०२८ प्रावृड्वर्णनम्

। ॥ ४।२८।१ ॥

वर्षर्तोर्धर्मो विरहिभिर्दुस्सह इति हृदि निधाय तल्लक्षणमाह अयमिति । समयः सुग्रीवावस्थानावधित्वेन सङ्केतितः सो ऽयं कालः अद्य सम्प्राप्तः सम्प्रवृत्तः ॥ ४।२८।२ ॥

द्यौः भास्करस्य गभस्तिभिः किरणैः समुद्राणां रसं पीत्वा नवमासधृतं कार्त्तिकाद्याषाढपर्यन्तं रसायनं षड्रसानां कारणं गर्भं जलं प्रसूत इति योजना । “याभिरादित्यस्तपति रश्मिभिस्ताभिः पर्जन्यो वर्षति” इति श्रुतिरत्रानुसन्धेया ॥ ४।२८।३,४ ॥

सन्ध्यारागेति । सन्ध्यारागोत्थितैः उत्थितसन्ध्यारागैः, अन्तरान्तरा समुद्भिन्नसन्ध्यारागैरिति यावत् । अत एव ताम्रैः । अन्तेषु पर्यन्तेषु अधिकपाण्डरैः । स्निग्धैः किञ्चिज्जलरससम्बन्धैः अभ्रपटच्छेदैः अभ्राण्येव पटच्छेदाः तैः । अम्बरमाकाशं कर्तृ । बद्धव्रणमिव, व्रणगोपनाय निहितेन घृतादिनेत्यर्थः । प्रतीयत इति शेषः ॥ ४।२८।५ ॥

मन्दमारुतेति निश्वासनैरन्तर्यम्, सन्ध्याचन्दनेति शीतोपचारः, आपाण्डु इति विरहपाण्डुत्वं चोक्तम् ॥ ४।२८।६,७ ॥

मेघोदरेति । “शक्यमञ्जलिभिः पातुम्” इत्यनेन शैत्यमान्द्यसौरभ्यभूयस्त्वादादरातिशयेनाञ्जलिभिरादाय पातुं शक्यत इत्युच्यते ॥ ४।२८।८,९ ॥

मेघेति । धारायज्ञोपवीतिनः निर्झरधारोपवीतिनः । मारुतापूरितगुहा इत्यनेन शब्दहेतुत्वमुच्यते । प्राधीता इव अध्येतुमुपक्रान्ता इव ॥ ४।२८।१०१२ ॥

इमा इति । घनैरनुलिप्ता इव स्थिताः नष्टग्रहनिशाकराः अत एव प्रतिहताः प्रतिहतिं प्राप्ताः, अपरिज्ञातप्राच्योदीच्यादिविभागा इत्यर्थः । ता इमा दिशः मन्मथवतां मन्मथोत्सववताम्, सस्त्रीकाणामिति यावत् । हिता सुखकराः, विरहिणां तु दुःखकरा इति भावः ॥ ४।२८।१३ ॥

बाष्पाभिसंरुद्धान् नववारिपरिप्लुतमहीसमुद्गतोष्मणावृतत्वात् ॥ ४।२८।१४ ॥

सहिमः सशीकरः । निदाघदोषा ऊष्मस्वेदादयः । स्थिताः निवृत्ताः ॥ ४।२८।१५ ॥

मानसवासलुब्धाः मानसे सरसि वासाय लुब्धाः । यानानि रथशकटादीनि । न सम्पतन्ति न भ्रमन्ति ॥ ४।२८।१६ ॥

शान्तमहार्णवस्य निस्तरङ्गजलधेः ॥ ४।२८।१७ ॥

पर्वतधातुताम्रं पर्वतनिष्ठधातुसम्बन्धेन ताम्रम् । जलं शैलापगाः क्षद्रुनद्यः वहन्ति प्रवहन्ति ॥ ४।२८।१८२१ ॥

समुद्वहन्त इति । बलाकिनः मेघाः । सलिलातिभारं समुद्वहन्तः अत एव वारिधराः अत एव महीधराणां शृङ्गेषु विश्रम्य विश्रम्य प्रयान्तीति सम्बन्धः । लोके भारभृतामयं स्वभाव इति भावः ॥ ४।२८।२२ ॥

मेघाभिकामा गर्भधारणार्थं मेघमभिकामयत इति तथा । पौण्डरीकी मालेव श्वेतपङ्कजमालेव ॥ ४।२८।२३ ॥

शुकप्रभेण लाक्षोक्षितेनेति विशेषणद्वयेन कम्बलस्य प्राचुर्येण शुकप्रभत्वं मध्ये मध्ये लाक्षारसरञ्जितत्वं चोच्यते ॥ ४।२८।२४,२५ ॥

जाता इति । शिखिसुप्रलापा इति पाठः । शिखिनां मयूराणां सुप्रलापा येषु ते तथोक्ताः । सकदम्बशाखाः कदम्बपुष्पसहिताशाखाः ॥ ४।२८।२६ ॥

