अथ उक्तानुवादपूर्वकं रामस्य वृत्तान्तमाह गुहामिति । सुग्रीवेविमुक्त इत्यत्र अविमुक्त इति छेदः । सुग्रीवे गुहां किष्किन्धां प्रविष्टे गगने घनैरविमुक्ते आवृते सति
वर्षरात्रोषितो रामः पाण्डरं गगनं दृष्ट्वा मुमोहेत्युत्तरत्र सम्बन्धः ॥ ४।३०।१३ ॥
स त्विति । मनस्स्थामपि परमप्रियास्पदत्वेन नित्यसन्निहितामपि राक्षसगेहे कामवस्थामनुभवतीति चिन्तयामासेत्यर्थः ॥ ४।३०।४,५ ॥
दृष्ट्वेति । सारसारवसंघुष्टं सारसानामारवैः संघुष्टं व्योम दृष्ट्वेति सम्बन्धः ॥ ४।३०।६ ॥
सारसेति । सारसारवसन्नादैः सारसारवोत्थितध्वनिभिः या मे बाला आश्रमे रमते अरमत सा अद्य रक्षोवशं प्राप्ता कथं रमते ॥ ४।३०।७ ॥
पुष्पितानिति । पश्यन्ती मद्दिदृक्षया इतस्ततः दृष्टिं विक्षिपन्ती ॥ ४।३०।८१० ॥
सरांसीति । काननानि लतावृतगुल्मप्रदेशान् ॥ ४।३०।११ ॥
शरद्गुणनिरन्तरः शरद्गुणैस्साधनैः निरन्तरः पूर्णः कामः सौकुमार्यान्मद्बिरहाच्च हेतोः तां भामिनीं दूरं आमरणं च न पीडयेदपि । अपिः पदार्थसम्भावनायाम्, पीडयेदेवेत्यर्थः ॥ ४।३०।१२ ॥
त्रिदिवेश्वरात् सलिलमुद्दिश्य सारङ्ग इव चातक इव विललापेति सम्बन्धः ॥ ४।३०।१३ ॥
तत इति । चञ्चूर्य कुटिलं चरित्वा, फलाभिलाषेण कुटिलमार्गेषु चरित्वेत्यर्थः ॥ ४।३०।१४,१५ ॥
आर्य यदा यस्मिन्काले । समाधिः चित्तसमाधानं सम्पादनीयम् । अत्र अस्मिन्काले अयं किं संह्रियते किमर्थं संह्रियते? कामस्य वशंगतेन किं कामवशगमनेन किम्? द्वितीयाया अलुगार्षः । भावे निष्ठा । आत्मपौरुष्यपराभवेन किम्? पोरुषमेव पौरुष्यम् । निवर्तितेन योगेन किम्? योगः सन्नहनम्, उद्योग इत्यर्थः । धैर्यालम्बनेन उद्योगे कर्तव्ये तत्परित्यागेन कामपरतन्त्रत्वादिकमयुक्तमिति भावः ॥ ४।३०।१६ ॥
क्रियाभियोगमिति । हे अधिकसत्त्व क्रियाभियोगं कार्योद्योगं मनः प्रसादं समाधियोगानुगतं धैर्योपायाभ्यामनुबद्धं कालं च सुग्रीवादिसहायसामर्थ्यं स्वकर्महेतुं च स्वकर्म देवतोपासनात्मकं तदेव हेतुः तं च हेतुं कुरुष्व, क्रियाभियोगादिकं सर्वं स्वकार्यसिद्धौ हेतुं कुरुष्वेत्यर्थः ॥ ४।३०।१७ ॥
नेति । अग्निचूडां अग्निशिखाम् । त्वयैव सनाथा न परेण नान्येन, अग्निचूडामुपेत्य न न दह्यते कच्चित् किन्तु दह्यत एवेत्यर्थः ॥ ४।३०।१८ ॥
सलक्षणमिति । रामः अप्रधृष्यं युक्तिभिरविचाल्यम्, स्वभावजं स्वभावसिद्धं हितं उदर्कसुखकरं पथ्यं तत्कालसुखकरं नयप्रसक्तं राजनीतियुक्तं ससाम सामवादसहितं धर्मार्थसहितं च वाक्यमुक्तवन्तं लक्ष्मणं सलक्ष्मणमुवाचेत्यन्वयः ॥ ४।३०।१९ ॥
