०२५ रामसान्त्वनम्

। ॥ ४।२५।१,२ ॥

लोकवृत्तमिति । बाष्पमोक्षणं कृतम् अलम्, लोकवृत्तं पारलौकिकं कर्मानुष्ठेयम्, कालाद्विहितात् कालादुत्तरम् उत्तरस्मिन् काले किञ्चित्कर्म किमपि कर्म उपासितुम् अनुष्ठातुं न शक्यम्, कालस्यानुपादेयत्वादिति भावः ॥ ४।२५।३ ॥

कालस्य प्राधान्यमेवोपपादयति नियतिरित्यादिना । नियम्यते अनयेति व्युत्पत्त्या नियतिः कालः । नियोगेषु नियमनेषु ॥ ४।२५।४ ॥

न कर्तेति । कस्याचिदपि कश्चिन्न कर्ता । नियोगे च नियमने च कश्चिदपि ईश्वरः स्वतन्त्रो न भवति, किन्तु लोकः स्वाभावे काले वर्तते परतन्त्रतया वर्तते, अतस्तस्य कालः परायणम् इष्टप्रापकत्वेनानिष्टवारकत्वेन च परमप्राप्यमित्यर्थः ॥ ४।२५।५ ॥

न काल इति । कालः महाकालः कालं प्राणिनां सुखदुःखप्रापकत्वेन दिवसपक्षमासर्त्वादिरूपमौपाधिकं कालं नात्येति नातिक्रामति । यस्मिन् काले जन्तुना सुखं दुःखं वा भोक्तव्यं तमतिक्रम्य कालान्तरेण भोजयितुं न समर्थ इत्यर्थः । न कालः परिहीयते न न्यूनतां प्राप्नोति । स्वभावं कालं समासाद्य कश्चिन्नातिवर्तते । वाशब्दो ऽवधारणे । निरङ्कुशस्वतन्त्रकालः स्वकृतां व्यवस्थां स्वयमपि नातिक्रामति । तत्परतन्त्रो ऽन्यः किमुतेति भावः ॥ ४।२५।६ ॥

कालः केनापि हेतुना वशीकर्तुं न शक्य इत्याह न कालस्येति । कालस्य पुरुषेण सह वशीकरणहेतुभूतं बन्धुत्वं नास्ति । तथा वशीकरणहेतुर्मित्रज्ञातिसम्बन्धो ऽपि नास्ति । न हेतुः वशीकरणोपायभूतः पुरुषकृतोपकारादिर्नास्ति । न पराक्रमः वशीकरणोपायः पुरुषकृत पराक्रमो ऽपि नास्ति । अतः कारणं सर्वकारणभूतः कालः । आत्मनः पुरुषस्य वशो न भवति पुरुषाधीनो न भवति ॥ ४।२५।७ ॥

किं तर्हीत्यत आह किन्त्विति । साधु पश्यता श्रेयः पश्यता । स्वात्महितं पश्यता, विवेकिनेत्यर्थः । सर्वो ऽपि लोकव्यवहारः कालपरीणामो द्रष्टव्यः । स्वापेक्षितहेतुभूतः कालपरिणामः प्रेक्षणीयः । प्रेक्षणीयत्वे हेतुमाह धर्मश्चेति । धर्मश्चार्थश्च कामश्च कालक्रमसमाहिताः पूर्वाह्णमध्याह्नापराह्णकालक्रमायत्ताः, यस्मिन्काले यत्कर्म कर्तव्यं स कालो ऽनुल्लङ्घनीय इति भावः ॥ ४।२५।८ ॥

इत इति । स्वां प्रकृतिं गतः मद्बाणकृतवधेन कृतप्रायश्चित्ततया स्वकीयं शुद्धभावं प्राप्तः सः प्लवगेश्वरो वाली । इतः अस्माल्लोकात् । धर्मार्थकामसंयोगैः विहितकालानुष्ठितधर्मार्थकामसम्बन्धैः । पवित्रं क्रियाफलं स्वर्गं प्राप्त इति योजना ॥ ४।२५।९ ॥

स्वधर्मस्य चेति । स्वधर्मसंयोगात् स्वविहितकर्मानुष्ठानात् स्वर्गो जितः पूर्वं स्ववशी कृतः, इदानीं युद्धे प्राणानपरिरक्षता परिगृहीतश्चेति सम्बन्धः ॥ ४।२५।१० ॥

नियतिः मृतिः प्राप्तकालम् एतत्कालोचितम् ॥ ४।२५।१११३ ॥

समाज्ञापयेति । वालिसंस्कारकारणात् काष्ठानि समाज्ञापय, काष्ठानयनार्थं समाज्ञापयेत्यर्थः । वालिसंस्कारकारणात् अङ्गदं च समाश्वासयेति सम्बन्धः । गतचेतसमिति पाठे गतचेतसम् इतिकर्तव्यतामूढम् । अनन्तरं यदानेतव्यं तदानयेति सम्बन्धः ॥ ४।२५।१४१६ ॥

त्वमिति । सम्भ्रमाद्वेगात् । गुणवती त्वरा अस्मिन् काले विशेषतो युक्ता हीति सम्बन्धः ॥ ४।२५।१७ ॥

सज्जीभवन्त्विति । ये निर्हरिष्यन्ति ते सज्जीभवन्त्वित्यर्थः ॥ ४।२५।१८२१ ॥

दिव्यामिति । भद्रासनयुतां राजासनयुक्ताम् । पक्षिकर्मभिराचित्रां पक्षिप्रकृतिकर्मभिः आ समन्तात् चित्राम् । द्रुमकर्मविभूषितां द्रुमप्रकृतिभिः कर्मभिर्भूषिताम् । चित्रपत्तीभिः चित्ररचनाविशेषैर्वा । चित्रपङ्क्तीभिरिति वा पाठः । सुनिविष्टां शोभनसन्निवेशाम् । जालवातायनान्वितां जालैर्वातायनैश्च अन्विताम् । कुड्योपरि निर्यगवस्थितफलकनिर्मितविविधसन्निवेशरन्ध्राणि जालानि । वातायनानि वायुप्रवेशार्थगवाक्षाकाररन्ध्राणि । सुनियुक्तां सुश्लिष्टाम् ॥ ४।२५।२२२४ ॥

दारुपर्वतकोपेतां दारुनिर्मितक्रीडापर्वतयुक्ताम् । वराभरणहारैश्च, युक्तामिति शेषः ॥ ४।२५।२५ ॥

गुहागहनसञ्छन्नां क्रीडार्थं निर्मितदुष्प्रवेशगुहाकारावरणनिबिडाम् ॥ ४।२५।२६२९ ॥

आज्ञापयदित्यस्मिन् श्लोके विश्राणयन्त इति श्लोके च इतिकरणं द्रष्टव्यम् । विश्राणयन्तः विकिरन्तः । श्लोकद्वयस्याज्ञापयदित्यनेन सम्बन्धः ॥ ४।२५।३०३३ ॥

प्रणिहिताः अत्यन्ताप्ताः ॥ ४।२५।३४३६ ॥

इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां किष्किन्धाकाण्डव्याख्यायां पञ्चविंशः सर्गः ॥ २५ ॥