०३१ रामेण लक्ष्मणप्रेषणम्

स कामिनमिति । गायत्र्याः “दे” इत्येकादशाक्षरं स कामिनं दीनमित्यस्य श्लोकस्य त्रिंशाक्षरेण “दे” इत्यनेन सङ्गृह्णाति । दीनं वैवर्ण्यादियुक्तम् ॥ ४।३१।१ ॥

स वानर इति । साधुवृत्ते साधूनां मित्रसमानसुखदुःखानां सुहृदां वृत्ते न स्थास्यति । कर्मफलानुषङ्गात् अग्निसाक्षिकसख्यरूपकर्मणा प्राप्तवालिनिरसनराज्यदाररूपफलानुबन्धाद्धेतोः न मंस्यते, अस्मानिति शेषः । वानरराज्यलक्ष्मीं न भोक्ष्यते तथा हि अस्य बुद्धिर्नाभिक्रमते, अस्मत्प्रयोजनाभिमुख्येन न वर्तत इति योजना । अस्मानुप्रेक्ष्य एतत्सर्वमनुभवितुं नार्हतीति भावः । वानरराज्यलक्ष्मीं वालिराज्यलक्ष्मीम् ॥ ४।३१।२ ॥

एतदेव विशदयति मतीति । तव प्रसादे उपकारे विषये । अप्रतिकारबुद्धिः प्रत्युपकारबुद्धिरहितः ॥ ४।३१।३ ॥

विचयम् अन्वेषणम् ॥ ४।३१।४ ॥

रामो लक्ष्मणाभिप्रायं विज्ञाय चतुर्थोपायनिवारणपूर्वकं सानुनयमाह तमिति । निवेदितार्थं ज्ञापितप्रयोजनम् । स्ववेक्षितं सुष्टु निरूपितम् ॥ ४।३१।५ ॥

नहीति । पापं मित्रहननाध्यवसायरूपम् । आर्येण सम्यग्विवेकेन । यो हन्ति निवारयति ॥ ४।३१।६ ॥

इदं मित्रहननाध्यवसायरूपम् । साधुवृत्तेन साधुत्वेन पूर्ववृत्तं च सङ्गतं पूर्वकृतसख्यरूपबान्धवं च ॥ ४।३१।७ ॥

सामेति । व्यतीतं व्यतिक्रान्तवन्तम् । कालपर्यये कालक्रमविषये । व्यतीतं कालपर्ययम् इति च पाठः । रूक्षाणि परुषवचनानि ॥ ४।३१।८ ॥

सो ऽग्रजेनेत्यादिश्लोकद्वयं वक्ष्यमाणस्य सङ्ग्रहः ॥ ४।३१।९ ॥

तत इति । प्रतिसंरब्धः प्रतिनिवृत्तहननाध्यवसाय इत्यर्थः ॥ ४।३१।१० ॥

मन्दरो मन्दराख्यः सानुमान् पर्वत इव ॥ ४।३१।११ ॥

यथोक्तकारीति । वचनं सुग्रीवं प्रति स्वेन वक्तव्यं वचनम् । यथोक्तकारीति वचनादिदं वचनं रामोपदिष्टमिति मन्तव्यम् । उत्तरं स्ववचनस्य सुग्रीवेण वक्ष्यमाणमुत्तरं सोत्तरं स्वेन वक्ष्यमाणेनोत्तरेण सहितं मत्वा आलोच्य ॥ ४।३१।१२ ॥

प्रभञ्जन इव वायुरिव ॥ ४।३१।१३ ॥

पर्यस्यन् क्षिपन् ॥ ४।३१।१४ ॥

दूरमेकपदं त्यक्त्वा एकपदं पाश्चात्यं पादं दूरं यथा तथा त्यक्त्वा, अनेन पौरस्त्यपादस्य दूरनिक्षेपस्सूचितः ॥ ४।३१।१५२६ ॥

तत इति । प्राकारपरिघान्तरात् निष्क्रम्य आविष्कृतं प्रकटं यथा तथा तस्थुः ॥ ४।३१।२७२९ ॥

बाणेति । बाणशल्यस्फुरज्जिह्वः बाणशल्यमेव स्फुरन्ती जिह्वा यस्य स तथोक्तः । पञ्चास्यः पन्नग इव बभूवेति पूर्वेण सम्बन्धः ॥ ४।३१।३० ॥

अथेत्यादि । अङ्गदवचः श्रुत्वा तेनैव समागतौ मन्त्रिणौ उच्चावचं वक्तुं प्राप्तं लक्ष्मणं शशंसतुरिति सम्बन्धः । दारदर्शिनौ अन्तःपुरप्रवेशयोग्यौ ॥ ४।३१।४२,४३ ॥

प्रसादयित्वेत्यादि भव सत्यप्रतिश्रवः इत्यन्तमेकं वाक्यम् । अत्र शशंसतुरित्यनुषज्यते ॥ ४।३१।४४,४५ ॥

यस्य भीताः यस्माद्भीताः ॥ ४।३१।४६ ॥

वाक्यसारथिः वाक्यमेव सारथिवत् प्रवर्तकं यस्य सः ॥ ४।३१।४७,४८ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायाम् एकत्रिंशः सर्गः ॥ ३१ ॥