०२९ हनुमत्-सुग्रीवसंवादः

समीक्ष्येत्यादि “समृद्धार्थं च” इत्यादिना “कामवृत्तमवस्थितम्” इत्यन्तेनोक्तविशेषणविशिष्टं सुग्रीवं समीक्ष्य मधुरैर्वाक्यैर्हरीश्वरं प्रसाद्य हरीश्वरमुपागम्य हनुमान् प्रणयाद्वाक्यमब्रवीदिति सम्बन्धः । मन्दधर्मार्थसङ्ग्रहं मन्दौ स्वल्पौ धर्मार्धौ सङ्गृह्णातीति तथा । एकान्तगतमानसम् एकस्मिन्नेव कामपुरुषार्थे अन्तं निश्चयं गतं मानसं यस्य स तथोक्तः । निर्वृत्तकार्यं निष्पन्नवालिवधरूपकार्यं सिद्धार्थं प्राप्तराज्यम् । अभिप्रेतान् ईप्सितार्थान् मनोरथान् राज्यप्राप्त्यनन्तरमेवं करिष्यामीति मनोरथविषयभूतानर्थांश्च समीप्सितां तारां चपि प्राप्तवन्तमिति सम्बन्धः ॥ ४।२९।१५ ॥

उत्सन्नराज्यसन्देहः उत्सन्नः नष्टः राज्यसन्देहो यस्य स तथोक्तः, स्वेनारक्षितस्य राज्यस्य कुशलं भवति वा न वेति शङ्कारहितमित्यर्थः ॥ ४।२९।६,७ ॥

हितम् उदर्कसुखकरम् । पथ्यं नीतिमार्गादनपेतम् । सामधर्मार्थनीतिमत् साम च धर्मार्थनीतिश्च सामधर्मार्थनीति तदस्यास्तीति तथा । विश्वासकृतनिश्चयम् आप्तवाक्यत्वविश्वासेन कृतनिश्चयम् ॥ ४।२९।८,९ ॥

यो हीति । कालज्ञः प्रत्युपकारकालज्ञस्सन् मित्रेषु स्वोपकर्तृष्विति शेषः । यः साधु यथा तथा वर्तते ॥ ४।२९।१० ॥

यस्येति । दण्डः दण्ड्यते ऽनेनेति दण्डः, सैन्यविशेषः । तथाह कामन्दकः “अद्वैध्यः क्षत्रियप्रायो दण्डो दण्डविदां मतः” इति । समवेतानि अन्योन्यमनुकूलानि ॥ ४।२९।११ ॥

मित्रार्थं मित्रकार्यं अभिनीतार्थम् प्रापितप्रयोजनम् । यथार्थवत् यथाप्रतिज्ञमित्यर्थः ॥ ४।२९।१२,१३ ॥

यस्त्विति । कालव्यतीतेषु उचितकालविशेषातिक्रान्तेषु । अकाले कृतमकृतमिति भावः ॥ ४।२९।१४ ॥

यदिदमिति । वीर अरिन्दम नः कार्यम् अस्माभिः कर्तव्यम् यदिदं मित्रकार्यमस्ति तदिदं वीरकार्यं रामकार्यम् अरिन्दम ते कालातीतं युक्तकालमतिक्रम्य वर्तत इत्यर्थः । अस्मिन् श्लोके अरिन्दमेति द्विरुक्तिः स्त्रीमध्यगतेन सुग्रीवेण हर्षपुरस्सरं स्वोक्तमङ्गीकारयितुमिति वेदितव्यम् ॥ ४।२९।१५,१६ ॥

कथमहं न ज्ञातवानत आह न चेति । कालवित् कालज्ञापकः । (कर्तव्यमेवाह क्रियतामिति । तर्हि कार्यार्थी राम एव ज्ञापयिष्यतीत्यत आह न चेति ।) राम प्रेरितैरस्माभिः किमर्थं कर्तव्यम्? कर्तव्यं चेदपि केन प्रकारेण कर्तव्यमत आह त्वरमाण इत्यादिश्लोकद्वयेन । अप्रमेयस्वभावः कुलस्य बन्धुः स्वयं गुणैरप्रतिमश्च रामः त्वरमाणो ऽपि तव वशानुगः, अतस्त्वां न प्रेरयतीति शेषः ॥ ४।२९।१७,१८ ॥

तस्येति । किञ्च तेन पूर्वं तव कार्यं कृतम्, तस्य कार्यं कुरु । कर्तव्यप्रकारमाह हरीश्वरेति ॥ ४।२९।१९ ॥

इदानीं वानरप्रेषणे ऽपि कालात्ययदोषस्तदवस्थ एवेत्याशङ्क्य नेत्याह नहीति । चोदितस्य कार्यस्य हि कालव्यतिक्रमो भवेत्, कालात्यये सत्यपि चोदनानन्तरं कृतस्य कार्यस्य कालात्ययदोषो भवेदित्यर्थः । चोदनादृते आज्ञां विना क्रियमाणस्य कार्यस्य कालस्तावद्व्यतीतो न भवेत् कालातिक्रमदोषो न भवेदेव, अतो रामनियोगात्पूर्वमेव सीतान्वेषणार्थं वानरानयनोद्योगः कर्तव्य इति भावः ॥ ४।२९।२० ॥

अकर्तुरपि अनुपकर्तुरपि । कार्यस्य कर्ता । राज्येन धनेन च प्रतिकर्तुः ॥ ४।२९।२१ ॥

शक्तिमानिति । आज्ञायां किन्न सज्जसे किमर्थं विलम्बसे ॥ ४।२९।२२ ॥

नेति । अस्माकं मध्ये कस्यचिदपीति सम्बन्धः । यद्वा अधस्तात् पाताले अस्माकं मध्ये कस्यचिदपि न सज्जत इति सम्बन्धः ॥ ४।२९।२५२७ ॥

तदिति । अनघाः अप्रधृष्याः । कोट्यग्रतः कोट्यधिकाः हरयः ते सन्ति हि । तेषां मध्ये कः ते कृते त्वदर्थे किम्, करोत्विति शेषः । कुत्रचित्कुत्र व्यवस्यतु तदाज्ञापयेति योजना ॥ ४।२९।२८३० ॥

यथेति । सेनाग्राणि सेनाग्रेसरान् । तथा कुरु तथा आज्ञापय । असङ्गेन अविलम्बेन ॥ ४।२९।३१ ॥

ये त्विति । अन्तपालाः सेनापर्यन्तपालकाः ॥ ४।२९।३२ ॥

त्रिपञ्चेति । त्रिपञ्चरात्रादूर्ध्वं प़ञ्चदशरात्रादनन्तरदिवसे इह न प्राप्नुयात् तस्य प्राणान्तिको दण्ड इति योजना । त्रिपञ्चरात्रादूर्ध्वं यः प्राप्नुयादिह वानरः इति पाठे पञ्चदशरात्रादर्वागेवागन्तव्यमिति भावः । त्रिरावृत्तानां पञ्चानां रात्रीणां समाहारस्त्रिपञ्चरात्रः ॥ ४।२९।३३,३४ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायाम् एकोनत्रिंशः सर्गः ॥ २९ ॥