वहन्तीति । नद्यादयो यथाक्रमं वहन्तीत्यादिक्रियाभिः सम्बध्यन्ते ॥ ४।२८।२७,२८ ॥

धारेति । धारानिपातैः वर्षधारानिपातैः । पुष्परसैः पुष्पमकरन्दपानैरित्यर्थः । अवगाढं निबिडं मदं त्यजन्तीति सम्बन्धः ॥ ४।२८।२९ ॥

अङ्गारेति । अत्राङ्गारशब्दः शान्ताङ्गारवाची । समृद्धैः फलैरुपलक्षिताः जम्बूद्रुमाणां शाखाः प्रतिभान्तीति सम्बन्धः ॥ ४।२८।३०,३१ ॥

मार्गानुग इति । स्वनिवासभूमिशेलवनानुसारी मार्गानुगः मार्गानुगमनेन सम्प्रस्थितः पृष्ठतो मेघरवं निशम्य प्रतिनिवृत्त इति सम्बन्धः ॥ ४।२८।३२ ॥

अनेकाश्रयिणः गीतनृत्तमदाश्रयिणः ॥ ४।२८।३३ ॥

आपानभूमिः मधुपानस्थानम् । तत्तु कदम्बपुष्पाढ्यं मधुपूर्णं मत्तजनाभिरावं नृत्तयुक्तं च, इयं वनान्तभूमिरपि वर्षाकालसम्भूतैः रक्तवर्णैः कदम्बादिभिः पुष्पैराढ्या मधुसदृशवारिपूर्णा च मयूरनाम्नां मत्तानामभिरुतैः प्रनृत्तैश्च युक्तेत्यापानभूमिसादृश्यम् ॥ ४।२८।३४ ॥

मुक्तासकाशं मुक्ताभिः समानः काशः प्रकाशो यस्य तत्तथोक्तम् । विवर्णच्छदनाः विविधवर्णपक्षाः ॥ ४।२८।३५ ॥

षट्पादतन्त्रीमधुराभिधानं षट्पादाः भ्रमराः त एव तन्त्री तस्याः मधुरनादो यस्मिंस्तत् । प्लवङ्गमोदीरितमेव कण्ठतालो यस्मिन् तत् । मेघमृदङ्गनादैः आविष्कृतं प्रकटितम् । सङ्गीतं वनेषु प्रवृत्तमिवेति सम्बन्धः ॥ ४।२८।३६ ॥

सङ्गीतविषये केचिन्नृत्यन्ति, केचिद्गायन्ति, केचित्प्रधाना अनुभवन्ति । तत्सर्वं वने ऽपि सम्पाद्यते क्वचिदिति । नृत्यन्तो मयूराः नर्तकस्थानीयाः, वृक्षाग्रनिषण्णमयूराः अनुभवितृस्थानीयाः, नदन्तो मयूराः मृदङ्गस्थानीया गायकाश्च अतस्तैस्सङ्गीतं प्रवृत्तमिव ॥ ४।२८।३७ ॥

प्लवगाः मण्डूकाः । चिरसन्निरुद्धां दीर्घमनुस्यूतां निद्रां विहाय घनस्वनैः प्रबुद्धाः पुनर्जाताः अनेकाः (कारणं यथा तथा) निरूप्यन्ते ज्ञायन्त इत्यनेकरूपा आकृतयः अवयवसन्निवेशाः वर्णाः नीलपीतादयो येषां ते, नदन्तीत्यर्थः ॥ ४।२८।३८ ॥

स्वभर्तृसङ्गमिच्छन्तीभिरुत्कटमन्मथाविष्टाभिर्युवतिभिर्नद्य उपमीयन्ते नद्य इति । समुद्रा हितचक्रवाकाः वारिपूरेणोन्नमितचक्रवाकाः स्तनस्थानीयाः । तटानि शीर्णान्यपवाहयित्वेत्येतत् वृद्धपरिजनातिक्रमस्थानीयम् । नवोढोचितलज्जातिलङ्घनस्थानीयं वा, अत एव दृप्ताः, यौवनभरेणेति भावः । नवप्रावृतपूर्णभोगाः प्रावृतं फलाद्युपहारः, भोगः चन्दनकर्पूरकुसुमताम्बूलादिः । स्वभर्तारं समुद्रम् ॥ ४।२८।३९ ॥

दवाग्निदग्धेषु शैलेषु बद्धमूलाः दवाग्निदग्धाः शैला इव नीलेषु मेघेषु सक्ता नववारिपूर्णाः नीलमेघाः प्रविभान्तीत्यन्वयः ॥ ४।२८।४० ॥

सशक्रगोपाकुलशाद्वलानि इन्द्रगोपाख्यकीटविशेषप्रचुरशाद्वलसमेतानि ॥ ४।२८।४१,४२ ॥

निभृता निश्चलाः । दण्डयात्रादिव्यापाररहिता इत्यर्थः । प्रक्रीडित इति कर्तरि निष्ठा ॥ ४।२८।४३ ॥

