादि । त्वं यथा येन प्रकारेण मन्युवशं प्रपन्नः तेन प्रकारेण ममैव कामतन्त्रे जलक्रीडादौ तव बुद्धिर्नास्ति । कामतन्त्राभिज्ञश्चेत्तादृशं न द्वेष्टीति भावः । कामतन्त्रप्रवणः किमपि न जानातीत्याह न देशकालविति ॥ ४।३३।५४,५५ ॥
किञ्च विशेषतो राज्ञः कामासक्तिर्नाश्चर्यकारिणीत्यभिप्रायेणाह महर्षय इति । काममनुसृत्य कामयन्त इति कामानुकामाः ॥ ४।३३।५६,५७ ॥
उद्योग इति । अर्थप्रतिसाधने कार्यसाधनविषये ॥ ४।३३।५८,५९ ॥
चारित्रं रक्षितम् अन्तःपुरस्त्र्यवलोकनमनुचितमिति अत्रैव तिष्ठता त्वया सदाचारो रक्षित इति भावः । अच्छलम् अदोषावहमित्यर्थः ॥ ४।३३।६० ॥
तारया चेत्यादिश्लोकचतुष्टयमेकान्वयम् । प्रमदाभिस्समन्तत इति पाठः । अत्र प्रमदाभिः सममिति छेदः । प्रमदाभिस्समं सुग्रीवं ददर्श, ततस्संरब्धतररक्ताक्षो बभूवेति सम्बन्धः । प्रमदाभिररिन्दम इति पाठे अरिन्दमः अरिषड्वर्गजेता ॥ ४।३३।६१६४ ॥
सुग्रीवस्य तदानीन्तनावस्थामाह रुमामित्यादि ॥ ४।३३।६५ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां त्रयस्त्रिंशः सर्गः ॥ ३३ ॥