निस्संशयमिति । हे कुमार प्रवृत्तस्य दुरासदस्य कार्यस्य फलं सीताप्राप्तिरूपं न चिन्त्यमिति न, किन्तु चिन्त्यमेव । क्रियाविशेषः उत्साहादिः । सो ऽपि अनुवर्तितव्यो हि अनुवर्तितव्य एव । कार्यं सीतान्वेषणादि । निस्संशयमवेक्षणीयम्, निस्संशयं यथा तथा कर्तव्यमित्यर्थः ॥ ४।३०।२०,२१ ॥
सम्प्रतीति । सूर्याग्रपादप्रतिबोधितेषु सूर्यस्य प्रथमप्रसृतकिरणविकसितेषु ॥ ४।३०।३० ॥
सप्तच्छदानामिति कर्मणिषष्ठी । ताननुसारी अनुसृत्य वर्तमानः पवनः मत्तद्विपानां दर्पं करोतीति सम्बन्धः । प्रतिगजमदगन्धशङ्काजनकत्वेनेति भावः ॥ ४।३०।३१३४ ॥
मनोज्ञेति । प्रियकैः सर्जकैः ॥ ४।३०।३५ ॥
कुसुमोद्धतानां सप्तच्छदकुसुमाघ्राणेन मत्तानां मदोत्कटानां मदेनोद्भिन्नकटानाम् ॥ ४।३०।३६ ॥
व्यभ्रमिति । शस्त्रविधौतवर्णं धौतशस्त्रवर्णम् ॥ ४।३०।३७ ॥
सूर्यस्येति । “समुत्सादितसान्द्ररेणुः” इति पाठः ॥ ४।३०।३८ ॥
व्यपेतेति । ससारसारावविनादितासु ससारसाश्च तेषामारावविनादिताश्चेति तथा तासु । यद्वा ससारसाः रावविनादितास्विति छेदः ॥ ४।३०।४३ ॥
नदीति । प्लवङ्गमानां मण्डूकानाम् ॥ ४।३०।४४ ॥
अनेकेति । अम्बुधरेषु नवोदितेषु सत्सु सुतरां विनष्टाः सङ्कुचिताः कृताः कायाः येषां ते नष्टा अदृश्यमानाः, सञ्चाराभावादिति भावः ॥ ४।३०।४५,४६ ॥
रात्रिरिति । शशाङ्कोदितसौम्यवक्त्रा उदितशशाङ्कसौम्यवक्त्रा ॥ ४।३०।४७ ॥
विपक्वेति । प्रथिता सूत्रप्रोता माला स्रगिव ॥ ४।३०।४८ ॥
सुप्तेति । बिम्बप्रतिर्बिबभावेन प्रवृत्तेः उपमा ॥ ४।३०।४८५० ॥
वेणुस्वनेति । वेणुस्वनव्यञ्जिततूर्यमिश्रः वेणुस्वनविशेषितवाद्यमिश्रः । प्रत्यूषकालानिलसम्प्रवृत्तः अनिलसम्प्रयातः, अनिलसमाक्षिप्त इत्यर्थः । सम्मूर्च्छितः गर्गरगोवृषाणां गर्गराणां दधिमन्थनभाण्डानां गोवृषाणां च शब्दः अन्योन्यमापूरयतीव, प्रत्यूषकाले प्रबुद्धा गोपाः गोष्ठेषु वेणुवाद्यानि वादयन्ति, गोप्यो गर्गरांश्च मथ्नन्ति, गोवृषाश्च नदन्ति । तत्र समुदितशब्दः पवनेन प्रथत इत्यर्थः । गर्गरीशब्दस्य ङीबभावश्छान्दसः । “गर्गरी मन्थनीभाण्डी पुमान्मत्स्यविशेषके” इति निघण्टुः ॥ ४।३०।५१ ॥
नवैरिति । कुसुमप्रभासैः कुसुमभास्वरैः ॥ ४।३०।५२ ॥
पवनानुयात्रां पवनानुगमनम् । पद्मासनरेणुगौराः पद्मानामासनानां बन्धूकानां च रेणुभिर्गौराः । वनप्रचण्डाः वनसञ्चारक्षमाः । मधुपानेन शौण्डा विख्याताः “मत्ते शौण्डोत्कटक्षीबाः” इत्यमरः ॥ ४।३०।५३ ॥