मेघा इति । मेघा महाजलौघैः नद्यादीनपवाहयन्ति परिवाहयन्ति ॥ ४।२८।४४ ॥

वर्षप्रवेगाः अतिवेगा वृष्टय इत्यर्थः । विपुला निरन्तराः । विप्रतिपन्नमार्गाः विरुद्धं प्राप्तमार्गाः ॥ ४।२८।४५ ॥

नवै(रै)रभिषिच्यमाना नरेन्द्राः स्वां श्रियं राज्यं सम्पदमिव घनाम्बुकुम्भैरभिषिच्यमानाः पर्वतेन्द्रा रूपं स्वाकारं दर्शयन्ति नैर्मल्यविविधधातुभूषितत्वनानाविधपुष्पितवृक्षलताद्यलङ्कृतत्वविशिष्टं स्वाकारं दर्शयन्तीत्यर्थः ॥ ४।२८।४६,४७ ॥

महान्तीति । महान्ति कूटानि शिखराणि धाराभिर्धौतानि वर्षधाराभिः क्षालितानि । प्रपातैः निर्झरैः उपलक्षितानि भान्तीति सम्बन्धः ॥ ४।२८।४८ ॥

शैलेति । शैलोत्तमानां विपुलाः प्रपाताः निर्झराः शैलोपरि प्रस्खलमानवेगास्सन्तः सन्नादितबर्हिणासु गुहासु विकीर्यन्तः विकीर्यमाणाः हारा इवाभिभान्तीति योजना ॥ ४।२८।४९,५० ॥

वृत्तेति । नरेन्द्राणां यात्रा वृत्ता निवृत्ता, अतः पुरः प्रस्थिता सेना प्रतिनिवर्तते । सलिलेन समीकृताः वृष्टिबाहुल्यान्मार्गा निरुद्धाः अत एव वैराण्यपि निरुद्धानीत्यर्थः ॥ ४।२८।५३ ॥

विवक्षताम् अध्ययनं कर्तुमिच्छताम् । अध्यायः अध्ययनम् तस्य समयः ॥ ४।२८।५४ ॥

निवृत्तकर्मायतनः निवृत्तं कर्म यस्य तत् निवृत्तकर्म आयतनं गृहं यस्य स तथोक्तः, उपरतगृहव्यापार इत्यर्थः । आषाढीम् आषाढमासपरिसमाप्तिपौर्णमासीमभ्युपगतः व्रताङ्गत्वेन स्वीकृतवान् । तदुक्तं महाभारते “आषाढे तु सिते पक्षे एकादश्यामुपोषितः । चातुर्मास्यव्रतं कुर्याद्यत्किञ्चित्प्रयतो नरः । वार्षिकांश्चतुरो मासान् व्रतं किञ्चित्समापयेत् । असम्भवे तुलार्के ऽपि कर्तव्यं तत् प्रयत्नतः ।” इति ॥ ४।२८।५५,५६ ॥

वर्षाः वर्षाकालान् ॥ ४।२८।५७ ॥

क्लिन्नमार्द्रम् ॥ ४।२८।५८ ॥

शोकश्चेति । इमाः वर्षाः वर्षाकालः रावणः शोकश्चेति मे एतत्ित्रतयमपारं प्रतिभाति, दुर्निस्तरं प्रतिभातीत्यर्थः ॥ ४।२८।५९ ॥

अयात्रां राज्ञामेतत्कालोचितदण्डयात्राभावम् । प्रणते चैव, इदानीमेव सीतान्वेषणरावणहिंसनोद्योगः कर्तव्य इति प्रार्थनापूर्वकं प्रह्वीभूते ॥ ४।२८।६० ॥

अपिचेति । आत्मकार्यगरीयस्त्वात् अस्मत्प्रयोजनस्यातिमहत्त्वात्, अल्पयत्नेन अल्पकालेनासाध्यत्वादित्यर्थः । वक्तुं नियोक्तुं नेच्छामीति भूते लट् । परिक्लिष्टो दारैस्समागतः इति प्रथमान्तपाठे इतिकरणं द्रष्टव्यम् ॥ ४।२८।६१६३ ॥

उपकारेणेति । अकृतज्ञः कृतोपकारानभिज्ञः पुरुषः अप्रतिकृतः प्रत्युपकारमकुर्वन् सत्त्ववतां महात्मनां मनो हन्ति क्षोभयति । वीरः प्रत्युपकारकरणसमर्थः उपकारेण हेतुना प्रतिकारेण युज्यते हि युज्यत एव, सुग्रीवोप्येवंविधत्वात्प्रत्युपकारं करोतीति भावः ॥ ४।२८।६४६६ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायाम् अष्टाविंशः सर्गः ॥ २८ ॥