०२७ रामेण प्रस्रवणगिरिनिवासः

। ॥ ४।२७।१४ ॥

कृत्वेति । समयं कृत्वा शरदि दण्डयात्रेति सङ्केतं कृत्वेत्यर्थः । कालयुक्तं तत्कालोचितम् । लक्ष्मिवर्धनमित्यत्र ह्रस्वश्छान्दसः ॥ ४।२७।५ ॥

वर्षरात्रमिति जात्येकवचनमेतत् ॥ ४।२७।६,७ ॥

दरीदर्दुरशोभितमिति पाठः । दर्दुराः पाषाणसन्धयः ॥ ४।२७।८१० ॥

अत्र वसतोरावयोः सौकर्यातिशयो भविष्यतीत्याह इयं चेत्यादि । नलिनी पुष्करिणी । गुहायाः नातिदूरे भविष्यति । वर्षाकालस्य प्रवृत्तत्वात् भाविवारिपूरसमृद्ध्या गुहासमीपवर्तिनी भविष्यतीत्यर्थः ॥ ४।२७।११ ॥

प्रागुदगिति । प्रागुदक्प्रवणे देशे वर्तमाना गुहा साधु भविष्यति । प्रागुदक्प्रवणवर्तमानत्वाभिधानाद् गुहाया नैर्ऋत्यद्वारवर्तित्वमवगम्यते । अत एव पौरस्त्यवर्षप्रवेशाभावेन साधुत्वमुक्तं भवति । इयं पश्चादुन्नता पश्चाद्भागोन्नता अत एव पुरोवातनिरोधकत्वात् निवाता च भविष्यति ॥ ४।२७।१२१४ ॥

दक्षिणस्यामिति । श्वेतमिव रूप्यमिव “श्वेतं रूप्येपि” इत्यमरः । अपरं शृङ्गं पश्येति पूर्वेण सम्बन्ध ॥ ४।२७।१५१९ ॥

शतशा इति । एकैकमनुरक्तैः अन्योन्यानुरागयुक्तैः ॥ ४।२७।२०२२ ॥

पारिप्लवेति । पारिप्लवशतैः, पारिप्लवः जलोपरिसञ्चारीपक्षिविशेषः ॥ ४।२७।२३ ॥

चन्दनवृक्षाणां ककुभानामर्जुनवृक्षाणां च दृश्यम्, पश्य इति शेषः । मनसेवोदिताः समं मनसा सङ्कल्पेन समं यथा तथा उदिताः तेषां पङ्क्तिः पश्येति सम्बन्धः ॥ ४।२७।२४२६ ॥

गीतेति । गीतवादित्रनिर्घोषः श्रूयते मृदङ्गाडम्बरैः सह नर्दतां वानराणां निर्घोषश्च श्रूयत इति सम्बन्धः । “आडम्बरस्तूर्यरवः” इति विश्वः ॥ ४।२७।२७,२८ ॥

तस्मिन् प्रस्रवणे गिरौ । तत्र गुहायां न्यवसदिति सम्बन्धः ॥ ४।२७।२९,३० ॥

उदयाभ्युदितम् उदयपर्वतादुद्गतम् ॥ ४।२७।३१ ॥

तत्समुत्थेन सीतास्मरणसमुत्थेन ॥ ४।२७।३२,३३ ॥

शोचतः पुरुषस्य ॥ ४।२७।३४ ॥

भवानिति । क्रियापर इत्यनेन कार्यसिद्धिहेतुभूतपुरुषकारवत्त्वमुच्यते । दैवपरायणः भाग्यसम्पन्नः । उभयत्र हेतुः आस्तिक इति । व्यवसायी प्रशस्तोद्योगः ॥ ४।२७।३५ ॥

नहीति । विक्रमे जिह्मकारिणमिति पाठः । जिह्मकारिणं कुटिलम् । त्वम्

अव्यवसितः उद्योगशून्यः शत्रुं हन्तुं न समर्थ इति योजना ॥ ४।२७।३६,३७ ॥

पृथिवीमिति । परिवर्तयितुम् अधरोत्तरयितुम् ॥ ४।२७।३८,३९ ॥

अहन्त्विति । अहं तु दीप्तैः दीपकैः, वाक्यैरिति शेषः ॥ ४।२७।४०,४१ ॥

अनुरक्तेन अनुरागयुक्तेन । स्निग्धेन तत्कालोचितप्रियपरेण । हितेन उदर्कहितैषिणा । सत्यविक्रमयुक्तेन अमोघविक्रमयुक्तेन यद्वाच्यं तत्सर्वं त्वयोक्तमिति सम्बन्ध ॥ ४।२७।४२४४ ॥

सुग्रीवस्त्ववश्यमस्माकं प्रत्युपकारं करिष्यतीत्याशयेनाह उपकारेणेति । तुशब्दो ऽवधारणे । उपकारेण युक्तो वीरः, केनचित्कृतोपकारः पुरुष इत्यर्थः । प्रतीकारेण युज्यत एव प्रत्युपकारं करोत्येव । अकृतज्ञः अप्रतिकृतः, अकृतप्रत्युपकार इत्यर्थः । सत्त्ववतां परमसात्त्विकानां मनः हन्ति क्षोभयति ॥ ४।२७।४५ ॥

अथैवमिति । दर्शनं मतम् ॥ ४।२७।४६ ॥

नचिरात् कर्ता करिष्यति ॥ ४।२७।४७ ॥

ननु सुग्रीवः प्रत्युपकारं करोतु वा मा वा, अस्मत्कर्तव्यं रावणनिरसनमधुनैव करिष्याव इति क्रोधाविष्टं रामं पुनरनुनयन् प्रत्याह नियम्य कोपमिति । संवर्तयन् कालं सम्यज्ज्ञापयन् । प्रतिपाल्यतां प्रतीक्ष्यताम् ॥ ४।२७।४८ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां सप्तविंशः सर्गः ॥ २७ ॥