जलमिति । वर्षव्यपनीतकालं शरत्कालमिति यावत् ॥ ४।३०।५४,५५ ॥
सचक्रवाकानीति । चक्रवाकशैवलकाशाः रोचनापत्ररेखावगुण्ठनदुकूलस्थानीयाः ॥ ४।३०।५६ ॥
प्रफुल्लेति । गृहीतचापोद्यतचण्डदण्डः गृहीतचापश्चासौ उद्यतचण्डदण्डश्च दण्डः शरविशेषः । यद्वा गृहीतचापेन उद्यतः प्रयुक्तः चण्डदण्डः तीक्ष्णदण्डनं येन स तथोक्तः ॥ ४।३०।५७६२ ॥
इयमिति । यात्रा प्रथमा दण्डयात्रा, उपस्थितेति शेषः ॥ ४।३०।६३ ॥
चत्वार इत्यादि । चक्रवाकी भर्तारमिव विषमं दण्डकारण्यम् उद्यानमिव या पृष्ठतः अनुगता गता इदानीं नष्टा तामपश्यतो मे मासा वर्षशतोपमा गता इत्यन्वयः ॥ ४।३०।६४६७ ॥
इत्येतैरिति । सुग्रीवस्य सुग्रीवेण ॥ ४।३०।६८७१ ॥
शुभमिति । येन प्रकारेण वाक्यमुदीरितं तेन प्रकारेण यः परिगृह्णाति निष्पादयति । यो हि वाक्यमुदीरितम् इति च पाठः ॥ ४।३०।७२ ॥
कृतार्था मित्राणां न भवन्ति, मित्राणामुपकारका न भवन्तीत्यर्थः । अस्य श्लोकस्यान्ते इतिकरणं द्रष्टव्यम् । इति सुग्रीवं ब्रूहीति पूर्वेण सम्बन्धः ॥ ४।३०।७३ ॥
अथ सुग्रीवमुद्दिश्य लक्ष्मणं सम्बोध्याह नूनमिति ॥ ४।३०।७४ ॥
पुनरिति वालिवधकृतधनुर्घोषश्रवणापेक्षयोक्तम् ॥ ४।३०।७५ ॥
काममिति । वीर नृपात्मज त्वत्सहायस्य मे एवंगते सालगिरिभूविदलनादिषु इत्थमप्रतिहते पराक्रमे कामं परिज्ञाते सत्यपि अस्य सुग्रीवस्य चिन्ता न स्यात् समयव्यतिक्रमे ऽपि हनिष्यतीति विचारो नाभूदित्यर्थः । यद्वा सुग्रीवव्यामोहातिशयं प्रति विस्मयवचनमेतत् । एवं गते त्वत्सहायस्य मे पराक्रमे कामं परिज्ञाते ऽपि अस्य सुग्रीवस्य चिन्ता मयि बुद्धिर्न स्यात् न भवेत्, अहो विस्मय इत्यर्थः ॥ ४।३०।७६ ॥
यदर्थमिति । अयमारम्भः सख्यकरणवालिनिरसनरूपः यदर्थं यस्मै सीतान्वेषणप्रयोजनाय कृतः समयं तद्विषयसङ्केतं प्लवगेश्वरो नाभिजानातीति सम्बन्धः ॥ ४।३०।७७ ॥
वर्षं तु वर्षाकालमेव समयकालं प्रतिज्ञाय अवस्थाय, सङ्केतकालं प्रतिज्ञायेत्यर्थः ॥ ४।३०।७८ ॥
सामात्येति । पीयत इति पानम् मद्यम् ॥ ४।३०।७९ ॥
मम रोषस्य यद्रूपं तत्सुग्रीवस्योच्यताम्, इदं वक्ष्यमाणं वचश्च ब्रूया इति सम्बन्धः ॥ ४।३०।८०८२ ॥
कार्य एवं विहिते एवमवस्थिते सति यद्धितं तत् ब्रूहि । कालव्यतिक्रमो मा भूदिति शेषः । अतस्त्वरेति सम्बन्धः ॥ ४।३०।८३ ॥
कुरुष्वेत्याद्युपन्यासः सङ्ग्रहेण सुग्रीवहितप्रदर्शनार्थम् ॥ ४।३०।८४ ॥
तीव्रां मतिं जिघांसामित्यर्थः ॥ ४।३०।८६ ॥
इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां त्रिंशः सर्गः ॥ ३० ॥