अङ्गदस्येति । अङ्गदस्य प्राधान्यादङ्गदवचः श्रुत्वेत्युक्तम् ॥ ४।३२।१ ॥
मन्त्रकुशलः मन्त्रप्रयोगकुशलः । मन्त्रेषु परिनिष्ठितः नीतिप्रयोगनिपुण इत्यर्थः ॥ ४।३२।२ ॥
लक्ष्मणक्रोधनिमित्ताभावानाह न म इति । मे मयेत्यर्थः ॥ ४।३२।३ ॥
असुहृद्भिः अशोभनहृदयैः ॥ ४।३२।४ ॥
तावत् प्रथमम् । भावः चेष्टा । निश्चयः अध्यवसायः । तावत् साकल्येन ॥ ४।३२।५,६ ॥
मित्रस्यास्थानकोपसम्भावनायां लोकन्यायमाह सर्वथेति । अल्पेप्यपराधे सतीति शेषः ॥ ४।३२।७ ॥
अत इति । महात्मना रामेण यदुपकृतं तत्तु मया प्रतिकर्तुं न शक्यम्, अतो ऽस्मान्निमित्तात् त्रस्तोहमिति सम्बन्धः ॥ ४।३२।८ ॥
तर्केण ऊहेन ॥ ४।३२।९ ॥
सर्वथेति । उपकारं न विस्मरसीति यत् नैतदाश्चर्यम् ॥ ४।३२।१०१५ ॥
आर्तस्येति । पुरुषान्तरात् लक्ष्मणात्, आगतमिति शेषः ॥ ४।३२।१६,१७ ॥
मत्परुषवचनेन त्वया आग्रहो न कार्य इत्याशयेनाह नियुक्तैरिति । पार्थिवः राजा । अवधृतं निश्चितम् ॥ ४।३२।१८ ॥
उक्तानङ्गीकारे बाधकसूचनाय रामसामर्थ्यमाह अभिक्रुद्ध इति ॥ ४।३२।१९,२० ॥
तस्येति । तद्वश इति प्रथमान्तपाठस्साधुः । सप्तम्यन्तपाठे स्वसमय इत्यत्र वर्तमान इति शेषः । ४।३२।२१ ॥
न रामेति । सुरेन्द्रवर्चसः सराघवस्य सलक्ष्मण्य अस्य रामस्य मानुषं बलं दिव्यास्त्रादिबलमन्तरेण केवलं स्वाभाविकं बलमित्यर्थः । ते मनो ज्ञास्यति हि जानात्येव, सालगिरिभेदनादौ दृष्टचरत्वादिति भावः ॥ ४।३२।२२ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां द्वात्रिंशः सर्गः ॥ ३२ ॥