०२६ अङ्गदयौवराज्याभिषेकः

तत इति । शाखामृगमहामात्राः वानरप्रधानाः ॥ ४।२६।१५ ॥

स्नातः अभिषिक्तः । औषधैः अभिषेकद्रव्यैः ॥ ४।२६।६ ॥

गिरिगुहां किष्किन्धाम् । स्वामिसम्बन्धं वानराणां स्वामिना सह सम्बन्धं कुरुष्व, सुग्रीवं वानरराजं कुर्वित्यर्थः ॥ ४।२६।७१२ ॥

अस्तु भवदुक्तप्रकारेणाभिषेकादिकम्, मत्प्रार्थितः त्वया सम्पादितः सीतान्वेषणरावणनिरसनोद्योगो ऽद्यैव कर्तव्य इति सुग्रीवाभिप्रायमाशङ्क्याह पूर्वोयमित्यादिना । प्रवृत्ताः प्रवर्तितुमुपक्रान्ताः ॥ ४।२६।१३१५ ॥

तर्हि कदा मदुद्योगकाल इत्यत आह कार्त्तिक इति ॥ ४।२६।१६२१ ॥

प्रविश्येति । प्रविश्य स्थितमिति शेषः ॥ ४।२६।२२ ॥

शुक्लानीति । श्वेतमनुलेपनं कर्पूरद्रवः । प्रियङ्गुः फलिनीपुष्पम् । “प्रियङ्गुः फलिनी फली” इत्यमरः । यद्वा “प्रियङ्गुः सिद्धार्थसमे च” इति विश्वप्रकाशः । दधि चर्म चेति । समालम्भनमनुलेपनम् ॥ ४।२६।२३२७ ॥

ततस्त इत्यादि वसवो वासवं यथेत्यन्तमेकं वाक्यम् । द्विजर्षभान् वानरजातीयद्विजर्षभान् ॥ ४।२६।२८,२९ ॥

तत इति । हेमप्रतिष्ठाने वरास्तरणसंवृते इत्येतदुभयं वरासनविशेषणम् । हेमप्रतिष्ठाने हेममयपीठयुक्ते । नदीनदेभ्यः तीर्थेभ्यः समुद्रेभ्यश्च अपः संहृत्य आहृत्य च सम्मिलिताः कृत्वा विमलं जलं कनककुम्भेषु निधायेति सम्बन्धः । शास्त्रदृष्टेन महर्षिविहितेन । शास्त्रं वेदः, महर्षयः मन्वादयः ॥ ४।२६।३०३८ ॥

राममिति । तादृशे सुग्रीवाङ्गदाभिषेकरूपमहोत्सवे वर्तति वर्तमाने सति ॥ ४।२६।३९४१ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां षड्विंशः सर्गः ॥ २६ ॥